अध्यायः 104
					अथ दानधर्मपर्व ॥ 1 ॥
					 भीष्मेण युधिष्ठिरम्प्रति गोभूविद्यादानप्रशंसनम् ॥ 1 ॥ 
					
						युधिष्ठिर उवाच । 
					
						भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् ।
						कथयस्व महाप्राज्ञ भूमिदानं विशेषतः ॥
					 
					
						पृथिवीं क्षत्रियो दद्याद्ब्राह्मणायेष्टिकर्मिणे ।
						विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ॥
					 
					
						सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः ।
						वेदे वा यत्समाख्यातं तन्मे व्याख्यातुमर्हसि ॥
						भीष्म उवाच । 
					 
					
						तुल्यनामानि देयानि त्रीणि तुल्यफलानि च ।
						सर्वकामफलानीह गावः पृथ्वी सरस्वती ॥
					 
					
						यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् ।
						पृथिवीगोप्रदानाभ्यां तुल्यं स फलमश्नुते ॥
					 
					
						तथैव गाः प्रशंसन्ति न तु देयं ततः परम् ।
						सन्निकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर ॥
					 
					
						मातरः सर्वभूतानां गावः सर्वसुखप्रदाः ।
							वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः
						
					 
					
						सन्ताड्या न तु पादेन गवां मध्ये न च व्रजेत् ।
						मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव गाः ॥
					 
					
						प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् ।
						पूर्वमेवाक्षरं चान्यदभिधेयं ततः परम् ॥
					 
					
						प्रचारे वा निवाते वा बुधो नोद्वेजयेत गाः ।
						तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ॥
					 
					
						पितृसद्मानि सततं देवतायतनानि च ।
						पूयन्ते शकृता यासां पूतं किमधिकं ततः ॥
					 
					
						घासमुष्टिं परगवे दद्यात्संवत्सरं तु यः ।
						अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥
					 
					
						स हि पुत्रान्यशोऽर्थं च श्रियं चाप्यधिगच्छति ।
						नाशयत्यशुभं चैव दुःस्वप्नं चाप्यपोहति ॥
						युधिष्ठिर उवाच । 
					 
					
						देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत् ।
						कीदृशाय प्रदातव्या न देयाः कीदृशाय च ॥
						भीष्म उवाच । 
					 
					
						असद्वृत्ताय पापाय लुब्धायानृतवादिने ।
						हव्यकव्यव्यपेताय न देया गौः कथञ्चन ॥
					 
					
						भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये ।
						दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ॥
					 
					
						`जुहोति यद्भोजयति यद्ददाति गवां रसैः ।
							सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवर्तितः ॥'
						
					 
					
						यश्चैव धर्मं कुरुते तस्य धर्मफलं च यत् ।
						सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः ॥
					 
					
						यश्चैनमुत्पादयते यश्चैनं त्रायते भयात् ।
						यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः ॥
					 
					
						कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः ।
						अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः ॥
					 
					
						वेदान्तनिष्ठस्य बहुश्रुतस्य
							प्रज्ञानतृप्तस्य जितेन्द्रियस्य ।
						
						शिष्टस्य दान्तस्य यतस्य चैव
							भूतेषु नित्यं प्रियवादिनश्च ॥
						
					 
					
						यः क्षुद्भयाद्वै न विकर्म कुर्या-
							न्मृदुश्च शान्तौ ह्यतिथिप्रियश्च ।
						
						शुभे पात्रे ये गुणा गोप्रदाने
							तावान्दोषो ब्राह्मणस्वापहारे ।
						
					 
					
						सर्वावस्थं ब्राह्मणस्वापहारे
							दाराश्चैषां दूरतो वर्जनीयाः ॥
						
					 
					
						`विप्रदारे परिहृते तद्धनेऽपहृते च तु ।
						परित्रायन्ति शक्तास्तु नमस्तेभ्यो मृताश्च ये ॥
					 
					
						न पालयन्ति निहतान्ये तान्वैवस्वतो यमः ।
						दण्डयन्भर्सयन्नित्यं निरयेभ्यो न मुञ्चति ॥
					 
					
						तथा गवां परित्राणे पीडने च शुभाशुभम् ।
							विप्रगोषु विशेषेण रक्षितेषु गृहेषु वा ॥' ॥
					 
					 इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुरधिकशततमोऽध्यायः ॥ 104 ॥ 
					 7-104-2 इष्टिकर्मिणे याज्ञिकाय ॥ 7-104-4 तुल्यनामानि
						गोपदवाच्यानि ॥ 7-104-6 देयं दानयोग्यम् । परं श्रेष्ठम् ॥ 7-104-9 गवां
						बलीवर्दानां कर्मसु यज्ञाद्यर्थेषु कृष्याद्यर्थेषु कर्षणादिषु वर्ततां
						प्रचोदनं प्रतोदेन प्रेरणं देवैः कृतमिति न तत्र दोष इति भावः । तथापि पूर्वं
						यज्ञार्थमेव चोदनमक्षरं श्रेयस्करम् । अन्यत्कृष्याद्यर्थं तु ततः परं
						वैदिककर्षणमनुप्रवृत्तमभिधेयं वाच्यं निन्द्यमित्यर्थः ॥ 7-104-10 निवाते
						कठिनोपवेशने । अभिवीक्षन्त्यो जलमलभमानाः ॥ 7-104-12 आहारं
						तदीयतक्राद्याहरणमकृत्वा ॥ 7-104-21 वेदान्तनिष्ठस्य वृत्तिं
						अतिसृजेतेत्युत्तरेणान्वयः । चतुर्ध्यर्थे षष्ठी ॥ 
					
					
					
					
					श्रीः