अध्यायः 160

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति विप्रवचनस्यैहिकपारत्रिकश्रेयस्साधनत्वकथनम् ॥ 1 ॥ तथाऽनशनस्य महातपस्त्वकथनम् ॥ 2 ॥

युधिष्ठिर उवाच ।

दानं बहुविधाकारं शान्तिः सत्यमहिंसितम् ।
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य वाऽपि यत् ॥
पितामहस्य विदितं किमन्यत्तपसो बलात् ।
तपसो यत्परं तेऽद्य तन्नो व्याख्यातुमर्हसि ॥
भीष्म उवाच ।
तपसः प्रक्षयो यावत्ताल्लोको युधिष्ठिर ।
मतं ममात्र कौन्तेय तपो नानशनात्परम् ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः ॥
अतीत्य सुरलोकं च गवां लोकं च भारत ।
ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतम् ॥
तं तु दृष्ट्वा वचः प्राह ब्रह्मा राजन्भगीरथम् ।
कथं भगीरथाऽऽगास्त्वमिमं लोकं दुरासदम् ॥
न हि देवा न गन्धर्वा न मनुष्या भगीरथ ।
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ॥
भगीरथ उवाच ।
निश्शङ्कमन्नमददां ब्राह्मणोभ्यः शतं सहस्राणि सदैवतानाम् ।
ब्राह्मं व्रतं नित्यमास्थाय विद्व- न्न त्वेवाहं तस्य फलादिहागाम् ॥
दशैकरात्रान्दशपञ्चरात्रा- नेकादशैकादशकान्क्रतूंश्च ।
ज्योतिष्टोमानां च शतं यदिष्टं फलेन तेनापि च नागतोऽहम् ॥
यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपोऽहम् ।
अदां च तत्राश्वतरीसहस्रं नारीपुरं न च तेनाहमागाम् ॥
दशायुतानि चाश्वानां गोऽयुतानि च विंशतिम् ।
पुष्करेषु द्विजातिभ्यः प्रादां शतसहस्रशः ॥
सुवर्णचन्द्रोत्तमधारिणीनां कन्योत्तमानामददं सहस्रम् ।
षष्टिं सहस्राणि विभूषितानां जाम्बूनदैराभरणैर्न तेन ॥
दशार्बुदान्यददं गोसवेज्या- स्वेकैकशो दश गा ओकनाथ ।
समानवत्साः पयसा समन्विताः सुवर्णकांस्योपदुहा न तेन ॥
आप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम् ।
गृष्टीनां क्षीरदोग्ध्रीणां रोहिणीनां शतानि च ॥
दोग्ध्रीणां वै गवां चापि प्रयुतानि दशैव ह ।
प्रादां दशगुणं ब्रह्मन्न तेनाहमिहागतः ॥
वाजिनां बाह्लिजातानामयुतान्यददं दश ।
कर्काणां हेममालानां न च तेनाहमागतः ॥
कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दशान्वहम् ।
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः ॥
वाजिनां श्यामकर्णानां हरितानां पितामह ।
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च ॥
ईषादन्तान्महाकायान्काञ्चतस्रग्विभूषितान् ।
पद्मिनो वै सहस्राणि प्रादां दश च सप्त च ॥
अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः ।
रथानां काञ्चनाङ्गानां सहस्राण्यददं दश ॥
सप्त चान्यानि युक्तानि वाजिभिः समलङ्कृतैः ।
दक्षिणावयवाः केचिद्वेदैर्ये सम्प्रकीर्तिताः ॥
वाजपेयेषु दशसु प्रादां तेष्वपि चाप्यहम् ।
शक्रतुल्यप्रभावाणामिज्यया विक्रमेण ह ॥
सहस्रं निष्ककण्ठानामददं दक्षिणामहम् । विजित्य भूपतीन्सर्वानर्थैरिष्ट्वा पितामह ।
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः ॥
स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते ।
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते ॥
वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते ।
वरं ग्रामशतं चाहमेकैकस्यां तिथावदाम् ॥
तपस्वी नियताहारः शममास्थाय वाग्यतः ।
दीर्घकालं हिमवति गङ्गार्थमचरं तपः ॥
मूर्ध्ना हरं महादेवं प्रणम्याभ्यर्चयन्नृपः ।
न तेनाप्यहमागच्छं फलेनेह पितामह ॥
शम्याक्षेपैरयजं यच्च देवा- ञ्शतैः क्रतूनामयुतैश्चापि यच्च ।
त्रयोदशद्वादशाहैश्च देव सपौण्डरीकैर्न च तेषां फलेन ॥
अष्टौ सहस्राणि ककुद्मिनामहं शुक्लर्षभाणामददं द्विजेभ्यः ।
एकैकं वै काञ्चनं शृङ्गमेभ्यः पत्नीश्चैषामददं निष्ककण्ठीः ॥
हिरण्यरत्ननिचयानददं रत्नपर्वतान् ।
धनधान्यैः समृद्धांश्च ग्रामाञ्शतसहस्रशः ॥
शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः ।
इष्ट्वाऽनेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च ॥
एकादशाहैरयजं सदक्षिणै- र्द्विर्द्वादशाहैरश्वमेधैश्च देव ।
गवां धनैः षोडशभिश्च ब्रह्मं- स्तेषां फलेनेह न चागतोऽस्मि ॥
निष्कैककण्ठमददं योजनायतं तद्विस्तीर्णं काञ्चनपादपानाम् ।
वनं चूतानां रत्नविभूषितानां नचैव तेषामागतोऽहं फलेन ॥
तुरायणं हि व्रतमप्यधृष्य- मक्रोधनोऽकरवं त्रिंशदब्दान् ।
शतं गवामष्टशतानि चैव दिनेदिने ह्यददं ब्राह्मणेभ्यः ॥
पयस्विनीनामथ रोहिणीनां तथैवान्याननडुहो लोकनाथ ।
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश नेहागतस्तेन फलेन चाहम् ॥
`शम्याक्षेपेण पृथिवीं त्रिधा पर्यचरं यजन् ।' त्रिंशदग्नीनहं ब्रह्मन्नयजं यच्च नित्यदा ।
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः ॥
दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः ।
न चैव तेषां देवेश फलेनाहमिहागमम् ॥
सरय्वां बाहुदायां च गङ्गायामथ नैमिषे ।
गवां शतानामयुतमददं न च तेन वै ॥
इन्द्रेण गुह्यं निहितं वै गुहायां यद्भार्गवस्तपसेहाभ्यविन्दत् ।
जाज्वल्यमानमुशनस्तेजसेह तत्साधयामासमहं वरेण्य ॥
`ब्राह्मणार्थाय कर्माणि रणं चैव करोमि यत् ।' ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते ।
`पूजितैर्ब्राह्मणैर्नित्यं न च तेनाहमागतः ॥'
सहस्रमृषयश्चासन्ये वै तत्र समागताः ।
उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो ॥
प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो ।
इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा ॥
कामं यथावद्विहितं विधात्रा पृष्टेन वाच्यं तु मया यथावत् ।
तपो हि नान्यच्चानशनान्मतं मे नमोस्तु ते देववर प्रसीद ॥
भीष्म उवाच ।
इत्युक्तवन्तं ब्रह्मि तु राजानं स भगीरथम् ।
पूजयामास पूजार्हं विधिदृष्टेन कर्मणा ॥
तस्मादनशनैर्युक्तो विप्रान्पूज्य नित्यदा ।
विप्राणां वचनात्सर्वं परत्रेहं च सिध्यति ॥
वासोभिरन्नैर्गोभिस्च शुभैर्नैवेशिकैरपि । शुभैः सुरक्षणैश्चापि स्तोष्या एव द्विजास्तथा ।
एतदेव परं गुह्यमलोभेन समाचर ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षष्ट्यधिकशततमोऽध्यायः ॥ 160 ॥

7-160-1 अहिंसितमहिंसा ॥ 7-160-2 तपसः कृच्छ्रचान्द्रायणादेर्बलादन्यत्किं बलवत्तरं विदितं न किमप्यपितु तपसस्तपसां मध्ये यत्परम् ॥ 7-160-3 लोको भोग्यप्रदेशः ॥ 7-160-5 ब्रह्मलोकं च सोगच्छत् इति क.पाठः ॥ 7-160-9 एकरात्रादयः क्रतुविशेषाः ॥ 7-160-10 नारीपुरं कन्यासमूहमदाम् ॥ 7-160-12 चन्द्रो भूषणविशेषः । न तेनाहमागामित्यनुवर्तते ॥ 7-160-13 एकैकशो ब्राह्मणाय दश गाः ॥ 7-160-14 आप्तोर्यामः सोमयागः ॥ 7-160-16 कर्काणां शुक्लाश्वानाम् ॥ 7-160-19 पद्मिनः पद्मचिह्नान् ॥ 7-160-21 दक्षिणारूपा यज्ञाङ्गभूता दक्षिणावयवाः ॥ 7-160-23 निष्ककण्ठानां युद्धे जितानां राज्ञां सहस्रं विप्रेभ्यो विप्रवचनाद्दिक्षिणा अददं उत्सृष्टवान् ॥ 7-160-28 शम्या पृथुबुध्नः काष्ठदण्डः । स बलेनाक्षिप्तो यावद्दूरं पतति तावद्देशो यस्य वेदिकाया भवति स शम्याक्षोपोयागः । देवान् साद्यस्कानामयुतैश्चापि यत्तत् इति झ.पाठः ॥ 7-160-32 आर्कायणैः षोडशभिश्च इति झ.पाठः ॥ 7-160-33 काञ्चनमयानां वृक्षाणां चूतानां नानावर्णरत्नखचितानां वनमित्यर्थः ॥ 7-160-36 अग्नीनग्निचयनानि ॥ 7-160-39 गुहायां निहितं गोपितं गुह्यं यदनशनं तपसा अभ्यविन्दत् आज्ञासीत् । उशनस्तेजसा शुक्रस्य बलेन जाज्वल्यमानम् । तच्च वाक्यशेषात्सर्वबोगत्यागात्मकमनशनं सर्वभोगैर्ब्राह्मणानां सन्तर्पणं च । साधयामासमित्यार्षम् ॥

श्रीः