अध्यायः 121

अथ दानधर्मपर्व ॥ 1 ॥

फेनपस्य गोभिः कदाचन गोलोकादेत्य गिरिह्रदे स्त्रीरूपधारणेन विहरमाणानां गवामवलोकनम् ॥ 1 ॥ फेनपस्य गोभिः स्वेषां गोलोकप्राप्त्युपायं पृष्टाभिस्ताभिस्ताः प्रति रन्तिदेवस्य सत्रे आत्मनां पशुत्वोपकल्पनस्य तदुपायत्वोक्तिः ॥ 2 ॥ फेनपस्य स्वेष्वतिवत्सलतया यागीयपशुत्वे तदभ्यनुज्ञानस्य दुःसम्पादतां चिन्तयन्तीषु तासु कपिलाभिस्ताभ्यः स्वेषामेव गोषु श्रैष्ठ्यप्राप्तिरूपवराधिगमेन पेनपवधप्रतिज्ञानम् ॥ 3 ॥

भीष्म उवाच ।

कदाचित्कामरूपिण्यो गावः स्त्रीवेषमाश्रिताः । ह्रदे क्रीडन्ति संहृष्टा गायन्त्यः पुण्यलक्षणाः ॥?
ददृशुस्तस्य गावो वै विस्मयोत्फुल्ललोचनाः ।
ऊचुश्च का यूयमिति स्त्रियो मानुषया गिरा ॥
स्त्रिय ऊचुः ।
गाव एव वयं सर्वकर्मभिः शोभनैर्युताः । सर्वाः स्त्रीवेषधारिण्यो यथाकामं चरामेहे ।
गाव ऊचुः ।
गवां गावः परं दैवं गवां गावः परा गतिः ।
कथयध्वमिहास्माकं केन वः सुकृतां गतिः ॥
स्त्रिय ऊचुः ।
अस्माकं हविषा देवा ब्राह्मणास्तर्पितास्तथा ।
कव्येन पितरश्चैव हव्येनाग्निश्च तर्पितः ॥
प्रजया च तथाऽस्माकं कृषिरभ्युद्धृता सदा ।
शकटैश्चापि संयुक्ता दशवाहशतेन वै ॥
तदेतैः सुकृतैः स्फीतैर्वयं याश्चैव नः प्रजाः ।
गोलोकमनुसम्प्राप्ता यः परं कामगोचरः ॥
यूयं तु सर्वा रोहिण्यः सप्रजाः सहपुङ्गवाः ।
अधोगामिन्य इत्येव पश्यामो दिव्यचक्षुषा ॥
गाव ऊचुः ।
एवं गवां परं दैवं गाव एव परायणम् ।
स्वपक्ष्यास्तारणीया वः शरणाय गता वयम् ॥
किमस्माभिः करणीयं वर्तितव्यं कथञ्चन ।
प्राप्नुयाम च गोलोकं भवाम न च गर्हिताः ॥
स्त्रिय ऊचुः ।
वर्तते रन्तिदेवस्य सत्रं वर्षसहस्रकम् ।
तत्र तस्य नृपस्याशु पशुत्वमुपगच्छतः ॥
ततस्तस्योपयोगेन पशुत्वे यज्ञसंस्कृताः ।
गोलोकान्प्राप्स्यथ शुभांस्तेन पुण्येन संयुताः ॥
भीष्म उवाच ।
एतत्तासां वचः श्रुत्वा गवां संहृष्टमानसाः ।
गमनाय मनश्चक्रुरौत्सुक्यं चागमन्परम् ॥
न हि नो भार्गवो दाता पशुत्वेनोपयोजनम् ।
यज्ञस्तस्य नरेन्द्रस्य वर्तते धर्मतस्तथा ॥
वयं न चाननुज्ञाताः शक्ता गन्तुं कथञ्चन ।
अवोचन्नथ तत्रत्या भार्गवो वध्यतामयम् ॥
एतत्सर्वा रोचयत न हि शक्यमतोऽन्यथा ।
लोकान्प्राप्तुं सहास्माभिर्निश्चयः क्रियतामयम् ॥
न तु तासां समेतानां काचिद्धोरेण चक्षुषा ।
शक्नोति भार्गवं द्रष्टुं सत्कृतेनोपसंयुता ॥
अथ पद्मसवर्णाभा भास्करांशुसमप्रभाः ।
जपालोहितताम्राक्ष्यो निर्मांसकठिनाननाः ॥
रोहिण्यः कपिलाः प्राहुः सर्वासां वै समक्षतः ।
मेघस्तनितनिर्घोषास्तेजोभिरभिरञ्चिताः ॥
वयं हि तं वधिष्यामः सुमित्रं नात्रं संशयः ।
सुकृतं पृष्ठतः कृत्वा किं नः श्रेयो विधास्यथ ॥
गाव ऊचुः ।
कपिलाः सर्ववर्णेषु प्रधानत्वमवाप्स्यथ ।
गवां शतफला चैकां दत्त्वा फलमवाप्स्यति ॥
भीष्म उवाच ।
एतद्गवां वचः श्रुत्वा कपिला हृष्टमानसाः । चक्रुः सर्वा भार्गवस्य सुमित्रस्य वधे मतिम् ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकविंशत्यधिकशततमोऽध्यायः ॥ 121 ॥

7-121-2 तस्य फेनपस्य स्त्रियः प्रति ॥ 7-121-4 सुकृतां पुण्यकृताम् ॥ 7-121-6 शक्ताश्चापि तथा युक्ता इति थ.ध.पाठः ॥

श्रीः