अध्यायः 147
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरंप्रति ब्राह्मणादिधर्मनिरूपणपूर्वकं शूद्रस्य यतिशुश्रूषाप्रकारनिरूपणम् ॥ 1 ॥
`पुराशर उवाच ।
क्षत्रा आरम्भयज्ञास्तु वीर्ययज्ञा विशः स्मृताः ।
शूद्रा परिचरायज्ञा जपयज्ञास्तु ब्राह्मणाः ॥
शुश्रूषाजीविनः शूद्रा वैश्या विपणिजीविनः ।
अनिष्टनिग्रहः क्षत्रा विप्राः स्वाध्यायजीविनः ॥
तपसा शोभते विप्रो राजन्यः पालनादिभिः ।
आतिथ्येन तथा वैश्यः शूद्रो दास्येन शोभते ॥
यतात्मना तु शूद्रेण शुश्रूषा नित्यमेव च ।
कर्तव्या त्रिषु वर्णेषु प्रायेणाश्रमवासिषु ॥
अशक्तेन त्रिवर्गस्य सेव्या ह्याश्रमवासिनः ।
यथाशक्यं यथाप्रज्ञं यथाधर्मं यथाश्रुतम् ॥
विशेषेणैव कर्तव्या शुश्रूषा भिक्षुकाश्रमे ॥
आश्रमाणां तु सर्वेषां चतुर्णां भिक्षुकाश्रमम् ।
प्रधानमिति वर्ण्यन्ते शिष्टाः शास्त्रविनिश्चये ॥
यच्चोपदिश्यते शिष्टैः श्रुतिस्मृतिविधानतः ।
तथाऽऽस्थेयमशक्तेन स धर्म इति निश्चितः ॥
अतोऽन्यथा तु कुर्वाणः श्रेयो नाप्नोति मानवः ।
तस्माद्भिक्षुषु शूद्रेण कार्यमात्महितं सदा ॥
इह यत्कुरुते श्रेयस्तत्प्रेत्य समुपाश्नुते ।
तच्चानसूयता कार्यं कर्तव्यं यद्धि मन्यते ॥
असूयता तु तस्येह फलं दुःखादवाप्यते ।
प्रियवादी जितक्रोधो वीततन्द्रीरमत्सरः ॥
क्षमावाञ्शीलसम्पन्नः सत्यधर्मपरायणः ।
आपद्भावेन कुर्याद्धि शुश्रूषां भिक्षुकाश्रमे ॥
अयं मे परमो धर्मस्त्वनेनेदं सुदुष्करम् ।
संसारसागरं घोरं तरिष्यामि न संशयः ॥
विभयो देहमुत्सृज्य यास्यामि परमां गतिम् ।
नातः परं ममाप्यन्य एष धर्मः सनातनः ॥
एवं सञ्चिन्त्य मनसा शूद्रो बुद्धिसमाधिना ।
कुर्यादविमना नित्यं शुश्रूषाधर्ममुत्तमम् ॥
शुश्रूषानियमेनेह भाव्यं शिष्टाशिना सदा ।
शमान्वितेन दान्तेन कार्याकार्यविदा सदा ॥
सर्वकार्येषु कृत्यानि कृतान्येव तु दुर्शयेत् ।
यथा प्रियो भवेद्भिक्षुस्तथा कार्यं प्रसाधयेत् ॥
यदकल्प्यं भवेद्भिक्षोर्न तत्कार्यं समाचरेत् ।
यथाऽऽश्रमस्याविरुद्धं धर्ममात्राभिसंहितम् ॥
तत्कार्यमविचारेण नित्यमेव शुभार्थिना ।
मनसा कर्ममा वाचा नित्यमेव प्रसादयेत् ॥
स्थातव्यं तिष्ठमानेषु गच्छमानाननुव्रजेत् ।
आसीनेष्वासितव्यं च नित्यमेवानुवर्तता ॥
धर्मलब्धेन स्नेहेन पादौ सम्पीडयेत्सदा ।
उद्वर्तनादींश्च तथा कुर्यादप्रतिचोदितः ॥
नैजकार्याणि कृत्वा तु नित्यं चैवानुचोदितः ।
यथाविधिरुपस्पृश्य संन्यस्य जलभाजनम् ॥
भिक्षूणां निलयं गत्वा प्रणम्य विधिपूर्वकम् ।
ब्रह्मपूर्वान्गुरूंस्तत्र प्रणम्यि नियतेन्द्रियः ॥
तथाऽऽचार्यपुरोगाणामनुकुर्यान्नमस्क्रियाम् ।
स्वधर्मचारिणां चापि सुखं पृष्ट्वाऽभिवाद्य च ॥
यो भवेत्पूर्वसंसिद्धस्तुल्यकर्मा भवेत्सदा ।
तस्मै प्रणामः कर्तव्यो नेतरेषु कदाचन ॥
अनुक्त्वा तेषु चोत्थाय नित्यमेव यतव्रतः ।
सम्मार्जनमथो गत्वा कृत्वा चाप्युपलेपनम् ॥
ततः पुष्पबलिं दद्यापुष्पाण्यादाय धर्मतः ।
निष्क्रम्यावसथात्तूर्णमन्यत्कर्म समाचरेत् ॥
यथोपघातो न भवेत्स्वाध्यायेऽऽश्रमिणां तथा ।
उपघातं तु कुर्वाण एनसा सम्प्रयुज्यते ।
तथाऽऽत्मा प्रणिधातव्यो यथा ते प्रीतिमाप्नुयुः ॥
परिचारकोऽहं वर्णानां त्रयाणां धर्मतः स्मृतः ।
किमुताश्रमवृद्धानां यथालब्धोपजीविनाम् ॥
भिक्षूणां गतरागाणां केवलं ज्ञानदर्शिनम् ।
विशेषेण मया कार्या शुश्रूषा नियतात्मना ॥
तेषां प्रसादात्तपसा प्राप्स्यामीष्टां शुभां गतिम् ।
एवमेतद्विनिश्चित्य यदि सेवेत भिक्षुकान् ।
विधिना स्वोपदिष्टेन प्राप्नोति परमां गतिम् ॥' ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥
7-147-1 हविर्यज्ञा विशः स्मृता इति ङ.थ.पाठः ॥
श्रीः