अध्यायः 126

अथ दानधर्मपर्व ॥ 1 ॥

व्यासेन शुकम्प्रति कपिलानां गवां स्वाङ्गप्रवेशनेन देवेभ्यः प्रच्छन्नमात्मनोगोपनात्परितुष्टस्याग्नेर्वरात्सर्वश्रैष्ठ्यप्राप्तिकथनम् ॥ 1 ॥

`शुक उवाच ।

नानावर्णैरुपेतानां गवां किं मुनिसत्तम ।
कपिलाः सर्ववर्णेषु वरिष्ठत्वमवाप्नुवन् ॥
व्यास उवाच ।
शृणु पुत्र यथा गोषु वरिष्ठाः कपिलाः स्मृताः ।
कपिलत्वं च सम्प्राप्ताः पूज्याश्चि सततं नृषु ॥
अग्निः पुरापचक्राम देवेभ्य इति नः श्रुतम् ।
देवेभ्यो मां छादयत शरण्याः शरणं गतम् ॥
ऊचुस्ताः सहितास्तत्र स्वागतं तव पावकः ।
इह गुप्तस्त्वमस्माभिर्न देवैरुपलप्स्यसे ॥
अथ देवा विवित्सन्तः पावकं परिचक्रमुः ।
गोषु गुप्तं च विज्ञाय ताः क्षिप्रमुपतस्थिरे ॥
युष्मासु निवसत्यग्निरिति गाः समचूचुदन् ।
प्रकाश्यतां हुतवहो लोकान्न च्छेत्तुमर्हथ ॥
एवमस्त्वित्युनुज्ञाय पावकं समदर्शयन् ॥
अधिगम्य पावकं तुष्टास्ते देवाः सद्य एव तु ।
अग्निं प्रचोदयामासुः क्रियतां गोष्वनुग्रहः ॥
गवां तु यासां गात्रेषु पावकः समवस्थितः ।
कपिलत्वमनुप्राप्ताः सर्वश्रेष्ठत्वमेव च ॥
महाफलत्वं लोके च ददौ तासां हुताशनः । तस्माद्धि सर्ववर्णानां कपिलां गां प्रदापय ।
श्रोत्रियाय प्रशान्ताय प्रयतायाग्निहोत्रिणे ॥
यावन्ति रोमाणि भन्ति धेन्वा युगानि तावन्ति पुनाति दातॄन् ।
प्रतिग्रहीतॄंश्च पुनाति दत्ता शिष्टे तु गौर्वै प्रतिपादनेन ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥

श्रीः