अध्यायः 010

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति शुभाशुभकर्मफलप्रतिपादनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

कर्मणां च समस्तानां फलिनां भरतर्षभ ।
फलानि महतां श्रेष्ट प्रब्रूहि परिपृच्छतः ॥
भीष्म उवाच ।
हन्त ते कथयिष्यामि यन्मां पृच्छसि भारत । रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर ।
या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता ॥
येनयेन शरीरेण यद्यत्कर्म करोति यः ।
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ॥
यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम् ।
तस्यांतस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥
न नश्यति कृतं कर्म चित्तपञ्चेन्द्रियैरिह ।
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा शुभाशुभे ॥
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते ।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥
स्थण्डिलेषु शयानानां गृहाणि शयनानि च ।
चीरवल्कलसंवीते वासांस्याभरणानि च ॥
वाहनानि च यानानि योगात्मनि तपोधने ।
अग्नीनुपशयानस्य राज्ञः पौरुषमेव च ॥
रसानां प्रतिसंहारे सौभाग्यमनुगच्छति ।
आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति ॥
अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत् ।
मण्डूकशायी च नरो लभते चेप्सितां गतिम् ॥
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् ।
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ॥
वीरासनं वीरशय्यां वीरस्थानमुपासतः ।
अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा ॥
धनं लभेत दानेन मौनेनाज्ञां विशांपते ।
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ।
फलमूलाशिनो राज्यं स्वर्गः पर्णाशिनां भवेत् ॥
प्रायोपवेशिनो राजन्सर्वत्र सुखमुच्यते ।
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः ॥
स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ।
स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् ॥
सलिलाशी भवेद्यस्तु सदाग्निः संस्कृतो द्विजः ।
मरुत्साधयतो राज्यं नाकपृष्ठमनाशिने ॥
उपवासं च दीक्षायामभिषेकं च पार्थिव ।
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥
अधीत्य सर्ववेदान्वै सद्यो दुःखाद्विमुच्यते ।
`तत्पाठधारणात्स्वर्गमर्थज्ञानात्परां गतिम् ॥
वितृष्णानां वेदजपात्स्वर्गमोक्षफलं स्मृतम् ।' मानसं हि चरन्धर्म स्वर्गलोकमुपाश्नुते ॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योसौप्राणान्तिकोरोगस्तांतृष्णां त्यजतः सुखं ॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
एवं पूर्वकृतं कर्म कर्तारमनुगच्छति ॥
अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
चक्षुः श्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते ॥
येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः । माता च येन प्रीणाति पृथिवी तेन पूजिता ।
येन प्रीणात्युपाध्यायस्तेन स्याद्ब्रह्म पूजितम् ॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥
वैशम्पायन उवाच ।
भीष्मस्यैतद्वचः श्रुत्वा विस्मिताः कुरुपुङ्गवाः ।
आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ॥
यन्मन्त्रे भवति वृथोपयुज्यमाने यत्सोमे भवति वृथाऽभिषूयमाणे ।
यच्चाग्नौ भवति वृथाऽभिहूयमाने तत्सर्वं भवति वृथाऽभिधीयमाने ॥
इत्येतदृषिणा प्रोक्तमुक्तवानस्मि भारत ।
शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि दशमोऽध्यायः ॥ 10 ॥

7-10-2 गतिः फलम् । येन कर्मणा । प्रेत्यभावे मरणोत्तरं देहान्तरप्राप्तौ ॥ 7-10-5 अस्य कर्तुः ॥ 7-10-6 दद्यादभ्यागतायेति शेषः ॥ 7-10-8 वानप्रस्थधर्माणां फलान्याह स्थण्डिलेष्वित्यादिना ॥ 7-10-9 योगात्मनि योगयुक्तचित्ते ॥ 7-10-11 सततं चैकशायी यः स इति झ.पाठः । तत्र एकशायी ब्रह्मचर्यवान् ॥ 7-10-13 वीरा आसतेऽस्मिन्निति वीरासनं रणदेशं उपेत्य वीरशय्यां तत्र दीर्घनिद्रां च प्राप्य वीरस्थानं स्वर्गलोकम् ॥ 7-10-14 आज्ञामविच्छिन्नामिति शेषः । तपसा कृच्छ्रादिना जीवितमायुः ॥ 7-10-16 शाकदीक्षायां शाकमात्राशननियमे ॥ 7-10-17 क्रतुं संकल्पं सत्यसंकल्पत्वमिति यावत् । दीक्षया यज्ञेन ॥ 7-10-18 सदाग्निः अविच्छिन्नाग्निहोत्रः ॥ 7-10-19 अभिषेकं तीर्थाटनम् । वीरस्थानात्स्वर्गादपि विशिष्यते ॥ 7-10-22 मानसं धर्मं विवृणोति येति ॥

श्रीः