अध्यायः 137
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरंप्रति श्राद्धे निमन्त्रणार्हानर्हाणां
लक्षणनिरूपणम् ॥ 1 ॥
युधिष्ठिर उवाच ।
कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह ।
द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि ॥
भीष्म उवाच ।
ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित् ।
दैवे कर्मणि पित्र्ये तु न्यायमाहुः परीक्षणम् ॥
देवताः पावयन्तीह दैवेनैवेह तेजसा ।
उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः ॥
श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः ।
कुलशीलवयोरूपैर्विद्ययाऽभिजनेन च ॥
तेषामन्ये पङ्क्तिदूष्यास्तथाऽन्ये पङ्क्तिपावनाः ।
अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु ॥
कितवो भ्रूणहा यक्ष्मीं पशुपालो निराकृतिः ।
ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः ॥
पित्रा विभजमानश्च यस्य चोपपतिर्गृहे ।
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवती ॥
पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः ।
अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ॥
श्वभिश्च यः परिक्रामेद्यः शुना दष्ट एव च ।
परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः ।
कुशीलवो देवलको नक्षत्रैर्यश्च जीवती ॥
ईदृशैर्ब्राह्मणैर्भुक्तमपाङ्क्तेयैर्युधिष्ठिर ।
रक्षांसि गच्छते हव्यमित्याहुर्ब्रह्मवादिनः ॥
श्राद्धं भुक्त्वा त्वधीयीत वृषलीतल्पगश्च यः ।
पुरीषे तस्य ते मासं पितरस्तस्य शेरते ।
सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ॥
नष्टं देवलके दत्तमप्रतिष्ठं च वार्धुषे ।
यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् ।
भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ॥
ये तु धर्मव्यपेतेषु चारित्रापगतेषु च ।
हव्यं कव्यं प्रयच्छन्ति येषां तत्प्रेत्य नश्यति ॥
ज्ञानपूर्वं तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः ।
पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चयः ॥
एतानिमान्विजानीयादपाङ्क्तेयान्द्विजाधमान् ।
शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः ॥
षष्टिं काणः शतं षण्डः श्वित्री यावत्प्रपश्यति ।
पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ॥
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः ।
सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् ॥
असूयता च यदत्तं यच्च श्रद्धाविवर्जितम् ।
सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथञ्चन ।
तस्मात्परिसृते दद्यात्तिलांश्चान्ववकीरयेत् ॥
तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च ।
यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ॥
अपाङ्क्तो यावतः पाङ्क्तान्भुञ्जानाननुपश्यति ।
तावत्फलाद्धंशयति दातारं तस्य बालिशम् ॥
इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः ।
हेतुतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् ॥
विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व एव हि ।
सदाचारपराश्चैव विज्ञेयाः सर्वपावनाः ॥
पाङ्क्तेयांस्तु प्रवक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः ।
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ॥
ब्रह्मदेयानुसन्तानश्छन्दोगो ज्येष्ठसामगः ।
मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः ॥
ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा ।
वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥
अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः ।
सत्यवादी धर्मशीलः स्वकर्मनिरतश्च सः ॥
ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः ।
मखेषु च समन्त्रेषु भन्त्यवभृथप्लुताः ॥
अक्रोधना ह्यचपलाः क्षान्ताः दान्ता जितेन्द्रियाः ।
सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् ॥
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ।
इमे परे महाभागा विज्ञेयाः पङ्क्तिपावनाः ॥
यतयो मोक्षधर्मज्ञा योगिनश्चरितव्रताः ।
`पञ्चरात्रविदो मुख्यास्तथा भागवताः परे ॥
वैखानसाः कुलश्रेष्ठा वैदिकाचारचारिणः ।'
ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् ॥
ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ।
अधीयते पुराणं ये धर्मशास्त्राण्यथापि च ॥
अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ।
उपपन्नो गुरुकुले सत्यवादी सहस्रशः ॥
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत ॥
ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते ।
क्रोशादर्धतृतीयाच्च पावयेदेक एव हि ।
ब्रह्मदेयानुसन्तान इति ब्रह्मविदो विदुः ॥
अनुत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् ।
ऋत्विग्भिरभ्यनुज्ञातः पङ्क्त्या हरति दुष्कृतम् ॥
अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः ।
न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः ॥
तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् ।
स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रतान् ॥
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
न प्रीणन्ति पितॄन्देवान्स्वर्गं च न स गच्छति ॥
यश्च श्राद्धे कुरुते सङ्गतानि
न देवयानेन पथा स याति ।
स वै मुक्तः पिप्पलं बन्धनाद्वा
स्वर्गाल्लोकच्च्यवते श्राद्धमित्रः ॥
तस्मान्मित्रं श्राद्धकृन्नाद्रियेत
दद्यान्मित्रेभ्यः सङ्ग्रहार्थं धनानि ।
यन्मन्यते नैव शत्रुं न मित्रं
तं मध्यस्थं भोजयेद्धव्यकव्ये ॥
यथोषरे बीजमुप्तं न रोहे-
न्नचावप्ता प्राप्नुयाद्बीजभागम् ।
एवं श्राद्धं भुक्तमनर्हमाणै-
र्न चेह नामुत्र फलं ददाति ॥
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति ।
तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते ॥
सम्भोजनी नाम पिशाचदक्षिणा
सा नैव देवान्न पितॄनुपैति ।
इहैव सा भ्राम्यति हीनपुण्या
शालान्तरे गौरिव नष्टवत्सा ॥
यथाऽग्नौ शान्ते घृतमाजुहोति
तन्नैव देवान्न पितॄनुपैति ।
तथा दत्तं नर्तके गायके च
यां चानृते दक्षिणामावृणोति ॥
उभौ हिनस्ति न भुनक्ति चैषा
या चानृते दक्षिणा दीयते वै ।
आघातिनी गर्हितैषा पतन्ती
तेषां प्रेतान्पातयेद्देवयानात् ॥
ऋषीणां समये नित्यं ये चरन्ति युधिष्ठिर ।
निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः ॥
स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च ।
तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥
कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत ।
तत्र ये ब्राह्मणान्केचिन्न सीदन्ति हि ते नराः ॥
ये तु निन्दन्ति जल्पेषु न ताञश्राद्धेषु भोजयत् ।
ब्राह्मणा निन्दिता राजन्हन्युस्त्रैपुरुषं कुलम् ॥
वैखानसानां वचनमृषीणां श्रूयते नृप ।
दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् ॥
प्रियो वा यदि वा द्वेष्यस्तेषां तु श्राद्धमावपेत् ॥
यः सहस्रं सहस्राणां भोजयदेनृचो नरः ।
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः ॥ 137 ॥
7-137-3 देवेभ्यो देवानुद्दिश्य । सर्वेभ्यो विप्रेभ्यः ॥ 7-137-5 तेषामन्ये पङ्क्तिदूषा इति झ.पाठः ॥ 7-137-6 निराकृतिरध्ययनादिशून्यः ।
वार्धुषिको वृद्ध्यर्थं धनप्रयोक्ता ॥ 7-137-7 कुण्डाशी भगभक्षः ।
तैलिकस्तत्कर्मकृत् । कूटसाक्षिक इति ट.पाठः ॥ 7-137-8 पित्रा विवदमानश्चेति
झ.पाठः ॥ 7-137-9 पर्वकारो वेषान्तरधारी । सूची पिशुनः । अव्रतानां शूद्राणाम् ।
काण्डपृष्ठः शस्त्राजीवी ॥ 7-137-10 श्वभिः परिक्रामेन्मृगयां कुर्वन् ॥ 7-137-18 षष्टिंशतं पुरुषानिति शेषः ॥ 7-137-20 असुरेन्द्राय बलये ॥ 7-137-21
परिसृते आवृतदेशे ॥ 7-137-22 तिलदानेप्यदायादा ये च क्रोधवशा गणाः । यातुधानाः
पिशाचाश्च न प्रलुपन्ति तद्धविरिति थ.ध.पाठः ॥ 7-137-26 त्रिसुपर्णं
चतुष्कपर्दा युवतिः सुपेशा इति बह्वृचानां मन्त्रत्रयं वा ब्रह्ममेतुमाम्
इत्यादितैत्तिरीयप्रसिद्धं वा । षडङ्गानि शिक्षादीनि ॥ 7-137-27 ब्रह्म देवः
परविद्या वा तदेव देयं येषां तेषामनुसन्तानः परम्परायामुत्पन्नः
ब्रह्मदेयानुसन्तानः ॥ 7-137-30 मुखेषु च सहस्रेष्विति थ.पाठ ॥ 7-137-42
मित्रमेव प्रधानं न योग्यत्वादिकं येषु तानि ॥ 7-137-43 श्राद्धेन निमित्तेन
सङ्गतानि सख्यानि ॥ 7-137-47 सम्भोजनी अन्योन्यं दीयमाना ॥ 7-137-48 यां च
दक्षिणामनृते अपात्रे आवृणोति प्रयच्छति ॥ 7-137-49 न भुनक्ति न पालयति ।
आघातिनी हन्त्री ॥
श्रीः