अध्यायः 153

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति सकलसेव्यताप्रयोजकगुणप्रतिपादकेन्द्रमातलिसंवादानुवादः ॥ 1 ॥

`युधिष्ठिर उवाच ।

केषां देवा महाभागाः सन्नमन्ते महात्मनाम् ।
लोकेऽस्मिंस्तनृषीन्सर्वञ्श्रोतुमिच्छामि सत्तम ॥
भीष्म उवाच ।
इतिहासमिमं विप्राः कीर्तयन्ति पुराविदः ।
अस्मिन्नर्थे महाप्राज्ञास्तं निबोध युधिष्ठिर ॥
वृत्रं हत्वाऽप्युपावृत्तं त्रिदशानां पुरस्कृतम् ।
महेन्द्रमनुसम्प्राप्तं स्तूयमानं महर्षिभिः ॥
श्रिया परमया युक्तं रथस्थं हरिवाहनम् ।
मातलिः प्राञ्जलिर्भूत्वा देवमिन्द्रमुघाच ह ॥
नमस्कृतानां सर्वेषां भगवंस्त्वं पुरस्कृतः ।
येषां लोके नमस्कुर्यात्तान्ब्रवीतु भवान्मम ॥
तस्य तद्वचनं श्रुत्वा देवराजः शचीपतिः ।
यन्तारं परिपृच्छन्तं तमिन्द्रः प्रत्युवाच सः ॥
धर्मं चार्थं च कामं च येषां चिन्तयतां मतिः ।
नाधर्मे वर्तते नित्यं तान्नमस्यामि मातले ॥
ये रूपगुणसम्पन्नाः प्रमदाहृदयंगमाः ।
निवृत्ताः कामभोगेषु तान्नमस्यामि मातले ॥
स्वेषु भोगेषु सन्तुष्टाः सुवाचो वचनक्षमाः ।
अमानकामाश्चार्घार्हास्तान्नमस्यामि मातले ॥
धनं विद्यास्तथैश्वर्यं येषां न चलयेन्मतिम् ।
चलितां ये निगृह्णन्ति तान्नित्यं पूजयाम्यहम् ॥
इष्टैर्दारैरुपेतानां शुचीनामग्निहोत्रिणाम् ।
चतुष्पादकुटुम्बानां मातिले प्रणमाम्यहम् ॥
महतस्तपसा प्राप्तौ धनस्य विपुलस्य च ।
कत्यागस्तस्य न वै कार्यो योऽऽत्मानं नावबुध्यते ॥
येषामर्थस्तथा कामो धर्ममूलविवर्धितः ।
धर्मार्थौ तस्य नियतौ तान्नमस्यामि मातले ॥
धर्ममूलार्थकामानां ब्राह्मणानां गवामपि ॥
पतिव्रतानां नारीणां प्रणामं प्रकरोम्यहम् ॥
ये भुक्त्वा मानुषान्भोगान्पूर्वे वयसि मातले ।
तपसा स्वर्गमायान्ति शश्वत्तान्पूजयाम्यहम् ॥
असंभोगान्नचासक्तान्धर्मनित्याञ्जितेन्द्रियान् ।
संन्यस्तानचलप्रख्यान्मनसा पूजयामि तान् ॥
ज्ञानप्रसन्नविद्यानां निरूढं धर्ममीप्सितम् ।
परैः कीर्तितशौचानां मातले तान्नमाम्यहम्' ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥

श्रीः