अध्यायः 142

अथ दानधर्मपर्व ॥ 1 ॥

वने विचरतां सप्तर्षीणां परिव्राड्रूपधारिणेन्द्रेण समागमः ॥ 1 ॥ अरुन्धत्या तस्यातिपीनाङ्गत्वे कारणं पृष्टैस्तैस्तत्कथनः ॥ 2 ॥ तथा कामपि पद्मिनीमवलोकितवद्भिस्तैर्बिसग्रहणाय तत्समीपगमनम् ॥ 3 ॥ तत्र तद्रक्षिण्या वृषादर्भिनिर्मितकत्यया स्वस्वनामनिर्वचनेन सरःप्रवेशं चोदिसैस्तांप्रति तन्निर्वचनम् ॥ 4 ॥ भिक्षुरूपिणेन्द्रेण सकृत्स्वनामनिर्वचनेऽपि पुन पृच्छन्त्याः कृत्याया दण्डेन मारणपूर्वकमृषीन्प्रति स्वस्वरूपप्रकटनम् ॥ 5 ॥

भीष्म उवाच ।

अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः ।
व्यचरन्भक्षयन्तो वै मूलानि च फलानि च ॥
अथापश्यन्सुपीनांसपाणिपादमुखोदरम् ।
परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनस्सखम् ॥
अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभम् ।
भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ॥
वसिष्ठ उवाच ।
नैतस्येह यथाऽस्माकमग्निहोत्रमनिर्हुतम् ।
सायं प्रातश्च होतव्यं तेन पीवाञ्शुनस्सखः ॥
अत्रिरुवाच ।
नैतस्येह यथाऽस्माकं क्षुधया वीर्यमाहतम् ।
कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्छुनस्सखः ॥
विश्वामित्र उवाच ।
नैतस्येह यथाऽस्माकं शश्वच्छास्त्रकृतो ज्वरः ।
अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनस्सखः ॥
जमदग्निरुवाच ।
नैतस्येह यथाऽस्माकं भक्तमिन्धनमेव च ।
सञ्चित्यं वार्षिकं चित्ते तेन पीवाञ्शुनस्सखः ॥
कश्यप उवाच ।
नैतस्येह यथाऽस्माकं चत्वारश्च सहोदराः ।
देहिदेहीति भिक्षन्ति तेन पीवाञ्शुनस्सखः ॥
भरद्वाज उवाच ।
नैतस्येह यथाऽस्माकं ब्रह्मबन्धोरचेतसः ।
शोको भार्यापवादेन तेन पीवाञ्शुनस्सखः ॥
गौतम उवाच ।
नैतस्येह यथाऽस्माकं त्रिकौशेयं च राङ्कवम् ।
एकैकं वै त्रिवर्षीयं तेन पीवाञ्शुनस्सखः ॥
भीष्म उवाच ।
अथ दृष्ट्वा परिव्राट् स तान्महर्षीञ्शुनस्सखः ।
अभिवाद्य यथान्यायं पाणिस्पर्शमथाचरत् ॥
परिचर्यां वने तां तु क्षुत्प्रतीकारकाङ्क्षिणः ।
अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते ॥
एकनिश्चयकार्याश्च व्यचरन्त वनानि ते ।
आददानाः समुद्धृत्य मूलानि च फलानि च ॥
कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम् ।
शुचिपूर्णप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् ॥
बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम् ।
वैडूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् ॥
नानाविधैश्च विहगैर्जलप्रवरसेविभिः ।
एकद्वारामनादेयां सूपतीर्थामकर्दमाम् ॥
वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना ।
यातुधानीति विख्याता पद्मिनीं तामरक्षत ॥
शुनस्सखसहायास्तु बिसार्थं ते महर्षयः ।
पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् ॥
ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम् ।
स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः ॥
एका तिष्ठसि का च त्वं कस्यार्थे किं प्रयोजनम् ।
पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि ॥
यातुधान्युवाच ।
याऽस्मि काऽस्म्यनुयोगो मे न कर्तव्यः कथञ्चन ।
आरक्षिणीं मा पद्मिन्या वित्त सर्वे तपोधनाः ॥
ऋषय ऊचुः ।
सर्व एव क्षुधार्ताः स्म न चान्यत्किंचिदस्ति नः ।
भवत्याः सम्मते सर्वे गृह्णीयाम बिसान्युत ॥
यातुधान्युवाच ।
समयेन बिसानीतो गृह्णीध्वं कामकारतः ।
एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् ॥
भीष्म उवाच ।
विज्ञाय यातुधानीं तां कृत्यमृषिवधैषिणीम् ।
अत्रिः क्षुधा परीतात्मा ततो वचनमब्रवीत् ॥
अत्त्रिरुवाच ।
अरात्त्रिरत्त्रिः सा रात्रिर्यां नाधीते त्रिरद्य वै ।
अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने ॥
यातुधान्युवाच ।
यथोदाहृतमेतत्ते त्वया नाम महाद्युते ।
दुर्धार्यमेतन्मनसा गच्छाऽवतर पद्मिनीम् ॥
वसिष्ठ उवाच ।
वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासगृहेष्वपि ।
वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्दि माम् ॥
यातुधान्युवाच ।
नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
कश्यप उवाच ।
कुलंकुलं च कुवमः कुवमः कश्यपो द्विजः ।
काश्यः काशनिकाशत्वादेतन्मे नाम धारय ॥
यातुधान्युवाच ।
यथोदाहृतमेतत्ते मयि नाम महाद्युते ।
दुर्धार्यमेतन्मनसा गच्छाऽवतर पद्मिनीम् ॥
भरद्वाज उवाच ।
भरेऽसुतान्भरे पोष्यान्भरे देवान्भरे द्विजान् ।
भरे भार्यामहं व्याजाद्भरद्वाजोऽस्मि शोभने ॥
यातुधान्युवाच ।
नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
गौतम उवाच ।
गोदमो दमतोऽधूमोऽदमस्ते समदर्शनात् । विद्धि मां गोतमं कृत्ये यातुधानि निबोध मां
यातुधान्युवाच ।
यथोदाहृतमेतत्ते मयि नाम महामुने ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
विश्वामित्र उवाच ।
विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा । विश्वामित्र इति ख्यातं यातुधानि निबोध मां
यातुधान्युवाच ।
नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
जमदग्निरुवाच ।
जाजमद्यजजानेऽहं जिजाहीह जिजायिषि ।
जमदग्निरिति ख्यातं ततो मां विद्धि शोभने ॥
यातुधान्युवाच ।
यथोदाहृतमेतत्ते मयि नाम महामुने ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
अरुन्धत्युवाच ।
धरान्धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम् ।
मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् ॥
यातुधान्युवाच ।
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
गण्डोवाच ।
वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते ।
तेनोन्नतेन गण्डेति विद्धि माऽनलसम्भवे ॥
यातुधान्युवाच ।
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥
पशुसख उवाच ।
पशून्यञ्जामि दृष्ट्वाऽहं पशूनां च सदा सखा ।
गौणं पशुसखेत्येवं विद्धि मामग्निसम्भवे ॥
यातुधान्युवाच ।
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
शुनःसख उवाच ।
एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे ।
शुनःसखसखायं मां यातुधान्युपधारय ॥
यातुधान्युवाच ।
नाम न व्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा ।
तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज ॥
शुनःसख उवाच ।
सकृदुक्तं मया नाम न गृहीतं त्वया यदि ।
तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् ॥
भीष्म उवाच ।
सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा ।
कृत्या पपात मेदिन्यां भस्म साच जगाम ह ॥
शुनःसखश्च हत्वा तां यातुधानीं महाबलाम् ।
भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् ॥
ततस्ते मुनयः सर्वेः पुष्कराणि बिसानि च ।
यथाकाममुपादाय समुत्तस्थुर्मुदाऽन्विताः ॥
श्रमेण महता युक्तास्ते बिसानि कलापशः ।
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ॥
अथोत्थाय जलात्तस्मात्सर्वे ते समुपागमन् ।
नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभाः ॥
ऋषय ऊचुः ।
केन क्षुधाभिभूतानामस्माकं पापकर्मणाम् ।
नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् ॥
भीष्म उवाच ।
ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः ।
त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन ॥
त उक्त्वा बाढमित्येव सर्व एव तदा समम् ।
क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः ॥
अत्रिरुवाच ।
स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु ।
अध्यायेष्वधीयीत बिसस्तैन्यं करोति यः ॥
वसिष्ठ उवाच ।
अनध्याये पठेल्लोके शुनः स परिकर्षतु ।
परिव्राट् कामवृत्तिस्तु बिसस्तैन्यं करोति यः ॥
शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु ।
अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः ॥
कश्यप उवाच ।
`विष्णुं ब्रह्मण्यदेवेशं देवदेवं जगद्गुरुम् । आधातारं विधातारं सन्धातारं जगद्गुरुम् ।
विहाय स भजत्वन्यं बिसस्तैन्यं करोति यः ॥'
सर्वत्र सर्वं लपतु न्यासलोपं करोतु च ।
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥
वृथा मांसाशनश्चास्तु वृथा दानं करोतु च ।
यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ॥
भरद्वाज उवाच ।
नृशंसस्त्यक्तधर्माऽस्तु स्त्रीषु ज्ञातिषु गोषु च ।
ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ॥
उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च ।
जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः ॥
जमदग्निरुवाच ।
पुरीषमुत्सृजत्वप्सु हन्तु गां चैव द्रुह्यत् ।
अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः ॥
द्वेष्यो भार्योपजीवी स्याद्दुरबन्धुश्च वैरवान् ।
अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः ॥
गौतम उवाच ।
अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु ।
विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः ॥
उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः ।
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः ॥
विश्वामित्र उवाच ।
जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः ।
दरिद्रो बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः ॥
अशुचिर्ब्रह्मकूटोऽस्तु मिथ्या चैवाप्यहङ्कृतः ।
कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः ॥
हर्षं करोतु भृतको राज्ञश्वास्तु पुरोहितः । अयाज्यस्य भवेदृत्विक् बिसस्तैन्यं करोति यः
अरुन्धत्युवाच ।
नित्यं परिभवेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः ।
एका स्वादु समश्नातु बिसस्तैन्यं करोति या ॥
ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये ।
अभोग्या वीरसूरस्तु बिसस्तैन्यं करोति या ॥
गण्डोवाच ।
अनृतं भाषतु सदा बन्धुभिश्च विरुध्यतु ।
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ॥
साधयित्वा स्वयं प्राशेद्दास्ये जीर्यतु चैव ह ।
विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या ॥
पशुसख उवाच ।
दास एव प्रजायेतामप्रसूतिरकिञ्चन ।
दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ॥
शुनःसख उवाच ।
अध्वर्यवे दुहितरं वा ददातु च्छन्दोगे वाऽऽचरितब्रह्मचर्ये ।
आथर्वणं वेदमधीत्य विप्रः स्नायीत वा यो हरते बिसानि ॥
ऋषय ऊचुः ।
इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः ।
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख ॥
शुनःसख उवाच ।
न्यस्तमद्यं न पश्यद्भिर्यदुक्तं कृतकर्मभिः ।
सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया ॥
मया ह्यन्तर्हितानीह बिसानीमानि पश्यत ।
परीक्षार्थं भगवतां कृतमेवं मयाऽनघाः ॥
रक्षणार्थं च सर्वेषां भवतामहमागतः ।
यातुधानी ह्यतिक्रूरा कृत्यैषा वो वधैषिणी ॥
वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः ।
दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसम्भवा ॥
तस्मादस्म्यागतो विप्रा वासवं मां निबोधत । अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः ।
उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ॥
भीष्म उवाच ।
ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरन्दरम् ।
सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् ॥
एवमेते महात्मानो योगैर्बहुविधैरपि । क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः ।
नैव लोभं तदा यक्रुस्ततः स्वर्गमवाप्नुवन् ॥
तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत् ।
एष धर्मः परो राजंस्तस्माल्लोभं विवर्जयेत् ॥
इदं नरः सुचरितं समवायेषु कीर्तयन् ।
अर्थभागी च भवति न च दुर्गाण्यवाप्नुते ॥
प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा ।
यशोधर्मार्थभागी च भवति प्रेत्य मानवः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥

7-142-2 परिव्राजं शुना सहेति झ.पाठः ॥ 7-142-4 तेन पीवान्शुना सहेति झ.पाठः ॥ 7-142-9 भार्यापवादः कृत्तिकास्वभिशापात् ॥ 7-142-10 त्रिकौशेयं कुशा रज्जुस्तया निर्वृत्तं काशेयं पाटितसन्धानम् । त्रीणि कौशेयानि यस्मिन् । राङ्कवं रङ्कोर्मृगावेशेषस्य चर्म तदपि त्रिवर्षीयमतिजीर्णम् ॥ 7-142-12 परिचर्यां करिष्यामि कुर्वित्यन्योन्यमुक्त्वेत्यर्थः ॥ 7-142-13 एकरूप एव निश्चयः कार्यं च येषां ते ॥ 7-142-16 उपतीर्थमवतरणमार्गः ॥ 7-142-24 नामार्थद्वारा सामर्थ्यं ज्ञात्वा अस्माकं वधैषिणीयमिति विज्ञायेत्यर्थः ॥ 7-142-25 अरात्त्रिः अरयः कामादयः सन्त्यस्मिन्नित्यरं पापं अर्शआदिभ्योऽजित्यच् । तस्मात्त्रायत इत्यरात्त्रिः । अरशब्दादलुप्तपञ्चमीकात् परस्य त्रायतेरुपरि क्विप्प्रत्ययः । यस्मादरात्रिस्तस्मादत्रिः । अत्तीत्यद् मृत्युस्तस्मात्त्रायत इत्यत्रिः । मृत्युशब्दस्य पाप्मनि प्रयोगदर्शनात् ॥ 7-142-26 मयि नाम महामुने इति झ.पाठः ॥ 7-142-27 वायुश्च पृथिवी चेति श्रुतिप्रसिद्धा वाय्वादयो वसवस्ते यस्य स्वाधीना भवन्ति स वसुमान्प्राप्ताणिमाद्यैश्वर्यो महायोगी । अतिशयेन वसुमानिति वसिष्ठस्तादृशोऽहमस्ति । वसुमच्छब्दादिष्ठन्प्रत्यये परे मतुब्लोपे टिलोपे च वसिष्ठः । वासगृहेषु वासयोग्येषु गृहस्थाश्रमेषु सर्वेषामुपजीव्येषु वसे वसामि अतोऽहं वस्तॄणां मध्ये अतिश्रेष्ठ इति वसिष्ठोऽस्मि ॥ 7-142-29 कशा अश्वताडनरज्जुस्तामर्हन्ति ते कश्या अश्वाः । इन्द्रियाण्येवाश्वाः कश्यास्तदाश्रयत्वाच्छरीराण्यपि कश्यानि । कुलङ्कुलमिति वीप्सायां द्विर्वचनम् । सर्वशरीरेष्वहमेवैकः कश्यपो नाम द्विजोऽस्मि । कश्यानि शरीराणि पाति रक्षति पिबति भुङ्क्ते पाययति योषयति वा कश्यप इति योगात् । कुवमः कुवम इति । कुः पृथवीं तस्यां वमति वर्षतीति कुवम आदित्यः पूर्ववद्द्विवचनम् । सर्वोप्यादित्योऽहमेव । मत्पुत्रत्वात्सर्वेषामादित्यानामित्यर्थः । काश्यो दीप्तिमान् । तत्र हेतुः । काशनिकाशत्वात् बहुकालीनत्वेन काशपुष्पसदृशः सर्वतः पलितश्चिरन्तनस्तपसा दीप्तोऽस्मीस्तर्थः । कुलं कुलं च कुशलः कुपयः काश्यपो द्विजः । काश्यपः काशनीकाश एतन्मे नाम धारयेति क.ड.थ.पाठः ॥ 7-142-31 प्रजा वै वाजस्ता एष बिभर्तीति श्रुत्यनुसारेण स्वनामाह भरे इति । असुतान् अपुत्रानुदासीनानपि दीनानदीनान्पालयामि । भरे सुतान्भरे शिष्यानिति झ.पाठः ॥ 7-142-33 गोपदार्थं स्वर्गं भूमिं च दमयति वशीकरोतीति गोदमः । तत्र हेतुः दमत इति । दमेन इन्द्रियजयेन दमयतीति जितेन्द्रियत्वात् गां द्यां च दमितुं शक्तोस्मीत्यर्थः । अधूमः निर्धूमाग्नितुल्यः । अत एवादमः अन्येन दमितुमयोग्यः तत्र हेतुः । ते त्वयि । समदर्शनात्समस्य ब्रह्मणो दर्शनात् ब्रह्मज्ञानित्वादित्यर्थः । अत्र दकारस्थाने तकारः । गौतमो दमगोधूमो धूमो दुर्दर्शनश्च ते इति थ.ध.पाठः ॥ 7-142-35 मित्रे चर्षौ इति विश्वपदान्तस्य दीर्घः । गवां इन्द्रियाणाम् ॥ 7-142-37 जजामाद्यं जजामायं जजामाहं जजायुषीति क.थ.ध.पाठः । भूयोभूयोऽतिशयेन जमन्ति युगपदनेकेषु यज्ञादिष्वनेकवारं पुनःपुनर्भक्षयन्ति हवींषि ते जाजमन्तो देवाः । `जमु भक्षणे' यङ्लुकि शत्रन्तस्य रूपम् । इज्यन्ते देवता अस्मिन्निति यजोऽग्निः तेषां जान आविर्भावस्तस्मिन जिजायिषि जातोऽस्मि इहलोके अतो मां जिजाहि जानीहि । ततो योगात् मां जमदग्निरिति नामतो विद्धि । जाजमदित्यत्राद्यपदे प्रथमाक्षरलोपे द्वितीयस्याग्नित्वे जमदग्निरिति सिद्धम् । ततो जाजमन्तोऽग्निश्चास्मिन् सन्तीति जमदग्निमान् । ततो मतुब्लोपेन जमदग्निरिति पदम् । एतेनापि स्वस्याधर्षणीयत्वमुक्तम् ॥ 7-142-39 धरान्पर्वतान् । धरित्रीं भुवम् । वसून्देवान्धत्ते इति व्युत्पत्त्या वसुधां दिवं च तिष्ठामि अधितिष्ठामि । भर्तुर्वसिष्ठस्यानन्तरं अव्यवधानेन अनुरुन्धतीत्या नुकारलोपः । सारं धरित्रीवसुधां नेच्छे भर्तुरनन्तरम् । इति ध.पाठः । वसुधामिच्छे भर्तुरिति क.थ.पाठः ॥ 7-142-41 गडि वदनैकदेश इति धातोः गण्डेति नुमा सहितस्यानुकरणम् । मा माम् । वृषादर्भिणाऽग्नौ हुत्वाऽस्या उत्पादितत्वादनलसंभवत्वम् । गण्डं गतवती गण्डं गण़्डा गण्डेति संज्ञिता । गण्डं गण्डेति गण्डेतीति ध.पाठः । चण्डं गतवत्प्रचण्डा चण्डाचण्डेति संज्ञिता । चण्डाचण्डेति चण्डेतीति थ.पाठः ॥ 7-142-43 पशून् जीवान् रञ्जामि रञ्जयामि । मां मम नामेत्यर्थः । सखे सखायौ सख्येय इति थ.पाठः । सहेऽपराधं सख्येय इति ङ.पाठः ॥ 7-142-45 श्वा धर्मः तत्सखायो मुनयः तेषां सखा शुनःसखसखः तम् । शुनां सदा सखायं मामिति ङ.थ. पाठः ॥ 7-142-47 भस्म भस्मताम् ॥ 7-142-51 कलापशः सङ्घशः ॥ 7-142-55 सर्व एव शुनस्सखमिति थ.ध.पाठः ॥ 7-142-57 शुनः सारमेयान्परिकर्षतु क्रीडार्थं मृगयार्थं वा । परिव्राट् कर्मवृत्तिस्त्विति थ.ध.पाठः ॥ 7-142-58 स्वसुतां शुल्कग्रहणेन । कीनाशात् कर्षकात् ॥ 7-142-60 सर्वत्र सर्वं पणतु न्यासलोभं करोतु चेति ट.थ.पाठः ॥ 7-142-61 वृथा यागादिनिमित्तं विना । वृथा नटनर्तकादौ ॥ 7-142-62 जयतां युद्धे वादे वा । मातरं चापि जहत्विति क.पाठः ॥ 7-142-63 कक्षाप्तौ तत्र हि हुतं भस्मीभावमप्राप्य होतुर्दोषकरमित्याशयः ॥ 7-142-67 निर्गुणान्बिभृयाद्भृत्यानिति क.ट.थ.पाठः ॥ 7-142-69 ऋद्ध्या चैवाप्यहंकृत इति झ.पाठः ॥ 7-142-70 वर्षाचरोस्तु भृतक इति झ.पाठः ॥ 7-142-72 ज्ञातीनां अनादरे षष्ठी । ज्ञातीननादृत्येत्यर्थः । अभोग्या योनिदूषिता ॥ 7-142-73 साधुभिश्च विरुध्यत्विति ट.थ.पाठः ॥ 7-142-74 साधयित्वा अन्नं पक्त्वा ॥ 7-142-78 अद्यं भक्ष्यम् ॥ 7-142-79 अन्तर्हितानि अन्तर्धानं प्रापितानि ॥ 7-142-85 राजन्ब्राह्मणस्य प्रकीर्तित इति क.थ.पाठः ॥

श्रीः