अध्यायः 127

अथ दानधर्मपर्व ॥ 1 ॥

व्यासेन शुकम्प्रति कपिलालक्षणविभागादिकथनम् ॥ 1 ॥

शुक उवाच ।

केन वर्णविभागेन विज्ञेया कपिला भवेत् ।
कति वा लक्षणान्यस्या दृष्टानि मुनिभिः पुरा ॥
श्रीव्यास उवाच ।
शृणु तात यथा गोषु विज्ञेया कपिला भवेत् । नेत्रयोः शृङ्गयोश्चैव खुरेषु वृषणेषु च ।
कर्णतो घ्राणतश्चापि षड्विधाः कपिलाः स्मृताः ॥
एतेषां लक्षणानां तु यद्येकमपि दृश्यते ।
कपिलां तां विजानीयादेवमाहुर्मनीषिणः ॥
आग्नेयी नेत्रकपिला खुरैर्माहेश्वरी भवेत् ।
ग्रीवायां वैष्णवी ज्ञेया पूष्णो घ्राणादजायत ॥
कर्णतस्तु वसन्तेन स्वयोनिमभिजायते ।
गायत्र्याश्च वृषणयोरुत्पत्तिः षड्गुणा स्मृता ॥
एवं गावश्च विप्राश्च गायत्री सत्यमेव च ।
वसन्तश्च सुवर्णश्च एकतः समजायत ॥
नेत्रयोः कपिलां यस्तु वाहयेत दुहेत वा ।
स पापकर्मा नरकं प्रतिष्ठां प्रतिपद्यते ॥
नरकाद्विप्रमुक्तस्तु तिर्यग्योनिं निषेवते ।
यदा लभेत मानुष्यं जात्यन्धो जायते नरः ॥
शृङ्गयोः कपिलां यस्तु वाहयेत दुहेत वा ।
तिर्यग्योनिं स लभते जायमानः पुनः पुनः ॥
खुरेषु कपिलां यस्तु वाहयेत दुहेत वा ।
तमस्यपारे मज्जेत धनहीनो नराधमः ॥
कपिलां वालधानेषु वाहयेत दुहेत वा ।
निराश्रयः सदा चैव जायते यदि चेत्कृमिः ॥
कर्णेन कपिलां यस्तु जानन्नप्युपजीवति । सहस्रशः शुचिर्भुत्वा मानुष्यं प्राप्नुयादथ ।
चण्डालः पापयोनिश्च जायते स नराधमः ॥
घ्राणेन कपिलां यस्तु प्रमादादुपजीवति ।
सोऽपि वर्षसहस्राणि तिर्यग्योनौ प्रजायते ॥
व्याधिग्रस्तो जडो रोगी भवेन्मानुष्यमागतः ॥
मधुसर्पिस्सुगन्धास्तु कपिलाः शास्त्रतः स्मृताः ।
एताः समुपजीवेत सोऽपि तिर्यक्षु जायते ॥
स्थावरत्वमनुप्राप्तो यदि मानुष्यतां लभेत् ।
अल्पायुः स भवेज्जातो हीनवर्णकुलोद्भवः ॥
ये तु पापा ह्यसूयन्ते कपिलां वाहयन्ति च ।
निरयेषु प्रतिष्ठन्ते यावदाभूतसम्प्लवम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥

7-127-7 वाहयेन दमेत वेति थ.पाठ. ॥

श्रीः