अध्यायः 111
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरम्प्रति गोदानविधिफलादिकथनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
विधिं गवां परं श्रोतुमिच्छामि नृप तत्त्वतः ।
येन ताञ्शाश्वताँल्लोकानर्थिनां प्राप्नुयादिह ॥
भीष्म उवाच ।
न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप ।
गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ॥
सतामर्थे सम्यगुत्पादितो यः
स वै क्लृप्तः सम्यगाभ्यः प्रजाभ्यः ।
तस्मात्पूर्वं ह्यादिकालप्रवृत्तं
गोदानार्थं शृणु राजन्विधिं मे ॥
पुरा गोष्ठे निलीनासु गोषु सन्दिग्धदर्शिना ।
मांधात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत ॥
द्विजानामन्त्र्य सत्कृत्य प्रोक्तं कालमुपोष्य च ।
गोदानार्थे प्रयुञ्जीत रोहिणीं नियतव्रतः ॥
आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च ।
प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ॥
गौर्मे माता वृषभः पिता मे
दिवं गर्भं जगती मे प्रतिष्ठा ।
प्रपद्यैवं शर्वरीमुष्य गोषु
पुनर्वाणीमुत्सृजेद्गोप्रदाने ॥
स तामेकां निशां गोभिः समसख्यः समव्रतः ।
ऐकात्म्यगमनात्सद्यः कलुषाद्विप्रमुच्यते ॥
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने ।
त्रिदिवं प्रतिपत्तव्यमर्थवादाशिषस्तव ॥
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञे
गर्भोऽमृतस्य जगतश्च प्रतिष्ठा ।
क्षिते रोहः प्रवहः शश्वदेव ।
प्राजापत्याः सर्वमित्यर्थवादाः ॥
गावो ममैनः प्रणुदन्तु सौर्या-
स्तथा सौम्याः स्वर्गयानाय सन्तु ।
आत्मानं मे मातृवच्चाश्रयन्तु
तथाऽनुक्ताः सन्तु सर्वाशिषो मे ॥
शोषोत्सर्गे कर्मभिर्देहमोक्षे
सरस्वत्यः श्रेयसे सम्प्रवृत्ताः ।
यूयं नित्यं सर्वपुण्योपवाह्यां
दिशध्वं मे गतिमिष्टां प्रसन्नाः ॥
या वै यूयं सोऽहमद्यैव भावो
युष्मान्दत्त्वा चाहमात्मप्रदाता ।
मनश्च्युता मन एवोपपन्नाः
सन्धुक्षध्वं सौम्यरूपाग्र्यदेहाः ॥
दानस्याग्रे पूर्वमेतद्वदेत
गवां दाता विधिवत्पर्वदृष्टम् ।
प्रतिब्रूयाच्छेषमर्धंद्विजातिः
प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ॥
गां ददानीति वक्तव्यमर्घ्यमुत्सृज्य सुव्रतः ।
ऊढव्या भरितव्या च वैष्णवीति च चोदयेत् ॥
नाम सङ्कीर्तयेत्तस्या यथासंख्योत्तरं स वै ।
फलं षट्त्रिंशदष्टौ च सहस्राणि च विंशतिः ॥
एवमेतान्गुणान्विद्याद्गवादीनां यथाक्रमम् ।
गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ॥
गोदः शीली निर्भयश्चार्घदाता
न स्याद्दुःखी वसुदाता च कामम् ।
उपस्योढा भारते यश्च विद्वा-
न्विख्यातास्ते वैष्णवाश्चन्द्रलोकाः ॥
गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं
निशां चैकां संवसेतेह ताभिः ।
काम्याष्टभ्यां वर्तितव्यं त्रिरात्रं
रसैर्वा गोः शकृता प्रश्नवैर्वा ॥
देवव्रती स्याद्वृषभप्रदाने
वेदावाप्तिर्गोयुगस्य प्रदाने ।
तथा गवां विधिमासाद्य यज्वा
लोकानग्र्यान्विन्दते गोविधिज्ञः ॥
कामान्सर्वान्पार्थिवानेकसंस्था-
न्यो वै दद्यात्कामदुघां च धेनुम् ।
सम्यक्ताः स्युर्हव्यकव्यौघवत्य
स्तासामुक्ष्णां ज्यायसां सम्प्रदानम् ॥
न चाशिष्यायाव्रतायोपकुर्या-
न्नाश्रद्दधानाय न वक्रबुद्धये ।
गुह्यो ह्ययं सर्वलोकस्य धर्मो
नेमं धर्मं यत्र तत्र प्रजल्पेत् ॥
सन्ति लोके श्रद्दधाना मनुष्याः
सन्ति क्षुद्रा राक्षसमानुषेषु ।
एषामेतद्दीयमानं ह्यनिष्टं
ये नास्तिक्यं चाश्रयन्तेऽल्पपुण्याः ॥
बार्हस्पत्यं वाक्यमेतन्निशम्य
ये राजानो गोप्रदानानि दत्त्वा ।
लोकान्प्राप्ताः पुण्यशीलाः प्रवृत्ता-
स्तान्मे राजन्कीर्त्यमानान्निबोध ॥
उशीनरो विश्वगश्वो नृगश्च
भगीरथो विश्रुतो यौवनाश्वः ।
मान्धाता वै मुचुकुन्दश्च राजा
भूरिद्युम्नो नैषधः सोमकश्च ॥
पुरूरवा भरतश्चक्रवर्ती
यस्यान्ववाये भरताः सर्व एव ।
तथा वीरो दाशरथिश्च रामो
ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ॥
तथा राजा पृथुकर्मा दिलीपो
दिवं प्राप्तो गोप्रदानैर्विधिज्ञः ।
यज्ञैर्दानैस्तपसा राजधर्मै-
र्मांधाताऽभूद्गोप्रदानैश्च युक्तः ॥
तस्मात्पार्थ त्वमपीमां मयोक्तां
बार्हस्पतीं भारतीं धारयस्व ।
द्विजाग्र्येभ्यः सम्प्रयच्छस्व प्रीतो
गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ॥
वैशम्पायन उवाच ।
तथा सर्वं कृतवान्धर्मराजो
भीष्मेणोक्तो विधिवद्गोप्रदाने
स मान्धातुर्वेद देवोपदिष्टं
सम्यग्धर्मं धारयामास राजा ॥
इति नृप सततं गवां प्रदाने
यवशकलान्सह गोमयैः पिबानः ।
क्षितितलशयनः शिखी यतात्मा
वृष इव राजवृषस्तदा बभूव ॥
नरपतिरभवत्सदैव ताभ्यः
प्रयतमनास्त्वभिसंस्तुवंश्च गा वै ।
नृपतिधुरि च गामयुक्त भूप-
स्तुरगवरैरगमच्च यत्र तत्र ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकादशाधिकशततमोऽध्यायः ॥ 111 ॥ ।
7-111-3 यो विधिरुत्पादितः । सम्यगिज्याः प्रजाभ्य इति
थ.ध.पाठः ॥ 7-111-5 द्विजातिमतिसत्कृत्य श्वः कालमभिवेद्य चेति झ. पाठः ।
रोहिणीं लोहितवर्णाम् ॥ 7-111-8 समसंख्यो गा अनिवारयन् । समव्रतः
भूतलशायित्वदंशाद्यनिवारकत्वादिगुणयुक्तः ॥ 7-111-9 उत्सृष्टः वृषवत्सो यया
सार्धं सा उत्सृष्टवृषवत्सा । त्वया प्रदेया त्रिदिवं च प्रतिपत्तव्यं
गन्तव्यम् । अर्थवादमन्त्रोक्ता आशिषश्च तव भविष्यन्तीति योज्यम् ॥ 7-111-10
आशिषमेवाह ऊर्जस्विन्य इति । बलवत्य उत्साहवत्यो वा ऊर्जस्विन्यः । ऊर्जमेधा
उपगतप्रज्ञाः । यज्ञे अमृ-तस्य तत्साधनस्य हविषो गर्भ इव गर्भः क्षेत्रभूताः ।
क्षितेः ऐश्वर्यस्य रोहः । शश्वत् शाश्वतः क्षितेः प्रहवः प्रवाहरूपाश्च ।
प्राजापत्यः सर्ववद्याप्रवाद इति थ.ध.पाठः ॥ 7-111-11 अनुक्ताः मन्त्रद्वयेन
उक्ता आशिषो मे सन्तु । आम्नातायामनधीताः श्रयन्तु इति थ.पाठः ॥ 7-111-12
शोषोत्सर्गे क्षयरोगोपतापापनये क्षयरोगादिनिवृत्तौ देहमोक्षे च कर्मभिः
पञ्चगव्यादिभिः सेविताः सत्यः सरस्वत्यो नद्य इव श्रेयसे सम्प्रवृत्ताः ॥ 7-111-13 मनश्च्युताः दातुर्ममत्वाभिमानाच्च्युताः । मनएव उपपन्नाः
मदीयममतास्पदीभूताः । सन्धुध्वं दातारं मां च इष्टैर्भोगैः प्रकाशयध्वम् ॥ 7-111-18 गवादीनां गोप्रतिनिधीनां एव तत्फलम् । प्रत्यक्षगोदाने
गोप्रतिग्रहीतुर्गृहं गच्छन्त्या अष्टमे पदे भवन्ति किमु तद्गृहगमनादिष्विति
भावः । गुणान्वृद्धान्भावनीयं यथाक्रममिति थ.ध. पाठः । शीली शीलवान् अर्घदाता
निर्भय इति सम्बन्धः । उषस्यं प्रातः स्नानादिकर्म ऊढं प्राप्तं यैः । भारते
विद्वान् भारतवेत्ता । वैष्णवाः विष्णुभक्ताः । चन्द्रवत् लोक आलोको येषां एव
विख्याताः कथिताः ॥ 7-111-21 एकसंस्थान् एकीकृतान् । तासां ताभ्योऽधिकमिति शेषः ।
उक्ष्णां वृषभाणाम् ॥ 7-111-22 उपकुर्यात् एतत्कथनेन ॥
श्रीः