अध्यायः 128

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति श्रियो बलात्कारेण स्वप्रार्थनया गोमूत्रपुरीषयोर्निवासस्य कथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् ।
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गोभिर्नृपेहं संवादं श्रिया भारतसत्तम ॥
श्रीः कृत्वेह वपुः कान्तं गोमध्येषु विवेश ह ।
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम् ॥
गाव ऊचुः ।
काऽसि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि ।
विस्मिताः स्म महाभागे तव रूपस्य सम्पदा ॥
इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि ।
तत्त्वेन हि सुवर्णाभे सर्वमेतद्ब्रवीहि नः ॥
श्रीरुवाच ।
लोकस्य कान्तिर्भद्रं वः श्रीर्नामाहं परिश्रुता ।
मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः ॥
मयाऽभिपन्ना देवाश्च मोदन्ते शाश्वतीः समाः ।
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च ॥
मयाऽभिपन्ना दीप्यन्ते ऋषयो देवतास्तथा ।
यान्नाविशाम्यहं गावस्ते विनश्यन्ति सर्वशः ॥
धर्मश्चार्थश्च कामश्च मया जुष्टाः सुखान्विताः ।
एवंप्रभावां मां गावो विजानीत सुखप्रदाम् ॥
इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा ।
आगत्य प्रार्थये युष्माञ्श्रीजुष्टा भवताऽनघाः ॥
गाव ऊचुः ।
अध्रुवा चपला च त्वं सामान्या बहुभिः सह ।
न त्वामिच्छाम भद्रं ते गम्यतां यत्र रोचते ॥
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽद्य वै ।
यथेष्टं गम्यतां तत्र कृतकार्या वयं त्वया ॥
श्रीरुवाच ।
किमेतद्वः क्षमं गावो यन्मां नेहाभिनन्दथ ।
न मां सम्प्रतिगृह्णीध्वं कस्माद्वै दुर्लभां सतीम् ॥
सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः ।
स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः ॥
महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः ।
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ॥
क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह ।
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे ॥
गाव ऊचुः ।
नावमान्यामहे देवि न त्वां परिभवामहे ।
अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे ॥
बहुना च किमुक्तेन गम्यतां यत्र वाञ्छसि ।
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽनघे ॥
श्रीरुवाच ।
अवज्ञाता भविष्यामि सर्वलोकेषु मानवैः ।
प्रत्याख्यातेति युष्माभिः प्रसादः क्रियतां मम ॥
महाभागा भवत्यो वै शरण्याः शरणागताम् ।
परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् ॥
माननामहमिच्छामि भवत्यः सततं शिवाः ।
अप्येकाङ्गेष्वधो वस्तुमिच्छामि च सुकुत्सिते ॥
न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेऽनघाः । पुण्याः पवित्राः सुभगा अवाग्देशं प्रयच्छथ ।
वसेयं यत्र वो देहे तन्मे व्याख्यातुमर्हथ ॥
एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः ।
सम्मान्य सहिताः सर्वाः श्रियमुचुर्नराधिप ॥
अवश्यं मानना कार्या तवास्माभिर्यशस्विनि ।
शकृन्मूत्रे निवसतां पुण्यमेतद्धि नः शुभे ॥
श्रीरुवाच ।
दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः ।
एवं भवतु भद्रं वः पूजिताऽस्मि सुखप्रदाः ॥
भीष्म उवाच ।
एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत ।
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत ॥
एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् ।
माहात्म्यं च गवां भूयः श्रूयतां गदतो मम ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥

7-128-3 विस्मिता अभवन्निति शेषः ॥ 7-128-21 एका अहम् । अङ्गेषु मध्ये कुत्सिते । सुप्रीताङ्गेषु वो वस्तुमिच्छामीह न कुत्सिते इति ध.पाठः ॥ 7-128-23 सम्मन्त्र्य सहिता इति झ.पाठः ॥

श्रीः