अध्यायः 159

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति पुण्यपापकर्मफलभेदस्य पुण्यकर्मणां च तरतमभावस्य च बोधनाय तादृश कर्मविशेषसाध्यफलविशेषप्रतिपादकशक्रगौतमसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

एको लोकस्तु कृतिनां स्वर्गे लोके पितामह ।
उत तत्रापि नानात्वं सर्वं ब्रूहि पितामह ॥
भीष्म उवाच ।
कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः ।
पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो नराः ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गौतमस्य मुनेस्तात संवादं वासवस्य च ॥
ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः ।
महावने हस्तिशिशुं परिद्यूनममातृकम् ॥
तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः ।
स तु दीर्घेण कालेनि बभूवातिबलो महान् ॥
तं प्रपन्नं महादीर्घं प्रभूतं सर्वतोमदम् ।
धृतराष्ट्रस्वरूपेण शक्रो जग्राह हस्तिनम् ॥
ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः ।
अभ्यभाषत राजानं धृतराष्ट्रं महातपाः ॥
मामाहार्षीर्हस्तिनं पुत्रमेनं दुःखात्पुष्टं धृतराष्ट्रात्कृतज्ञ ।
मैत्रं सतां सप्तपदं वदन्ति मित्रद्रोहो नेह राजन्स्पृसेत्त्वाम् ॥
इध्मोदकप्रदातारं शून्यपालं ममाश्रमे ।
विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि ॥
शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम ।
न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम् ॥
धृतराष्ट्र उवाच ।
गवां सहस्रं भवते ददानि शतानि निष्कस्य ददानि पञ्च ।
अन्यच्च वित्तं विविधं महर्षे किं ब्राह्मणस्येह गजेन कृत्यम् ॥
गौतम उवाच ।
तवैव गावो हि भवन्तु राज- न्दास्यः सनिष्का विविधं च रत्नम् ।
अन्यच्च वित्तं विविधं नरेन्द्र किं ब्राह्मणस्येह धनेन कृत्यम् ॥
धृतराष्ट्र उवाच ।
ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं राजन्यानां नागकुलानि विप्र ।
स्वं वाहनं नयतो नास्त्यधर्मो नागश्रेष्ठं गौतमास्मान्निवर्त ॥
गौतम उवाच ।
यत्र प्रेतो नन्दति पुण्यकर्मा यत्र प्रेतः शोचते पापकर्मा ।
वैवस्वतस्य सदने महात्मन- स्तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥
धृतराष्ट्र उवाच ।
ये निष्क्रिया नास्तिकाः श्रद्धधानाः पापात्मान इन्द्रियार्थे निसृष्टाः ।
यमस्य ते यातनां प्राप्नुवन्ति परं गन्ता धृतराष्ट्रो न तत्र ॥
गौतम उवाच ।
वैवस्वती संयमनी जनानां यत्रानृतं नोच्यते यत्र सत्यम् ।
यत्रांबलान्बलिनो घातयन्ति तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥
धृतराष्ट्र उवाच ।
ज्येष्ठां स्वसारं पितरं मातरं च गुरून्यथाऽमानयन्तश्चरन्ति ।
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥
गौतम उवाच ।
मन्दाकिनी वैश्रवणस् राज्ञो महाभागा भोगिजनप्रवेश्या ।
गन्धर्वयक्षैरप्सरोभिश्च जुष्टा तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥
धृतराष्ट्र उवाच ।
अतिथिव्रताः सुव्रता ये जना वै प्रतिश्रयं ददति ब्राह्मणेभ्यः ।
शिष्टाशिनः संविभज्याश्रितेभ्यो मन्दाकिनीं तेऽपि हि भूषयन्ति ॥
गौतम उवाच ।
मेरोरग्रे यद्वनं भाति रम्यं सुपुष्पितं किन्नरीगीतजुष्टम् ।
सुदर्शना यत्र जम्बूर्विशाला तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥
धृतराष्ट्र उवाच ।
ये ब्राह्मणा मृदवः सत्यशीला बहुश्रुताः सर्वभूताभिरामाः ।
येऽधीयते सेतिहासं पुराणं मध्वाहुत्या जुह्वति वै द्विजेभ्यः ॥
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ।
यदन्यत्ते विदितं स्थानमस्ति तद्ब्रूहि त्वं त्वरितो ह्येष यामि ॥
गौतम उवाच ।
सुपुष्पितं किंनरराजजुष्टं प्रियं वनं नन्दनं नारदस्य ।
गन्धर्वाणामप्सरसां च सद्म तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥
धृतराष्ट्र उवाच ।
ये नृत्यगीते कुशला जनाः सदा देवात्मानः प्रियकामाश्चरन्ति ।
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥
गौतम उवाच ।
यत्रोत्तराः कुरवो भान्ति रम्या देवैः सार्धं मोदमाना नरेन्द्रः ।
यत्राग्नियौनाश्च वसन्ति विप्रा अब्योनयः पर्वतयोनयश्च ॥
यत्र शक्रो वर्षति सर्वकामा- न्यत्र स्त्रियः कामचारा भवन्ति ।
यत्र चेर्ष्या नास्ति नारीनराणां तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥
धृतराष्ट्र उवाच ।
ये सर्वभूतेषु निवृत्तकामा अमांसादा न्यस्तदण्डाश्चरन्ति ।
न हिंसन्ति स्थावरं जङ्गमानि भूतानां ये सर्वभूतात्मभूताः ॥
निराशिषो निर्ममा वीतरागा लाभालाभे तुल्यनिन्दाप्रशंसाः ।
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥
गौतम उवाच ।
ततोऽपरे भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा वीतशोकाः ।
सोमस्य राज्ञः सदने महात्मन- स्तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥
धृतराष्ट्र उवाच ।
ये दानशीला न प्रतिगृह्णते सदा न चाप्यर्थांश्चाददते परेभ्यः ।
येषामदेयमर्हते नास्ति किञ्चि- त्सर्वातिथ्याः सुप्रजना जनाश्च ॥
ये क्षन्तारो नाभिजल्पन्ति चान्या- ञ्शक्ता भूत्वा सततं पुण्यशीलाः ।
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥
गौतम उवाच ।
ततोऽपरे भान्ति लोकाः सनातना विराजसा वितमस्का विशोकाः ।
आदित्यदेवस्य पदं महात्मन- स्तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥
धृतराष्ट्र उवाच ।
स्वाध्यायशीला गुरुशुश्रूषकाश्च तपस्विनः सुव्रताः सत्यसन्धाः ।
आचार्याणामप्रतिकूलभाषिणो नित्योत्थिता गुरुकर्मस्वचोद्याः ॥
तथाविधानामेष लोको महर्षे विशुद्धानां भावितो वाग्यतानाम् ।
सत्ये स्थितानां वेदविदां महात्मनां परं गन्ता धृतराष्ट्रो न तत्र ॥
गौतम उवाच ।
ततोऽपरे भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा विशोकाः ।
वरुणस्य राज्ञः सदने महात्मन- स्तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥
धृतराष्ट्र उवाच ।
चातुर्मास्यैर्ये यजन्ते जनाः सदा तथेष्टीनां दशशतं प्राप्नुवन्ति ।
ये चाग्निहोत्रं जुह्वति श्रद्दधाना यथान्यायं त्रीणि वर्षाणि विप्राः ॥
स्वदारगाणां धर्मकृतां महात्मनां यथोदिते वर्त्मनि सुस्थितानाम् ।
धर्मान्मनामुद्वहतां गतिं तां परं गन्ता धृतराष्ट्रो न तत्र ॥
गौतम उवाच ।
इन्द्रस्य लोका विरजा विशोका दुरन्वयाः काङ्क्षिता मानवानाम् ।
तस्याहं ते भवने भूरितेजसो राजन्निमं हस्तिनं यातयिष्ये ॥
धृतराष्ट्र उवाच ।
शतवर्षजीवी यश्च शूरो मनुष्यो वेदाध्यायी यश्च यज्वाऽप्रमत्तः ।
एते सर्वे शक्रलोकं व्रजन्ति परं गन्ता धृतराष्ट्रो न तत्र ॥
गौतम उवाच ।
प्राजापत्याः सन्ति लोका महान्तो नाकस्य पृष्ठे पुष्कला वीतशोकाः ।
मनीषिणां सर्वलोकाभयानां तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥
धृतराष्ट्र उवाच ।
ये राजानो राजसूयाभिषिक्ता धर्मात्मानो रक्षितारः प्रजानाम् ।
ये चाश्वमेधावभृथे प्लुताङ्गा- स्तेषां लोका धृतराष्ट्रो न तत्र ॥
गौतम उवाच ।
ततःपरं भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा वीतशोकाः ।
तस्मिन्नहं दुर्लभे चाप्यधृष्ये गवां लोके हस्तिनं यातयिष्ये ॥
धृतराष्ट्र उवाच ।
यो गोसहस्री शतदो महात्मा यो गोशती दश दद्याच्च शक्त्या ।
तथा दशभ्यो यश्च दद्यादिहैकां पञ्चभ्यो वा दानशीलस्तथैकाम् ॥
ये जीर्यन्ते ब्रह्मचर्येणि विप्रा ब्राह्मीं वाचं परिरक्षन्ति चैव ।
मनस्विनस्तीर्थयात्रापरा ये ते तत्र मोदन्ति ततो विमानैः ॥
प्रभासं मानसं तीर्थ पुष्कराणि महत्सरः ।
पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम् ॥
गां हयशिरश्चैव विपाशां स्थूलवालुकाम् ।
तूष्णीं गङ्गां शनैर्गङ्गां महाह्रदमथापि च ॥
गोमतीं कौशिकीं पंपां महात्मानो धृतव्रताः ।
सरस्वतीदृषद्वत्यौ यमुनां ये तु यान्ति च ॥
तत ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः ।
प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै ॥
गौतम उवाच ।
यत्र शीतभयं नास्ति न चोष्णभयमण्वपि ।
न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा ॥
न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा । न जरामरणे तत्र न पुण्यं न च पातकम् ।
तस्मिन्विरजसि स्फीते प्रज्ञासत्वव्यवस्थिते ।
स्वयम्भुभवने पुण्ये हस्तिनं यातयिष्यति ॥
धृतराष्ट्र उवाच ।
निर्मुक्ताः सर्वसङ्गैर्ये कृतात्मानो यतव्रताः ।
अध्यात्मयोगसंस्तानैर्युक्ताः स्वर्गगतिं गताः ॥
ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्विकाः ।
न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने ॥
गौतम उवाच ।
रथन्तरं यत्र बृहच्च गीयते यत्र वेदिः पुण्यजनैर्वृता च ।
यत्रोपयाति हरिभिः सोमपीथी तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥
बुध्यामि त्वां वृत्रहणं शतक्रतुं व्यतिक्रमन्तं भुवनानि विश्वा ।
कच्चिन्न वाचा वृजिनं कदाचि- दकार्षं ते मनसोऽभिषङ्कात् ॥
शतक्रतुरुवाच ।
मघवाऽहं लोकपथं प्रजाना- मन्वागमं परिवादे गजस्य ।
तस्माद्भवान्प्रणतं माऽनुशास्तु ब्रवीषि यत्तत्करवाणि सर्वम् ॥
गौतम उवाच ।
श्वेतं करेणुं मम पुत्रं हि नागं प्रियं तु मे षष्टिवर्षं तु बालम् ।
यो मे वने वसतोऽभूद्द्वितीय- स्तमेव मे देहि सुरेन्द्र नागम् ॥
शतक्रतुरुवाच ।
अयं सुतस्ते द्विजमुख्यनाग आघ्रायते त्वामभिवीक्षमाणः ।
पादौ च ते नासिकयोपजिघ्रते श्रेयो ममाध्याहि नमश्च तेऽस्तु ॥
गौतम उवाच ।
शिवं सदैवेह सुरेन्द्र तुभ्यं ध्यायामि पूजां च सदा प्रयुञ्जे ।
ममापि त्वं शक्र शिवं ददस्व त्वया दत्तं प्रतिगृह्णामि नागम् ॥
शतक्रतुरुवाच ।
येषां वेदा निहिता वै गुहायां मनीषिणां सत्यवतां महात्मनाम् ।
तेषां त्वयैकेन महात्मनाऽस्मि बुद्धस्तस्मात्प्रीतिमांस्तेऽहतद्य ॥
हन्तैहि ब्राह्मणि क्षिप्रं सह पुत्रेण हस्तिना ।
त्वं हि प्राप्तुं शुभाँल्लोकानह्नाय च चिराय च ॥
भीष्म उवाच ।
स गौतमं पुरुस्कृत्य सह पुत्रेण हस्तिना ।
दिवमाचक्रमे वज्री सद्भिः सह दुरासदम् ॥
इदं यः शृणुयान्नित्यं यः पठेद्वा जितेन्द्रियः ।
स याति ब्रह्मणो लोकं ब्राह्मणो गौतमो यथा ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनषष्ट्यधिकशततमोऽध्यायः ॥ 159 ॥

7-159-2 पुण्यपापयोरिव पुण्यानामवान्तरभेदोऽस्तीत्यर्थः ॥ 7-159-11 दासीशतं निष्कशतानि पञ्च । इति झ.पाठः ॥ 7-159-12 ब्राह्मणस्य ब्राह्मणसम्बन्धिना धनेन ॥ 7-159-14 यातयिष्ये हस्तिनम् । स्वीयं फलं त्वत्तो ग्रहीष्ये इत्यर्थः । हस्तिनं याचयिष्ये इति क.ङ.ध.पाठः ॥ 7-159-18 यथा शत्रुं मदमत्ताश्चरन्ति इति झ.पाठः ॥ 7-159-25 अग्नियौना धृष्टद्युम्नवदग्निरेव यौनं योनिर्येषां ते ॥ 7-159-31 क्षन्तारः क्षमिणः ॥ 7-159-51 हस्तिनं मे प्रदास्यसि इति झ.पाठः ॥

श्रीः