अध्यायः 107
अथ दानधर्मपर्व ॥ 1 ॥
युधिष्ठिरम्प्रति भीष्मेण गोदानफलविशेषविषयकेन्द्रप्रश्नानुवादः ॥ 1 ॥
युधिष्ठिर उवाच ।
उक्तं ते गोप्रदानं वै नाचिकेतमृषिं प्रति ।
माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो ॥
नृगेण च महद्दुःखमनुभूतं महात्मना ।
एकापराधादज्ञानात्पितामह महामते ॥
द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः ।
मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया ॥
किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो ।
तत्त्वतः श्रोतुमिच्छामि गोदा यत्र वसन्त्युत ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथाऽपृच्छत्पद्मयोनिमेतदेव शतक्रतुः ॥
शक्र उवाच ।
स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वयाऽर्चिषा ।
गोलोकवासिनः पश्ये वदतां संशयोऽत्र मे ॥
कीदृशा भगवँल्लोका गवां तद्बूहि मेऽनघ ।
यानावसन्ति दातार एतदिच्छामि वेदितुम् ॥
कीदृशाः किंफलाः किंस्वित्परमस्तत्र को गुणः ।
कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः ॥
कियत्कालं प्रदानस्य दाता च फलमश्नुते ।
कथं बहुविधं दानं स्यादल्पमपि वा कथम् ॥
बह्वीनां कीदृशं दानमल्पानां वाऽपि दीदृशम् ।
अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे
कथं वा बहुदाता स्यादल्पदात्रा समः प्रभो ।
अल्पप्रदाता बहुदः कथं स्वित्स्यादिहेश्वर ॥
कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते ।
एतत्तथ्येन भगवन्मम शंसितुमर्हसि ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ताधिकशततमोऽध्यायः ॥ 107 ॥
7-107-2 एकापराधादज्ञानान्नृगस्तां दुर्गतिं गतः । इति ट. ध. पाठः ॥
श्रीः