अध्यायः 156

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति बलिदीपप्रदानकथनोपयोगितया नहुषचरितकथनारम्भः ॥ 1 ॥ देवैर्वरदानपूर्वकमिन्द्रपदं प्रापितेन नहुषेण पर्पात्सप्तर्ष्यादिभिः पर्यायेण स्वयानवाहनम् ॥ 2 ॥ अगस्त्यस्य तद्यानवहनपर्याये भृगुणाऽगस्त्यंप्रति स्वेन नहुषस्याधःपातनप्रतिज्ञानम् ॥ 3 ॥

युधिष्ठिर उवाच ।

श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम् ।
फलं बलिविधाने च तद्भूयो वक्तुमर्हसि ॥
धूपप्रदानस्य फलं प्रदीपस्य तथैव च ।
बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नहुषस्य च संवादमगस्त्यस्य भृगोस्तता ॥
नहुषो हि महाराज राजर्षिः सुमहातपाः ।
देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा ॥
तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन् ।
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः ॥
मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः ।
प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः ॥
अग्निकार्याणि समिधः कुशाः सुमनसस्तथा ।
बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च ॥
सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः ।
जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः ॥
देवानभ्यर्चयच्चापि विधिवत्स सुरेश्वरः ।
सर्वानेव यथान्यायं यथापूर्वमरिंदम ॥
अथेनद्रोऽहमिति ज्ञात्वा अहङ्कारं समाविशत् ।
सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपतेः ॥
सप्तर्षीन्वाहयामास वरदानदमान्वितः ।
परिहीनक्रियश्चैव दुर्बलत्वमुपेयिवान् ॥
तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान् ।
अहङ्काराभिभूतस्य सुमहानत्यवर्तत ॥
अथ पर्यायशः सर्वान्वाहनायोपचक्रमे ।
पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत ॥
अथागत्य महातेजा भृगुर्ब्रह्मविदांवरः ।
अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत् ॥
एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः ।
नहुषस्य किमर्थं वै मर्षयाम महामुने ॥
अगस्त्य उवाच ।
कथमेष मया शक्यः शप्तुं यस्य महामुने ।
वरदेन वरो दत्तो भवतो विदितश्च सः ॥
यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति ।
इत्यनेन वरं देवो याचितो गच्छता दिवम् ॥
एवं न दग्धः स मया भवता च न संशयः ।
अन्येनाप्यृषिमुख्येन न दग्धो न च पातितः ॥
अमृतं चैव पानाय दत्तमस्मै पुरा विभो ।
महात्मना तदर्तं च नास्माभिर्विनिपात्यते ॥
प्रायच्छत वरं देवः प्रजानां दुःखकारणम् ।
द्विजेष्वधर्मयुक्तानि स करोति नराधमः ॥
तत्र यत्प्राप्तकालं नस्तद्ब्रू वदतांवर ।
भवांश्चापि यथा ब्रूयात्तत्कर्तास्मि न संशयः ॥
भृगुरुवाच ।
पितामहनियोगेन भवन्तं सोऽहमागतः ।
प्रतिकर्तुं बलवति नहुषे दर्पमोहिते ॥
अद्य हि त्वां सुदुर्बुद्धी रथे योक्ष्यति देवराट् ।
अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा ॥
अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम् । सञ्चाल्य पापकर्माणमैन्द्रात्स्थानात्सुदुर्मतिम् ।
अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति ।
दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः ॥
व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम् ।
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् ॥
तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम् ।
धरण्यां पातयिष्यामि पश्यतस्ते महामुने ॥
नहुषं पापकर्माणमैश्वर्यबलमोहितम् ।
यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने ॥
एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः ।
अगस्त्यः परमप्रीतो बभूव विगतज्वरः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः ॥ 156 ॥

7-156-7 लाजाभिः । आर्षं स्त्रीत्वम् ॥ 7-156-10 अथेन्द्रस्य भविष्यत्वादहङ्कारः समाविशत् इति ध.पाठः ॥ 7-156-18 न शप्तो विनिपातिन इति थ.ध.पाठः ॥ 7-156-26 शपिष्ये पापमोहितमिति थ.ध.पाठः ॥

श्रीः