अध्यायः 125

अथ दानधर्मपर्व ॥ 1 ॥

व्यासेन शुकम्प्रति ब्राह्मणेतरवर्णानां कपिलाक्षीरोपजीवनार्हत्वादिकथनम् ॥ 1 ॥

`शुक उवाच ।

क्षत्रियाश्चैव शूद्राश्च मन्त्रहीनाश्च ये द्विजाः ।
कपिलामुपजीवन्ति कथमेतत्पितर्भवेत् ॥
श्रीव्यास उवाच ।
क्षत्रियाश्चैव शूद्राश्च मन्त्रहीनाश्च ये द्विजाः ।
कपिलामुपजीवन्ति तेषां वक्ष्यामि निर्णयम् ॥
कपिलास्तूत्तमा लोके गोषु चैवोत्तमा मताः ।
तासां दाता लभेत्स्वर्गं विधिना यश्च सेवते ॥
स्पृशेत कपिलां यस्तु दण्डेन चरणेन वा ।
स तेन स्पर्शमात्रेण नरकायोपपद्यते ॥
मन्त्रेण युञ्ज्यात्कपिलां मन्त्रेणैव प्रमुञ्चते ।
मन्त्रिहीनं तु यो युञ्जात्कृमियोनौ प्रसूयते ॥
प्रहाराहतमर्माङ्गा दुःखेन च जडीकृता ।
पदानि यावद्गच्छेत तावल्लोकान्कृमिर्भवेत् ॥
यावन्तो बिन्दवस्तस्याः शोणितस्य क्षितिं गताः ।
तावद्वर्षसहस्राणि नरकं प्रतिपद्यते ॥
मन्त्रेण युञ्ज्यात्कपिलां मन्त्रेण विनियोजयेत् ।
मन्त्रहीनैरनुयुतो मञ्जयेत्तमसि प्रभो ॥
कपिलां येऽपि जीवन्ति बुद्धिमोहान्विता नराः ।
तेऽपि वर्षसहस्राणि पतन्ति नरके नृप ॥
अथ न्यायेन ये विप्राः कपिलामुपयुञ्जते ।
तस्मिंल्लोके प्रमोदन्ते लोकाश्चैषामनामयाः ॥
विधिना ये न कुर्वन्ति शूद्रास्तानुपधारय ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥

श्रीः