अध्यायः 115

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेणि युधिष्ठिरम्प्रति गोदानफलप्रशंसनपूर्वकं वसिष्ठवचनाद्गोमहिमावगमेन तद्दातुः सौदासस्य पुण्यलोकप्राप्तिकथनम् ॥ 1 ॥

वसिष्ठ उवाच ।

घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः ।
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे ॥
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् ।
घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् ॥
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।
गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् ॥
इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा ।
यदह्ना कुरुते पापं तस्मात्स परिमुच्यते ॥
प्रासादा यत्र सौवर्णा वसोर्धाराश्च कामदाः ।
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥
नवनीतपङ्काः क्षीरोदा दधिशैवलसङ्कुलाः ।
वहन्ति यत्र वै नद्यस्तत्र यान्ति सहस्रदाः ॥
गवां शतसहस्रं तु यः प्रच्छेद्यथाविधि ।
परां वृद्धिमवाप्याथ स्वर्गलोके महीयते ॥
दश चोभयतः प्रेत्य मातापित्रोः पितामहान् ।
दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः ॥
धेन्वाः प्रमाणेन समप्रमाणां धेनुं तिलानामपि च प्रदाय ।
पानीयवापीः स यमस्य लोके न यातनां काञ्चिदुपैति तत्र ॥
पवित्रमग्र्यं जगतः प्रतिष्ठा दिवौकसां मातरोऽथाप्रमेयाः ।
अन्वालभेद्दक्षिणतो व्रजेच्च दद्याच्च पात्रे प्रसमीक्ष्य कालम् ॥
धेनुं सवत्सां कपिलां भूरिशृङ्गीं कांस्योपदोहां वसनोत्तरीयाम् ।
प्रदाय तां गाहति दुर्विगाह्यां याम्यां सभां वीतभयो मनुष्यः ॥
सुरूपा बहुरूपाश्चि विश्वरूपाश्च मातरः ।
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ॥
नातः पुण्यतरं दानं नातः पुण्यतरं फलम् ।
नातो विशिष्टं लोकेषु भूतं भवितुमर्हति ॥
त्वचा लोम्नाऽथ शृङ्गैर्वा वालैः क्षीरेण मेदसा ।
यज्ञं वहति सम्भूय किमस्त्यभ्यधिकं ततः ॥
यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ।
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ॥
गुणवचनसमुच्चयैकदेशो नृवर मयैष गवां प्रकीर्तितस्ते ।
न च परमिह दानमस्ति गोभ्यो भवति न चापि परायणं ततोऽन्यम् ॥
भीष्म उवाच ।
वरमिदमिति भूमिपो विचिन्त्य प्रवरमृषेर्वचनं ततो महात्मा ।
व्यसृजत नियतात्मवान्द्विजेभ्यः सुबहु च गोधनमाप्तवांश्च लोकान् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥ 115 ॥

श्रीः