अध्यायः 118

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति विस्तरेण गवोत्पत्तिप्रकारकथनम् ॥ 1 ॥

`युधिष्ठिर उवाच ।

सुरभेः काः प्रजाः पूर्वं मार्ताण्डादभवन्पुरा ।
एतन्मे शंस तत्वेनि गोषु मे प्रीयते मनः ॥
भीष्म उवाच ।
शृणु नामानि दिव्यानि गोमातॄणां विशेषतः ।
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिर्जनाधिप ॥
सुरभ्यः प्रथमोद्भूता याश्च स्युः प्रथमाः प्रजाः ।
मयोच्यमानाः शृणु ताः प्राप्स्यसे विपुलं यशः ॥
तप्त्वा तपो घोरतपाः सुरभिर्दिप्ततेजसः ।
सुषावैकादश सुतान्रुद्रा ये च्छन्दसि स्तुताः ॥
अजैकपादहिर्बुध्न्यस्त्र्यम्बकश्च महायशाः ।
वृषाकपिश्च शम्भुश्च कपाली रैवतस्तथा ॥
हरश्च बहुरूपश्च उग्र उग्रोऽथ वीर्यवान् ।
तस्य चैवात्मजः श्रीमान्विश्वरूपो महायशाः ॥
एकादशैते कथिता रुद्रास्ते नाम नामतः ।
महात्मानो महायोगास्तेजोयुक्ता महाबलाः ॥
एते वरिष्ठजन्मानो देवानां ब्रह्मवादिनाम् ।
विप्राणां प्रकृतिर्लोके एत एव हि विश्रुताः ॥
एत एकादश प्रोक्ता रुद्रास्त्रिभुवनेश्वराः ।
शतं त्वेतत्समाख्यातं शतरुद्रं महात्मनाम् ॥
सुषुवे प्रथमां कन्यां सुरभिः पृथिवीं तदा ।
विश्वकामदुघा धेनुर्या धारयति देहिनः ॥
सुतं गोब्राह्मणं राजन्नेकमित्यभिधीयते ।
गोब्राह्मणस्य जननी सुरभिः परिकीर्त्यते ॥
सृष्ट्वा तु प्रथमं रुद्रान्वरदान्रुद्रसम्भवान् ।
पश्चात्प्रभुं ग्रहपतिं सुषुवे लोकसम्मतम् ॥
सोमराजानममृतं यज्ञसर्वस्वमुत्तमम् ।
ओषधीनां रसानां च देवानां जीवितस्य च ॥
ततः श्रियं च मेधां च कीर्तिं देवीं सरस्वतीम् ।
चतस्रः सुषुवे कन्या योगेषु नियताः स्तिताः ॥
एताः सृष्ट्वा प्रजा एषा सुरभिः कामरूपिणी ।
सुषुवे परमं भूयो दिव्या गोमातरः शुभाः ॥
पुण्यां मायां मधुश्च्योतां शिवां शीघ्रां सरिद्वराम् ।
हिरण्यवर्णां सुभगां गव्यां पृश्नीं कुथावतीम् ॥
अङ्गावतीं घृतवतीं दधिक्षीरपयोवतीम् ।
अमोघां सुरमां सत्यां रेवतीं मारुतीं रसाम् ॥
अजां च सिकतां चैव शुद्धधूमामधारिणीम् ।
जीवां प्राणवतीं धन्यां शुद्धां धेनुं धनावहाम् ॥
इन्द्रामृद्धिं च शान्ति च शान्तपापां सरिद्वराम् ।
चत्वारिंशतिमेकां च धन्यास्ता दिवि पूजिताः ॥
भूयो जज्ञे सुरभ्याश्च श्रीमांश्चन्द्रांशुसप्रभः । वृपो दक्ष इति ख्यातः कण्ढे मणितलप्रभः ।
स्रग्वी ककुद्मान्द्युतिमान्मृणालसदृशप्रभः ।
सुरभ्यनुमते दत्तो ध्वजो माहेशअवरस्तु सः ॥
सुरभ्यः कामरूपिण्यो गावः पुण्यार्थमुत्कटाः ।
आदित्येभ्यो वसुभ्यश्च विश्वेभ्यश्च ददौ वरान् ॥
सुरभिस्तु तपस्तप्त्वा सुषुवे गास्ततः पुनः ।
या दत्ता लोकपालानामिन्द्रादीनां युधिष्ठिर ॥
सुष्टुनां कपिलां चैव रोहिणीं च यशस्विनीम् ।
सर्वकामदुघां चैव मरुतां कामरूपिणीम् ॥
गावो मृष्टदुघा ह्येतास्ताश्चतस्रोऽत्र संस्तुताः ।
यासां भूत्वा पुरा वत्साः पिबन्त्यमृतमुत्तमम् ॥
सुष्टुतां देवराजाय वासवाय महात्मने ।
कपिलां धर्मराजाय वरुणाय च रोहिणीम् ॥
सर्वकामदुघां धेनुं राज्ञे वैश्रवणाय च ।
इत्येता लोकमहिता विश्रुताः सुरभेः प्रजाः ॥
एतासां प्रजया पूर्णा पृथिवी मुनिपुङ्गवः ।
गोभ्यः प्रभवते सर्वं यत्किंचिदिह शोभनम् ॥
सुरभ्यपत्यमित्येतन्नामतस्तेऽनुपूर्वशः ।
कीर्तितं ब्रूहि राजेन्द्र किं भूयः कथयामि ते' ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥

श्रीः