अध्यायः 138
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरंप्रति श्राद्धे
वर्जनीयधान्यशाकादिप्रतिपादकात्रिनिमिसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच ।
केन सङ्कल्पितं श्राद्धं कस्मिन्काले किमात्मकम् ।
भृग्वङ्गिरसिके काले मुनिना कतरेण वा ॥
`येन सङ्कल्पितं चैव तन्मे ब्रूहि पितामह ।'
कानि श्राद्धेषु वर्ज्यानि कानि मूलफलानि च ।
धान्यजात्यश्च का वर्ज्यास्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
यथा श्राद्धं सम्प्रवृत्तं यस्मिन्काले सदात्मकम् ।
येन सङ्कल्पितं चैव तन्मे शृणु जनाधिप ॥
स्वायम्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान् ।
तस्य वंशे महाराज दत्तात्रेय इति स्मृतः ॥
दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः ।
निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः ॥
पूर्णो वर्षसहस्रान्ते स कृत्वा दुष्करं तपः ।
कालधर्मपरीतात्मा निधनं समुपागतः ॥
निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा ।
सन्तापमगमत्तीप्रं पुत्रशोकपरायणः ॥
अथ कृत्वोपकार्याणि चतुर्दश्यां महामतिः ।
तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत ॥
तस्यासीत्प्रतिबुद्धस्य शोकेन व्यथितात्मनः ।
मनः संहृत्य विषये बुद्धिर्विस्तारगामिनी ॥
ततः सञ्चिन्तयामास श्राद्धकल्पं समाहितः ।
यानि तस्यैव भोज्यानि मूलानि च फलानि च ॥
उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह ।
तानि सर्वाणि मनसा विनिश्चित्य तपोधनः ॥
अमावास्यां महाप्राज्ञो विप्रानानाय्य पूजितान् ।
दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत् ॥
सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत् ।
ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः ॥
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः ।
पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते ॥
कृत्वा च दक्षिणाग्नान्वै दर्भान्स प्रयतः शुचिः ।
प्रददौ श्रीमते पिण्डान्नामगोत्रमुदाहरन् ॥
तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्करमात्मनः ।
पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत् ॥
अकृतं मुनिभिः पूर्वं किं मयेदमनुष्ठितम् ।
कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति ॥
ततः सञ्चिन्तयामास वंशकर्तारमात्मनः ।
`बुद्ध्वाऽत्रिं मनसा दध्यौ भगवन्तं समाहितः ।'
ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः ॥
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम् ।
भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः ॥
निमे सङ्कल्पितस्तेऽयं पितृयज्ञस्तपोधन ।
मतो मे पूर्वदृष्टोऽत्र धर्मोऽयं ब्रह्मणा स्वयम् ॥
सोयं स्वयभुविहितो धर्मः सङ्कल्पितस्त्वया ।
ऋते स्वयम्भुवः कोऽन्यः श्राद्धे संविधिमाहरेत् ॥
अथाख्यास्यामि ते पुत्र श्राद्दे यं विधिमुत्तमम् ।
स्वयम्भुविहितं पुत्र तत्कुरुष्व निबोध मे ॥
कृत्वाऽग्निशरणं पूर्वं मन्त्रपूर्वं तपोधन ।
ततोऽग्नयेऽथ सोमाय वरुणाय च नित्यशः ॥
विश्वेदवाश्च यि नित्यं पितृभिः सह गोचराः ।
तेभ्यः सङ्कल्पिता भागाः स्वयमेव स्वयम्भुवा ॥
स्तोतव्या चेह पृथिवी लोकस्यैव तु धारिणी ।
वैष्णवी काश्यपि चेति तथैवेहाक्षयेति च ॥
उदकानयने चैव स्तोतव्यो वरुणो विभुः ।
ततोऽग्निश्चैव सोमश्च आराध्याविह तेऽनघ ॥
देवास्तु पितरो नाम निर्मिता ये स्वयम्भुवा ।
ऊष्मपा ये महाभागास्तेषां भागः प्रकल्पितः ॥
ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात् ।
सप्तकाः पितृवंशास्तु पूर्वदृष्टाः स्वयंभुवा ॥
विश्वे चाग्निमुखा देवाः संख्याताः पूर्वमेव ते ।
तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् ॥
सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा ।
ग्राम्यः क्षेम्यः समूहश्च दिव्यसानुस्तथैव च ॥
विवस्वान्वीर्यवाञ्श्रीमान्कीर्तिमान्कृत एव च ।
जितात्मा मुनिवीर्यश्च दीप्तरोमा भयङ्करः ॥
अनुकर्मा प्रतीतश्च प्रदाताऽप्यंशुमांस्तथा ।
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा ॥
स्रजो वज्रीवरी चैव विश्वेदेवाः सनातनाः ।
विद्युद्वर्चाः सोमवर्चाः सूर्यश्रीश्चेति नामतः ॥
सोमपः सूर्यसावित्रो दत्तात्मा पुण्डरीयकः ।
उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च ॥
चमूहरः सुरेशश्च व्योमारिः शङ्करो भवः ।
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् ॥
गणितः पञ्चवीर्यश्च आदित्यो रश्मिवांस्तथा ।
सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च ॥
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च ।
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः ॥
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा ।
हिङ्गुद्रवेषु शाकेषु मूलानां लशुनं तथा ॥
पलाण्डुः सौभाञ्जनकस्तथा गृञ्जनकादयः ।
कूश्माण्डजात्यलाबुं च कृष्णं लवणमेव च ॥
ग्राम्यवाराहमांसं च यच्चैवाप्रोक्षितं भवेत् ।
कृष्णाजं जीरकं चैव शीतपाकी तथैव च ।
अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च ॥
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च ।
अवक्षुतावरुदितं तथा श्राद्धे च वर्जयेत् ।
निवापे हव्यकव्ये वा गर्हितं च सुदर्शनम् ।
पितरश्च हि देवाश्च नाभिनन्दन्ति तद्धविः ॥
चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते ।
काषायवासाः कुष्ठी वा पतितो ब्रह्महाऽपि वा ॥
सङ्कीर्णयोनिर्विप्रश्च सम्बन्धी पतितश्च यः ।
वर्जनीय बुधैरेते निवापे समुपस्थिते ॥
इत्येवमुक्त्वा भगवान्स्ववंश्यं तमृषिं पुरा ।
पितामहसभां दिव्या जगामात्रिस्तपोधनः ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥
7-138-1 भृग्वङ्गिरसके यदा भृगवोऽङ्गिरसश्च वर्तन्ते नान्ये ॥ 7-138-2 श्राद्धेषु कानि कर्माणि वर्ज्यानि ॥ 7-138-8 कृत्वा उपकल्प्य ।
उपकार्याणि मृष्टान्नकशिपूपबर्हणादीनि । विरात्रे प्रभाते ॥ 7-138-9 विषये
मनःसंहृत्य शोकं त्यक्त्वेत्यर्थः ॥ 7-138-12 दक्षिणावर्तिकाः
प्रदक्षिणावर्तिताः । बृसीः आसनानि ॥ 7-138-16 श्रौते पित्राद्युद्देशेन दृष्टो
धर्मो लोके पुत्रोद्देशेनापि स्वेच्छया कल्पित इति सङ्करः ॥ 7-138-23
तत्रार्थम्णे च सोमायेति ट.थ.पाठः ॥ 7-138-28 ते प्रसिद्धाः पित्रादयः ।
विमुच्यन्ते किल्बिषात् नरकादिरूपात् ॥ 7-138-38 पुलकाः
असम्पूर्णतण्डुलयुक्तधान्यानि । हिङ्गुद्रवेषु शाकादिसंस्कारकद्रव्येषु ॥ 7-138-39 सौभाञ्जनकः शिग्रुः ॥ 7-138-40 शीतपाकी शाकविशेषः ॥ 7-138-42 सुदर्शनं
शाकविशेषः ॥
श्रीः