अध्यायः 120

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति पेनपोपाख्यानकथनारभ्यः ॥ 1 ॥ त्रिशिखरगिर्याश्रमवासिने सुमित्रनाम्ने विप्रवराय आङ्गिरसेनैकस्या गोर्दानम् ॥ 2 ॥ तस्या वंशेऽसङ्ख्येयानां गवां सम्भवः ॥ 3 ॥ सुमित्रेण वत्समुखोद्गतक्षीरफेनपानात्फेनप इति नामाधिगमः ॥ 4 ॥

`युधिष्ठिर उवाच ।

कः फेनपेति नाम्नाऽसौ कथं वा भक्षितः पुरा ।
मृत उज्जीवितः कस्मात्कथं गोलोकमाश्रितः ॥
विरुद्वे मानुषे लोके तथा समयवर्त्मसु । क्रते दैवं हि दुष्प्रपं मानुषेषु विशेषतः ।
संशयो मे महानत्र तन्मे व्याख्यातुमर्हसि ॥ भीष्म उवाच ।
श्रूयते भार्गवे वंशे सुमित्रो नाम भारत ।
वेदाध्ययनसम्पन्नो विपुले तपसि स्थितः ॥
वानप्रस्थाश्रमे युक्तः स्वकर्मनिरतः सदा ।
विनयाचारतत्वज्ञः सर्वधर्मार्थकोविदः ॥
यत्नात्त्रिषवणस्नायी संध्योपासनतत्परः ।
अग्निहोत्ररतः क्षान्तो जपञ्जुह्वच्च नित्यदाः ॥
पितृदेवांश्च नियतमतिर्थींश्च स पूजयन् ।
प्राणसन्धारणार्थं च यत्किंचिदुपहारयन् ॥
गिरिस्त्रिशिखरो नाम यतः प्रभवते नदी ।
कुलजेति पुराणेषु विश्रुता रुद्रनिर्मिता ॥
तस्यास्तीरे समे देशे पुष्पमालासमाकुले ।
वन्यौषधिद्रुमोपेते नानापक्षिमृगायुते ॥
व्यपेतदंशमशके ध्वाङ्क्षगृध्रैरसेविते ।
कृष्णदर्भतृणप्राये सुरम्ये ज्योतिरश्मिनि ॥
सर्वोन्नतैः समैः श्यामैर्याज्ञीयैस्तरुभिर्वृते । तत्राश्रमपदं पुण्यं भृगूणामभवत्पुरा ।
उवास तत्र नियतः सुमित्रो नाम भार्गवः ।
यथोद्दिष्टेन पूर्वेषां भृगूणां साधुवर्त्मना ॥
तस्मा आङ्गिरसः कश्चिद्ददौ गां शर्करीं शुभाम् ।
वर्षासु पश्चिमे मासि पौर्णमास्यां शुचिव्रतः ॥
स तां लब्ध्वा धर्मशीलश्चिन्तयामास तत्परः ।
सुमित्रः परया भक्त्या जननीमिव मातरम् ॥
तेन सन्धुक्ष्यमाणा सा रोहिणी कामरूपिणी ।
प्रवृद्धिमगमच्छ्रेष्ठा प्राणतश्च सुदर्शना ॥
सिराविमुक्तपार्श्वान्ता विपुलां कान्तिमुद्वहत् ।
श्यामपार्श्वान्तपृष्ठा सा सुरभिर्मधुपिङ्गला ॥
बृहती सूक्ष्मरोमान्ता रूपोदग्रा तनुत्वचा ।
कृष्णपुच्छा श्वेतवक्त्रा समवृत्तपयोधरा ॥
पृष्ठोन्नता पूर्वनता शङ्कुकर्णी सुलोचना ।
दीर्घजिह्वा ह्रस्वशृङ्गी सम्पूर्णदशनान्तरा ॥
मांसाधिकगलान्ता सा प्रसन्ना शुभदर्शना ।
नित्यं शमयुता स्निग्धा सम्पूर्णोदात्तनिस्वना ॥
प्राजापत्यैर्गवां नित्यं प्रशस्तैर्लक्षणैर्युता ।
यौवनस्थेव वनिता शुशुभे रूपशोभया ॥
वृषेणोपगता सा तु कल्या मधुरदर्शना ।
मिथुनं जनयामास तुल्यरूपमिवात्मनः ॥
संवर्धयामास स तां सवत्सां भार्गवो मुनिः ।
तयोः प्रजाधिसंसर्गात्सहस्रं च गवामभूत् ॥
गवां जातिसहस्राणि सम्भूतानि परस्परम् ।
ऋषभाणां च राजेन्द्र नैवान्तः प्रतिदृश्यते ॥
तैराश्रमपदं रम्यमरण्यं चैव सर्वशः ।
समाकुलं समभवन्मेघैरिव नभस्थलम् ॥
कानि चित्पद्मवर्णानि किंशुकाभानि कानिचित् ।
रुक्मवर्णानि चान्यानि चन्द्रांशुसदृशानि च ॥
तथा राजतवर्णानि कानिचिल्लोहितानि वै । नीललोहितताम्राणि कृष्णानि कपिलानि च ।
नानारागविचित्राणि यूथानि कुलयूथप ॥
न च क्षीरं सुतस्नेहाद्वत्सानामुपजीवति ।
भार्गवः केवलं चासीद्गवां प्राणायने रतः ॥
तथा शुश्रूषतस्तस्य गवां हितमवेक्षतः ।
व्यतीयात्सुमाहान्कालो वत्सोच्छिष्टेन वर्ततः ॥
क्षुत्पिपासापरिश्रान्तः सततं प्रस्रवं गवाम् ।
वत्सैरुच्छिष्टमुदितं बहुक्षीरतया बहु ॥
पीतवांस्तेन नामास्य फेनपेत्यभिविश्रुतम् ।
गौतमस्याभिनिष्पन्नमेवं नाम युधिष्ठिर ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥

7-120-7 कूलहेति पुराणेष्विति ट.ध.पाठः ॥

श्रीः