अध्यायः 152

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति चातुर्वर्ण्यस्य श्रेयस्साधनोपायप्रतिपादकपराशरवचनानुवादः ॥ 1 ॥

`पराशर उवाच ।

एवं स भिक्षुर्निर्वाणं प्राप्नुयाद्दग्धकिल्बिषः ।
इहस्थो देहमुत्सृज्य नीडं शकुनिवद्यथा ॥
सत्पथालम्बनादेव शूद्रः प्राप्नोति सद्गतिम् ।
ब्रह्मणः स्थानमचलं स्थानात्स्थानमवाप्नुयात् ॥
यथा खनन्खनित्रेण जाङ्गले वारि विन्दति ।
अनिर्वेदात्ततः स्थानमीप्सितं प्रतिपद्यते ॥
सैषा गतिरनाद्यन्ता सर्वैरप्युपधारिता । तस्माच्छूद्रैरनिर्वेदाच्छ्रद्दधानैस्तु नित्यदा ।
वर्तितव्यं यथाशक्त्या यथा प्रोक्तं मनीषिभिः ।
यत्करोति तदश्नाति शुभं वा यदि वाऽशुभम् ।
नाकृतं भुज्यते कर्म न कृतं नश्यते फलम् ॥
तथा शुभसमाचारः शुभमेवाप्नुते फलम् । तथाऽशुभसमाचारो ह्यशुभं समवाप्नुते ।
शुभान्येव समादद्याद्य इच्छेद्भूतिमात्मनः ॥
भूतिश्च नान्यतः शक्त्या शूद्राणामिति निश्चयः ।
क्रते यतीनां शुश्रूषामिति सन्तो व्यवस्थिताः ॥
तस्मादागमसम्पन्नो भवेत्सुनियतेन्द्रियः ।
शक्यते ह्यागमादेव गतिं प्राप्तुमनामयाम् ॥
वरा चैषा गतिर्दृष्टा यामन्वेपन्ति साधवः ।
यत्रामृतत्वं लभते त्यक्त्वा दुःखमनन्तरम् ॥
इमं हि धर्मिमास्थाय येऽपि स्युः पापयोनयः । स्त्रियो वैश्याश्च शूद्राश्च प्राप्नुयुः परमां गतिम् ।
किं पुनर्ब्राह्मणो विद्वान्क्षत्रियो वा बहुश्रुतः ॥
न चाप्यक्षीणपापस्य ज्ञानं भवति देहिनः ।
ज्ञानोपलब्धिर्भवति कृतकृत्यो यदा भवेत् ॥
उपलभ्य तु विज्ञानं ज्ञानं वाऽप्यनसूयकः ।
तथैव वर्तेद्गुरुषु भूयांसं वा समाहितः ॥
अथावमन्येत गुरुं तथा तेषु प्रवर्तते ।
व्यर्थमस्य श्रुतं भवति ज्ञानमज्ञानतां व्रजेत् ॥
गतिं चाप्यशुभां गच्छेन्निरयाय न संशयः ।
प्रक्षीयते तस्य पुण्यं ज्ञानमस्य विरुध्यते ॥
अदृष्टपूर्वकल्याणो यथा दृष्ट्वा विधिं नरः ।
उत्सेकान्मोहमापद्य तत्वज्ञानमवाप्तवान् ॥
एवमेवि हि नोत्सेकः कर्तव्यो ज्ञानसम्भवः ।
फलं ज्ञानस्य हि शमः प्रशामाय यतेत्सदा ॥
उपशान्तेन दान्तेन क्षमायुक्तेन सर्वदा ।
शुश्रूषा प्रतिपत्तव्या नित्यमेवानसूयता ॥
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।
इन्द्रियार्थांश्च मनसा मनो बुद्धौ समादधेत् ॥
धृत्याऽऽसीत ततो गत्वा शुद्धदेशं सुसंवृतम् ।
लब्धासनं यथा दृष्टं विधिपूर्वं समाचरेत् ॥
ज्ञानयुक्तस्तथा देवं हृदिस्थमुपलक्षयेत् ।
आदीप्यमानं वपुषा विधूममनलं यथा ॥
रश्मिमन्तमिवादित्यं वैद्युताग्निमिवाम्बरे ।
संस्थितं हृदये पश्येदीशं शाश्वतमव्ययम् ॥
न चायुक्तेन शक्येत द्रष्टुं देहे महेश्वरः ।
युक्तस्तु पश्यते बुद्ध्या सन्निवेश्य मनो हृदि ॥
अथ त्वेवं न शक्नोति कर्तुं हृदयधारणम् ।
यथासांख्यमुपासीत यथावद्योगमास्थितः ॥
पञ्च बुद्धीन्द्रियाणीह पञ्च कर्मेन्द्रियाणि वै ।
पञ्च भूतविशेषाश्च मनश्चैव तु षोडश ॥
तन्मात्राण्यपबि पञ्चैव मनोऽहङ्कार एव च । अष्टमं चाप्यथाव्यक्तमेताः प्रकृतिसंज्ञिताः ।
एताः प्रकृतयश्चाष्टौ विकाराश्चापि षोडश ॥
एवमेतदिहस्थेन विज्ञेयं तत्वबुद्धिना ।
एवं वर्ष्म समुत्तीर्य तीर्णो भवति नान्यथा ॥
परिसंख्यानमेवैतन्मन्तव्यं ज्ञानबुद्धिना ॥
अहन्यहनि शान्तात्मा पावनाय हिताय च । एवमेव प्रसंख्याय तत्वबुद्धिर्विमुच्यते ।
निष्पलं केवलं भवति शुद्धतत्वार्थतत्ववित् ॥
भिक्षुकाश्रममास्थाय शुश्रूषानिरतो बुधः ।
शूद्रो निर्मुच्यते सत्वसंसर्गादेव नान्यथा ॥
सत्संनिक्रषे परिवर्तितव्यं विद्याधिकाश्चापि निषेवितव्याः ।
सवर्णतां गच्छति सन्निकर्षा- न्नीलः खगो मेरुमिवाश्रयन्वै ॥
भीष्म उवाच ।
इत्येवमाख्याय महामुनिस्तदा चतुर्षु वर्णेषु विधानमर्थवित् ।
शुश्रूषया वृत्तगतिं समाधिना समाधियुक्तः प्रययौ स्वमाश्रमम् ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः ॥ 152 ॥

श्रीः