अध्यायः 122

अथ दानधर्मपर्व ॥ 1 ॥

फेनपस्य गोभक्तयुद्रेकसन्तुष्टाभिर्गोलोकादागतगोमातृभिः योगप्रभावेण शरीराद्वियोजनेन स्वलोकप्रापणपूर्वकं तस्मिन्कपिलानिश्चयनिवेदनम् ॥ 1 ॥ ततः कपिलाभिर्यथाप्रतिज्ञं शृङ्गाघातादिना फेनपस्य कुणपशरीरविभेदनम् ॥ 2 ॥

`भीष्म उवाच ।

यास्तु गोमातरस्तस्य कामचारिण्य आगताः ।
समीपं हि सुमित्रस्य कृतज्ञाः समुपस्थिताः ॥
अभिप्रशस्य चैवाहुस्तमृषिं पुण्यदर्शनाः ।
गोलोकादागता वेद वृषगोमातरो वयम् ॥
सुप्रीताः स्म वरं गृह्ण यमिच्छसि महामुने ।
यद्भि गोषु परां बुद्धिं कृतवानसि नित्यदा ॥
सुमित्र उवाच ।
प्रीतोस्म्यनुगृहीतोस्मि यन्मां गोमातरः शुभाः ।
सुप्रीतमनसः सर्वास्तिष्ठन्ते च वरप्रदाः ॥
भवेद्गोष्वेव मे भक्तिर्यथैवाद्य तथा सदा ।
गोघ्नाश्चैवावसीदन्तु नरा ब्रह्मद्विषश्च ये ॥
गोमातर ऊचुः ।
एवमेतदृषिश्रेष्ठ हितं वदसि नः प्रियम् ।
एहि गच्छ सहाऽस्माभिर्गोलोकमृषिसत्तम ॥
सुमित्र उवाच ।
यूयमिष्टां गतिं यान्तु न ह्यहं गन्तुमुत्सहे ।
इमा गावः समुत्सृज्य तपस्विन्यो मम प्रियाः ॥
भीष्म उवाच ।
तास्तु तस्य वचः श्रुत्वा कपिलानां सुदारुणम् ।
नित्युस्तमृषिमुत्क्षिप्य भार्गवं नभ उद्वहन् ॥
कलेवरं तु तत्रैव तस्य संन्यस्य मातरः ।
निष्कृष्य करणं योगादानयन्भार्गवस्य वै ॥
सर्वं चास्य तदाचख्युः कपिलानां विचेष्टितम् ।
यदर्थं हरणं गोभिर्गोलोकं लोकमातरः ॥
ततस्तु कपिलास्तत्र तस्य दृष्ट्वा कलेवरम् ।
तथाप्रतिज्ञं शृङ्गैश्च खुरैश्चाप्यवचूर्णयन् ॥
ततः संछिद्य बहुधा भार्गवं नृपसत्तम ।
युयुर्यत्रेतरा गावस्तच्च सर्वं न्यवेदयन् ॥
अथ गोमातृभिः शप्तास्ता गावः पृथिवीचराः ।
अमेध्यवदनाः क्षिप्रं भवध्वं ब्रह्मघातकाः ॥
एवं कृतज्ञा गावो हि यता गोमातरो नृप । ऋषिश्च प्राप्तवाँल्लोकं गावश्च परिमोक्षिताः ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥

7-122-2 वेद विद्धि । ऋषे गोमातरो वयमिति थ.पाठः ॥ 7-122-8 कपिलानां सुदारुणं सुमित्रवधप्रतिज्ञानं च श्रुत्वा ॥

श्रीः