अध्यायः 151
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरंप्रति पुरुषस्य पुण्यविशेषेणि पुनःपुनः स्वर्गभूम्यादिषु परिवर्ततेन जातवैराग्यस्य ब्रह्मज्ञानेनापुनरावृत्तिशाश्वतपदाप्राप्त्यादिप्रकारप्रतिपादनम् ॥ 1 ॥
`पराशर उवाच ।
ततः श्रुतिसमापन्नः संस्कृश्च यथाविधि ।
						चौलोपनयनं तस्य यथावत्क्रियते द्विजैः ॥
					ततोऽष्टमे स वर्षे तु व्रतोपनयनादिभिः ।
						क्रियाभिर्विधिदृष्टाभिर्ब्रह्मत्वमुपनीयते ॥
					गायत्रेण छन्दसा तु संस्कृतश्चरितव्रतः ।
						अधीयमानो मेधावी शुद्धात्मा नियतव्रतः ॥
					अचिरेणैव कालेन साङ्गान्वेदानवाप्नुते ।
						समावृत्तः स धर्मात्मा समावृत्तिक्रियस्तथा ॥
					याजनाध्यापनरतः कुशले कर्मणि स्थितः ।
						अग्निहोइत्रपरो नित्यं देवतातिथिपूजकः ॥
					यजते विविधैर्यज्ञैर्जपयज्ञैस्तथैव च ।
						न्यायागतधनान्वेषी न्यायवृत्तस्तपोधनः ॥
					सर्वभूतहितश्चैव सर्वशास्त्रविशारदः ।
						स्वदारपरितुष्टात्मा क्रतुगामी जितेन्द्रियः ॥
					परापवादविरतः सत्यव्रतपरः सदा ।
						स कालपरिणामात्तु संयुतः कालधर्मणा ॥
					संस्कृतश्चाग्निहोत्रेण यथावद्विधिपूर्वकम् ।
						सोमलोकमवाप्नोति देहन्यासान्न संशयः ॥
					तत्र सोमप्रभैर्देवैरग्निष्वात्तैश्च भास्वरैः ।
						तथा बर्हिषदैश्चैव देवैराङ्गिरसैरपि ॥
					विश्वेभिश्चैव देवैश्च तथा ब्रह्मर्षिभिः पुनः ।
							देवर्षिभिश्चाप्रतिमैस्तथैवाप्सरसां गणैः ।
						
						साध्यैः सिद्धैश्च सततं सत्कृतस्तत्र मोदते ॥
						
					जातरूपमयं दिव्यमर्कतुल्यं मनोजवम् ।
						देवगन्धर्वसंकीर्णं विमानमधिरोहति ॥
					सौम्यरूपा मनःकान्तास्तप्तकाञ्चनभूषणाः ।
						सोमकन्या विमानस्थं रमयन्ति मुदान्विताः ॥
					स तत्र रमते प्रीतः सह देवैः सहर्षिभिः ।
						लोकान्सर्वाननुचरन्दीप्ततेजा मनोजवः ॥
					सभां कामजवीं चापि नित्यमेवाभिगच्छति ।
						सर्वलोकेश्वरमृषिं नमस्कृत्य पितामहम् ॥
					परमेष्ठिरनन्तश्रीर्लोकानां प्रभवाप्ययः ।
							यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
						
						स तत्र वर्तते श्रीमान्द्विशतं द्विजसत्तम ॥
						
					अथ कालक्षयात्तस्मात्स्थानादावर्तते पुनः ।
						जातिधर्मांस्तथा सर्वान्सर्गादावर्तनानि च ॥
					अशाश्वतमिदं सवेमिति चिन्त्योपलभ्य च ।
						शाश्वतं दिव्यमचलमदीनमपनर्भवम् ॥
					आस्थास्यत्यभयं नित्यं यत्रावृत्तिर्न विद्यते ।
						यत्रि गत्वा न म्रियते जन्म चापि न विद्यते ॥
					गर्भक्लेशामयाः प्राप्ता जायता च पुनः पुनः ।
						कायक्लेशाश्च विविधा द्वन्द्वानि विविधानि च ॥
					शीतोष्णसुखदुःखानि ईर्ष्याद्वेषकृतानि च ।
						तत्रतत्रोपभुक्तानि न क्वचिच्छाश्वती स्थितिः ॥
					एवं स निश्चयं कृत्वा निर्मुच्यि ग्रहबन्धनात् ।
						छित्त्वा भार्यामयं पाशं तथैवापत्यसम्भवम् ॥
					यतिधर्ममुपाश्रित्यि गुरुशुश्रूषणे रतः ।
						अचिरेणैव कालेन श्रेयः समभिगच्छति ॥
					योगशास्त्रं च साङ्ख्यं च विदित्वा सोऽर्थतत्वतः ।
						अनुज्ञातश्च गुरुणा यथाशास्त्रमवस्थितः ॥
					पुण्यतीर्थानुसेवी च नदीनां पुलिनाश्रयः ।
						शून्यागारनिकेतश्च वनवृक्षगुहाशयः ॥
					अरण्यानुचरो नित्यं देवारण्यनिकेतनः ।
						एकरात्रं द्विरात्रं वा न क्वचित्सज्जते द्विजः ॥
					शीर्णपर्णभुगेवापि वने चरति भिक्षुकः ।
						न भोगार्थमनुप्रेत्य यात्रामात्रं समश्नुते ॥
					धर्मलब्धं समश्नाति न कामात्किञ्चिदश्नुते ।
						युगमात्रदृगध्वानं क्रोशादूर्ध्वं न गच्छति ॥
					समो मानावमानाभ्यां समलोष्टाश्मकाञ्चनः ।
						सर्वभूताभयकरस्तथैवाभयदक्षिणः ॥
					निर्द्वन्द्वो निर्नमस्कारो निरानन्दपरिग्रहः ।
						निर्ममो निरहङ्कारः सर्वभूतनिराश्रयः ॥
					परिसङ्ख्यानतत्वज्ञस्तदा सत्यरतः सदा ।
						ऊर्ध्वं नाधो न तिर्यक्च न किञ्चिदभिकामयेत् ॥
					एवं हि रममाणस्तु यतिधर्मं यथाविधि ।
						कालस्य परिणामात्तु यथा पक्वफलं तथा ॥
					स विसृज्य स्वकं देहं प्रविशेद्ब्रह्म शाश्वतम् ।
						निरामयमनाद्यन्तं गुणसौम्यमचेतनम् ॥
					निरक्षरमबीजं च निरिन्द्रियमजं तथा ।
						अजय्यमक्षयं यत्तदभेद्यं सूक्ष्ममेव च ॥
					निर्गुणं च प्रकृतिमन्निर्विकारं च सर्वशः ।
							भूतभव्यभविष्यस्य कालस्य परमेश्वरम् ।
						
					अव्यक्तं पुरुषं क्षेत्रमानन्त्याय प्रपद्यते ॥' ॥ ॥
					इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥
7-151-33 गुणसाम्यमचेतनमिति क.थ.पाठः ॥ 7-151-35 निर्गुणं चाप्रकृतिमदिति थ.पाठः ॥
श्रीः