अध्यायः 148

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति यतिशुश्रूषाप्रशंसनम् ॥ 1 ॥

`पराशर उवाच ।

न तथा सम्प्रदानेन नोपवासादिभिस्तथा ।
इष्टां गतिमवाप्नोति यथा शुश्रूषकर्मणा ॥
यादृशेन तु तोयेन शुद्धिं प्रकुरुते नरः ।
तादृग्भवति तद्धौतमुदकस्य प्रभावतः ॥
शूद्रोप्येतेन मार्गेण यादृशं सेवते जनम् ।
तादृग्भवति संसर्गादचिरेण न संशयः ॥
तस्मात्प्रयत्नतः सेव्या भिक्षवो नियतात्मना ।
उदकग्राहणाद्येन स्नपनोद्वर्तनैस्तथा ॥
अध्वना कर्शितानां च व्याधितानां तथैव च ।
शुश्रूषां नियतं कुर्यात्तेषामापदि यत्नतः ॥
दर्भाजिनान्यवेक्षेत भैक्षभाजनमेव च । यथाकामं च कार्याणि सर्वाण्येवोपसाधयेत् ।
प्रायश्चित्तं यता न स्यात्तथा सर्वं समाचरेत् ॥
व्याधितानां तु भिक्षूणां चेलप्रक्षालनादिभिः ।
प्रतिकर्मक्रिया कार्या भेषजानयनैस्तथा ॥
पिंषणालेपनं चूर्णं कषायमथ साधनम् ।
नान्यस्य प्रतिचारेषु सुखार्थमुपपादयेत् ॥
भिक्षाटनोऽभिगच्छेत भिषजश्च विपश्चितः ।
ततो विनिष्क्रियार्थानि द्रव्याणि समुपार्जयेत् ॥
यश्च प्रीतमना दद्यादादद्याद्भेषजं नरः ।
अश्रद्धया हि दत्तानि तान्यभोक्ष्याणि भिक्षुभिः ॥
श्रद्धया यदुपादत्तं श्रद्धया चोपपादितम् ।
तस्योपभोगाद्धर्मः स्याद्व्याधिभिश्च निवर्त्यते ॥
आदेहपतनादेवं शुश्रूषेद्विधिपूर्वकम् ।
न त्वेवं धर्ममुत्सृज्य कुर्यात्तेषां प्रतिक्रियाम् ॥
स्वभावतो हि द्वन्द्वानि विप्रयान्त्युपयान्ति च । स्वभावतः सर्वभावा भवन्ति नभवन्ति च ।
सागरस्योर्मिसदृशा विज्ञातव्या गुणात्मकाः ॥
विद्यादेवं हि यो धीमांस्तत्ववित्तत्वदर्शनः । न स लिप्येत पापेन पद्मपत्रमिवाम्भसा ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 148 ॥

श्रीः