अध्यायः 161

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रत्यायुष्यानायुष्यकारणशुभाशुभकर्मप्रतिपादनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

शतायुरुक्तः पुरुषः शतवीर्यश्चि वैदिके ।
कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह ॥
आयुष्मान्केन भवति अल्पायुर्वाऽपि मानवः ।
केन वा लभते कीर्तिं केन वा लभते श्रियम् ॥
तपसा ब्रह्मचर्येण जपैर्होमैस्तथा परैः ।
जन्मना यदि वाऽचारात्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्र तेऽहं प्रवक्ष्यामि यन्मां त्वमनुपृच्छसि ।
अल्पायुर्येन भवति दीर्घायुर्येनि मानवः ॥
येन वा लभते कीर्तिं येन वा लभते श्रियम् ।
यथा च वर्तयन्पुरुषः श्रेयसा सम्प्रयुज्यते ॥
आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् ।
आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ॥
दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ।
त्रसन्ति चास्य भूतानि तथा परिभवन्ति च ॥
तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः ।
अपि पापशरीरस्य आचारो हन्त्यलक्षणम् ॥
आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः ।
साधूनां च यथावृत्तमेतदाचारलक्षणम् ॥
अप्यदृष्टं श्रवादेव पुरुषं धर्मचारिणम् ।
स्वानि कर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् ॥
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः ।
अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः ॥
विशीला भिन्नमर्यादा नित्यं सङ्कीर्णमैथुनाः ।
अल्पायुषो भवन्तीह नरा निरयगामिनः ॥
सर्वलक्षणहीनोऽपि समुदाचारवान्नरः ।
श्रद्दधानोऽनसूयुश्च शतं वर्षाणि जीवति ॥
अक्रोधनः सत्यवादी भूतानामविहिंसकः ।
अनसूयुरजिह्मश्च शतं वर्षाणि जीवति ॥
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः ।
नित्योच्छिष्टः सङ्कुसुको नेहायुर्विन्दते महत् ॥
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । उत्थाय चोपतिष्ठेत पूर्वां सन्ध्यां कृताञ्जलिः ।
एवमेवापरां सन्ध्यां समुपासीत वाग्यतः ॥
नेक्षेतादित्यमुद्यन्तं नास्तं यन्तं कदाचन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥
ऋषयो नित्यसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन् ॥
`सदर्भपाणिस्तत्कुर्वन्वाग्यतस्तन्मनाः शुचिः ।' तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः ॥
ये न पूर्वामुपासन्ते द्विजाः संध्यां न पश्चिमाम् ।
सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत् ॥
परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् ।
नहीदृशमनायुष्यं लोके किञ्चन विद्यते ॥
यादृशं पुरुषस्येह परदारोपसेवनम् ।
तादृशं विद्यते किञ्चिदनायुष्यं नृणामिह ॥
यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः ।
तावद्वर्षसहस्राणि नरकं पर्युपासते ॥
मैत्रं प्रसाधनं स्नानमञ्जनं दन्तधावनम् ।
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥
पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन । नातिकल्यं नातिसायं न च मध्यंदिने स्थिते ।
नाज्ञातैः सह गच्छेत नैको न वृषलैः सह ॥
पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च ।
वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥
प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन् ।
चतुष्पदान्मङ्गलांश्च मान्यान्वृद्धान्द्विजानपि ॥
मध्यंदिने निशाकाले अर्धरात्रे च सर्वदा ।
चतुष्पथं न सेवेत उभे सन्ध्ये तथैव च ॥
उपानहौ न वस्त्रं च धृतमन्यैर्न धारयेत् ।
ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत् ॥
अमावास्यां पौर्णमास्यां चतुर्दश्यां च जन्मनि ।
अष्टम्यामथ द्वादश्यां ब्रह्मचारी सदा भवेत् ॥
वृथा मांसं न खादेनि पृष्ठमांसं तथैव च ।
आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् ॥
नारुन्तुदः स्यान्न नृशंसवादी न हीनतो वरमभ्याददीत ।
ययाऽस्य वाचा पर उद्विजेत
न तां वदेद्रुशतीं पापलोक्याम् ॥
अतिवादबाणा मुखतो निःसरन्ति यैराहतः शोचति रात्र्यहानि ।
परस्य वा मर्मसु ये पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥
संरोहत्यग्निना दग्धं वनं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥
कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः ।
वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् ।
रूपद्रविणहीनांश्च सत्यहीनांश्च नाक्षिपेत् ॥
नास्तिक्यं वेदनिन्दां च परनिन्दां च कुत्सनम् ।
द्वेषस्तम्भाभिमानं च तैक्ष्ण्यं च परिवर्जयेत् ॥
परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत् ।
अन्यत्रि पुत्राच्छिष्याच्च शिक्षार्थं ताडनं स्मृतं ॥
न ब्राह्म्णान्परिवदेन्नक्षत्राणि न निर्दिशेत् ।
तिथिं पक्षस्य न ब्रूयात्तथाऽस्यायुर्न रिष्यते ॥
`अमावास्यामृते नित्यं दन्तधावनमाचरेत् । इतिहासपुराणानि दानं वेदं च नित्यशः ।
गायत्रीमननं नित्यं कुर्यात्सन्ध्यां समाहितः ॥'
कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः ।
पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा ॥
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ।
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥
यावकं कृसरं मांसं शष्कुलीं पायसं तथा ।
आत्मार्थंतं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् ॥
नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा ।
दन्तकाष्ठे च सन्ध्यायां मलोत्सर्गे च मौनगः ॥
न चाभ्युदितसायी स्यात्प्रायश्चित्ती तथा भवेत् । मातापितरमुत्थाय पूर्वमेवाभिवादयेत् ।
आचार्यमथवाऽप्यन्तं तथाऽऽयुर्विदन्ते महत् ॥
वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः । भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि विवर्जयेत् ।
उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः ॥
अकृत्वा देवपूजां च नाचरेद्दन्तधावनम् । अकृत्वा देवपूजां च नान्यं गच्छेत्कदाचन ।
अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् ॥
अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः ।
न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन ॥
दारसङ्ग्रहणात्पूर्वं नाचरेन्मैथुनं बुधः ।
अन्यथा त्ववकीर्णः स्यात्प्रायश्चित्तं सदाऽऽचरेत् ॥
नीदीक्षेत्परदारांश्च रहस्येकासनो भवेत् ।
इन्द्रियाणि सदा यच्छेत्स्वग्ने शुद्धमना भवेत् ॥
उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च ।
प्राक्शिरास्तु स्वपेद्विद्वांस्तथा वै दक्षिणाशिराः ॥
न भग्ने नावशीर्णो च शयने प्रस्वपीत च ।
नान्तर्धानेन संयुक्ते न च तिर्यक्कदाचन ॥
न चापि गच्छेत्कार्येण समयाद्वाऽपि नास्तिकैः ।
आसनं तु पदाऽऽकृष्य न प्रसज्जेत्तथा नरः ॥
न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन । स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः ।
न निशायां पुनः स्नायादापद्यग्निद्विजान्तिके ॥
न चानुलिम्पेदस्नात्वा वासश्चापि न निर्धुनेत् ।
आर्द्र एव तु वासांसि नित्यं सेवेत मानवः ॥
स्रजश्च नावकृष्येत न बहिर्धारयीत च ।
उदक्यया च सम्भाषां न कुर्वीत कदाचन ॥
नोत्सृजेत पुरिषं च क्षेत्रे मार्गस्य चान्तिके ।
उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन ॥
देवालयेऽथ गोवृन्दे चैत्ये सस्येषु विश्रमे । भोक्ष्यं भुक्त्वा क्षुतेऽध्वानं गत्वा मूत्रपुरीषयोः ।
द्विराचामेद्यथान्यायं हृद्गतं तु पिबन्नपः ॥
अन्नं बुभुक्षमाणस्तु त्रिमुखेन स्पृशेदपः ।
भुक्त्वा चान्नं तथैव त्रिर्द्विः पुनः परिमार्जयेत् ॥
प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन् ।
प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् ॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
धन्यं पश्चान्मुखो भुङ्क्त ऋतं भुङ्क्त उदङ्मुखः ॥
`अग्रासनो जितक्रोधो बालपूर्वस्त्वलङ्कृतः । घृताहुतिविशुद्धान्नं हुताग्निश्च क्षिपन्ग्रसेत् ॥'
अग्निमालभ्य तोयेन सर्वान्प्राणानुपस्पृशेत् ।
गात्राणि चैव सर्वाणि नाभिं पाणितले तथा ॥
नाधितिष्ठेत्तुषं जातु केशभस्मकपालिकाः ।
अन्यस्य चाप्यवस्नातं दूरतः परिवर्जयेत् ॥
शान्तिहोमांश्च कुर्वीत सावित्राणि च धारयेत् ।
निषष्णश्चापि खादेन न तु गच्छन्कदाचन ॥
मूत्रं नोत्तिष्ठता कार्यं न भस्मनि न गोव्रजे ।
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ॥
आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् । त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन ।
अग्निं गां ब्राह्मणं चैव तता ह्यायुर्न रिष्यते ॥
त्रीणि ज्योतींषि नोच्छिष्ट उदीक्षेत कदाचन ।
सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः ॥
ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आगते ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥
अभिवादयीत वृद्धांश्च दद्याच्चैवासनं स्वयम् ।
कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् ॥
न चासीतासने भिन्ने भिन्नकांस्यं च वर्जयेत् ।
नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति ॥
स्पप्तव्यं नैव नग्नेन न चोच्छिष्टोपि संविशेत् ।
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः ॥
केशग्रहं प्रहारांश्च सिरस्येतान्विवर्जयेत् । न संहाताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।
न चाभीक्ष्णं शिरःस्नायात्तथा स्यायुर्न रिष्यते ॥
शिरःस्नातस्तु तैलैश्च नाङ्गं किञ्चिदपि स्पृशेत् ।
तिलपिष्टं न चाश्नीयाद्गतसर्वरसं तथा ॥
नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन ।
वाते च पूतिगन्धे च मनसाऽपि न चिन्तयेत् ॥
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः ।
आयुरस्य निकृन्तामि प्रज्ञामस्याददे तथा ॥
उच्छिष्टो यः प्राद्रवति स्वाध्यायं चाधिगच्छति ।
यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः ॥
तस्य वेदः प्रणश्येत आयुश्चि परिहीयते ।
तस्माद्युक्तो ह्यनध्याये नाधीयीत कदाचन ॥
प्रत्यादित्यं प्रत्यनलं प्रतिगां च प्रतिद्विजान् ।
ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः ॥
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ।
दक्षिणाभिमुखो रात्रौ तथा हन्युर्न रिष्यते ॥
त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषु ।
ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः ॥
दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा ।
क्षत्रियोपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा ॥
ब्राह्म्णिस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च ।
तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः ॥
गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन ।
अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युदिष्ठिर ॥
सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह ।
गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ॥
दूरादावसथान्मूत्रं दूरात्पादावसेचनम् ।
उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा ॥
रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः ।
वर्जयित्वा तु कमलं तथा कुवलयं प्रभो ॥
रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि ।
काञ्चनीयाऽपि माला या न सा दुष्यति कर्हिचित् ॥
स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशांपते ॥
विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः ।
तथा नान्यधृतं धार्यं न चातिविकृतं तथा ॥
अन्यदेव भवेद्वासः शयनीये नरोत्तम ।
अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि ॥
प्रियङ्गुचन्दनाभ्यां च बिल्वेन स्थगरेण च ।
पृथगेवानुलिम्पेत केसरेण च बुद्धिमान् ॥
उपवासं च कुर्वीत स्नातः शुचिरलङ्कृतः । `नोपवासं वृथा कुर्याद्धनं नापहरेदिह ॥'
पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् ।
समानमेकपात्रे तु भुञ्जेन्नान्नं जनेश्वर ॥
नावलीढमवज्ञातमाघ्रातुं भक्षयेदपि ।
तथा नोद्धृतसाराणि प्रेक्षतामप्रदाय च ॥
नासंनिविष्टो मेधावी नाशुचिर्नि च सत्यु च ।
प्रतिषिद्धान्नं धर्मेषु भक्ष्यान्भुञ्जीत पृष्ठतः ॥
पिप्पलं च वटं चैव शणशाकं तथैव च ।
उदुम्बरं न खादेश्च भवार्थी पुरुषो नृप ॥
आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत् ।
वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत् ॥
न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु ।
दधिसक्तून्न दोषायां पिबेन्मधु च नित्यशः ॥
सायं प्रातश्च भुञ्जीत नान्तराले समाहितः ।
वालेन तु न भुञ्जीत परश्राद्धं तथैव च ॥
वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन ।
भूमौ सदैव नाश्नीयान्नाशौचं न च शब्दवत् ॥
तोयपूर्वं प्रदायान्नमतिथिभ्यो विशाम्पते ।
पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः ॥
समानमेकपङ्क्त्यां तु भोज्यमन्नं नरेश्वर ।
विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने ॥
पानीयं पायसं सक्तून्दधि सर्पिर्मधून्यपि ।
निरस्य शेषमन्येषां न प्रदेयं तु कस्यचित् ॥
भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् ।
दधि चाप्यनु पानं वै न कर्तव्यं भवार्थिना ॥
आचम्य चैव हस्तेनि परिस्राव्य तथोदकम् ।
अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् ॥
पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः ।
ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः ॥
अद्भिः प्राणान्समालभ्य नाभिं पाणितले तथा ।
स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना ॥
अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्तमुदाहृतम् ।
कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते ॥
अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत ।
तेन पित्र्याणि कुर्वीत स्पृष्ट्वाऽऽपो न्यायतः सदा ॥
परापवादं न ब्रूयान्नाप्रियं च कदाचन ।
न मन्युः कश्चिदुत्पाद्यः पुरुषेणि भवार्थिना ॥
एतितैस्तु कथां नेच्छेद्दर्शनं च विवर्जयेत् ।
संसर्गं च न गच्छेत तथाऽऽयुर्विन्दते महत् ॥
न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् ।
न चास्नातां स्त्रियं गच्छेत्तथाऽऽयुर्विन्दते महत् ॥
स्वेस्वे तीर्थे समाचम्य कार्ये समुपकल्पिते ।
त्रिः पीत्वाऽऽपो द्विः प्रमृज्य कृतशौचो भवेन्नरः ॥
इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः ।
कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा ॥
ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव ।
प्रवृत्तं चाहितं चोक्त्वा बहुभोजनवत्तदा ॥
सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् ।
निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् ॥
निष्ठिवने मैथुने च क्षुते अक्ष्याविमेचने । उदक्या दर्शने तद्वन्नग्नस्याचमनं स्मृतम् ।
स्पृशेत्कर्णं सप्रणवं सूर्यमीक्षेत्सदा तदा ॥
वृद्धो ज्ञातिस्तथा मित्रमनाथा च स्वसा गुरुः । कुलीनः पण्डित इति रक्ष्या निःस्वः स्वशक्तितः ।
गृहे वासयितव्यास्ते धन्यमायुष्यमेव च ॥
गृहे पारावता धार्याः शुकाश्च सहशारिकाः ।
`देवताप्रतिमाऽऽदर्शश्चन्दनाः पुष्पवल्लिकाः ॥
शुद्धं जलं सुवर्णं च रजतं गृहमङ्गलम् ।' गृहेष्वेते न पापाय यथा वै तैलपायिकाः ॥
उद्दीपकाश्च गृध्रास्च कपोता भ्रमरास्तथा ।
निविशेयुर्यदा तत्र शान्तिमेव तदाऽऽचरेत् ॥
अमङ्गल्यः सतां शापस्तथाऽऽक्रोशो महात्मनाम् । महात्मनोतिगुह्यानि न वक्तव्यानि कर्हिचित् ।
अगम्याश्च न गच्छेत राज्ञः पत्नीं सखीस्तथा । वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर
बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च ।
सम्बन्धिनां च राजेन्द्र तथाऽऽयुर्विन्दते महत् ॥
ब्राह्मणस्तपतिभ्यां च निर्मितं यन्निवेशनम् ।
तदा वसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर ॥
सन्ध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत् ।
न भुञ्जीत च मेधावी तथाऽऽयुर्विन्दते महत् ॥
नक्तं न कुर्यात्पित्र्याणि नक्तं चैव प्रसाधनम् ।
पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता ॥
वर्जनीयाश्चैव नित्यं सक्तवो निशि भारत ।
शेषाणि चावदातानि पानीयं चापि भोजने ॥
सौहित्यं न च कर्तव्यं रात्रौ न च समाचरेत् । `न भुक्त्वा मैथुनं गच्छेन्न धावेन्नातिहासकम् ।'
द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् ॥
महाकुले प्रसूतां च प्रशस्तां लक्षणैस्तथा ।
वयसाऽवरां सुनक्षत्रां कन्यामावोढुमर्हति ॥
अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा ।
पुत्राः प्रदेया जातेषु कुलधर्मेषु भारत ॥
कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते ।
पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत ॥
शिरःस्नातोथ कुर्वीत दैवं पित्र्यमथापि च ॥
`तैलं जन्मदिनेऽष्टम्यां चतुर्दश्यां च पर्वसु ।' नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः ।
न प्रोष्ठपदयोः कार्यं तथाऽऽग्नेये च भारत ॥
दारुणेषु च सर्वेषु प्रत्यरिं च विवर्जयेत् ।
ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् ॥
प्राङ्मुखः श्मश्रुकर्माणि कारयेत्सुसमाहितः ।
उदङ्मुखो वा राजेन्द्र तथाऽऽयुर्विन्दते महत् ॥
`सामुद्रेणाम्यसा स्नानं क्षौरं श्राद्धेषु भोजनम् ।
अन्तर्वत्नीपतिः कुर्वन्न पुत्रफलमश्नुते ॥
सतां गुरूणां वृद्धानां कुलस्त्रीणां विशेषतः ।' परिवादं न च ब्रूयात्परेषामात्मनस्तथा ।
परिवादो ह्यधर्माय प्रोच्यते भरतर्षभ ॥
वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम ।
समार्षां व्यङ्गिकां श्चैव मातुः सकुलजां तथा ॥
वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् । तथा निकृष्टवर्णा च वर्णोत्कृष्टां च वर्जयेत् ।
अयोनिं च वियोनिं च न गच्छेत विचक्षणः ।
पिङ्गलां कुष्ठिनीं नारीं न त्वमुद्वोढुमर्हसि ॥
अपस्मारिकुले जातां निहीनां चापि वर्जयेत् ।
श्वित्रिणां च कुले जातां क्षयिणां मनुजेश्वर ॥
`सुरोमशामतिस्थूलां कन्यां मातृपितृस्थिताम् । अलज्जां भ्रातृजां तुष्टां वर्जयेद्रक्तकेशिनीम् ॥'
लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः ।
मनोज्ञां दर्शनीयां च तां भवान्वोढुमर्हति ॥
महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर ।
अवरा पतिता चैव न ग्राह्या भूतिमिच्छता ॥
अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः ।
वेदे च ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् ॥
न चेर्ष्या स्त्रीषु कर्तव्या रक्ष्या दाराश्च सर्वशः ।
अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत् ॥
अनायुष्यं दिवा स्वप्नं तथाऽभ्युदितशायिता ।
प्रातर्निशायां च तथा ये चोच्छिष्टा भवन्ति च ॥
पारदार्यमनायुष्यं नापितोच्छिष्टता तथा ।
यत्नतो वै न कर्तव्यमत्याशश्चैव भारत ॥
सन्ध्यां न भुञ्ज्यान्न स्नायेन्न पुरीषं समुत्सृजेत् ।
प्रयतश्च भवेत्तस्यां न च किञ्चित्समाचरेत् ॥
ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप ।
देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत् ॥
अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत दर्शकः ।
अनर्चिते ह्यनायुष्यं गमनं तत्र भारत ॥
न चैकेन परिव्रज्यं न गन्तव्यं तथा निशि ।
`नानापदि परस्यान्नमनिमन्त्रितमाहरेत् ॥
एकोद्दिष्टं न भुञ्जीत प्रथमं तु विशेषतः ।
सपिण्डीकरणं वर्ज्यं सविधानं च मासिकम् ॥
अनागतायां सन्ध्यायां पश्चिमायां गृहे वसेत् ॥
मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् ।
हितं चाप्यहितं चापि न विचार्यं नरर्षभ ॥
`क्षत्रियस्तु विशेषेण धनुर्वेदं समभ्यसेत् ।' धनुर्वेदे च वेदे च यत्नः कार्यो नाराधिप ॥
हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह ।
यत्नवान्भव राजेन्द्र यत्नवान्सुवमेधते ॥
अप्रधृष्यश्च शत्रूमां भृत्यानां स्वजनस्य च ।
प्रजापालनयुक्तश्च नारतिं लभते क्वचित् ॥
युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत ।
गान्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप ॥
पुराणमितिहासाश्च तथाऽऽख्यानानि यानि च ।
महात्मनां च चरितं श्रोतव्यं नित्यमेव ते ॥
`मान्यानां माननं कुर्यान्निन्द्यानां निन्दनं तथा ।
गोब्राह्मणार्थे युध्येत प्राणानपि परित्यजेत् ॥
न स्त्रीषु सज्जेद्द्रष्टव्यं शक्त्या दानरुचिर्भवेत् । न ब्राह्मणान्परिभवेत्कार्पण्यं ब्राह्मणैर्वृतम् ।
पतितान्नाभिभाषेत नाह्वयेत रजस्वलाम् ॥'
पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत् ।
स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः ॥
पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत् । `आषोडशादृतुर्मुख्यः पुत्रजन्मनि शब्दितः'
एतेन विधिना पत्नीमुपगच्छेत पण्डितः ।
ज्ञातिसम्बन्धिमित्राणि पूजनीयानि सर्वशः ॥
यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः ।
अत ऊर्ध्वमरण्यं च सेवितव्यं नराधिप ॥
एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः ।
शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर ॥
आचारो भूतिजनन आचारः कीर्तिवर्धनः ।
आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते ।
आचारप्रभवो धर्मो धर्मादायुर्विवर्धते ॥
एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ।
अनुकम्प्य सर्ववर्णान्ब्रह्मणा समुदाहृतम् ॥
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
स शुभान्प्राप्नुयाल्लोकान्सदाचारपरो नृप ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥ 161 ॥

7-161-3 जपैर्होमैस्तथौषधैरिति झ.पाठः ॥ 7-161-5 वर्तयन् अनुतिष्ठन् ॥ 7-161-8 अलक्षणं कुष्ठापस्मारादिविरुद्धं लक्षणम् ॥ 7-161-10 श्रवात् श्रवणात् । तं पुरुषम् । जनाः साधवः ॥ 7-161-15 सङ्कुसुको दुर्जनः अस्थिरश्च । नित्योच्छिष्टः सूचकश्चेति क.थ.पाठः ॥ 7-161-17 उपसृष्टं राहुग्रस्तम् ॥ 7-161-29 उपानहौ च छत्रं च इति थ.पाठः ॥ 7-161-39 न रिष्यते न हिंस्यते ॥ 7-161-48 त्रीणि भोज्यानि । अदृष्टं शूद्रोदक्यादिभिः ॥ 7-161-52 अज्ञातामृतुमतीत्वेन कामुकत्वेन वा ॥ 7-161-52 अन्तर्धाने अत्यन्तमन्धकारे । संयुक्ते इतरेण स्त्र्यादिना ॥ 7-161-52 स्नात्वा वासो न निर्धुनेत् इति । न चैवार्द्राणि वासांसि इति च.झ.पाठः ॥ 7-161-60 प्रस्कन्दयेदन्नशेषं किञ्चित्त्यजेत् । भुक्त्वा च मनसाग्निमुपस्पृशेत् ॥ 7-161-61 ऋतं निःश्रेयसमिच्छन्निति शेषः ॥ 7-161-63 प्राणान्नासादीन् ऊर्ध्वच्छिद्राणि ॥ 7-161-64 अवस्नातं स्नानजलं । अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत् इति क.थ.ध.पाठः ॥ 7-161-65 सावित्राणि मन्त्रविशेषान् । शान्तिहोमांश्च कुर्वीत पवित्राणि च कारयेत् इति क.थ.ध.पाठः ॥ 7-161-73 नरिष्यते हिंस्यते ॥ 7-161-74 शिरोभ्यक्तेन तैलेनेति क.थ.ध.पाठः ॥ 7-161-75 न चिन्तयेत् वेदम् ॥ 7-161-76 प्रजास्तस्याददे तथा इति झ.पाठः ॥ 7-161-85 मिथ्याप्रवृत्तेपि सम्यग्वर्तितव्यम् ॥ 7-161-90 विपर्ययमौत्तराधर्यम् । अपदशं दशाहीनम् । न चापदशमेव चेति झ.पाठः ॥ 7-161-93 उपवासं ब्रह्मचर्यम् ॥ 7-161-96 धर्मेषु श्राद्धादिषु ॥ 7-161-100 वालेन केशेन उपलक्षितम् । परश्राद्धं शत्रुश्राद्धम् ॥ 7-161-104 निरस्य पानीयादीन्विहाय । अन्येषां भक्षाणां शेषमन्यस्मै न देयम् ॥ 7-161-105 अधिकं तोयपानं तु न कर्तव्यं इति ङ.पाठः । शङ्कां जीर्यति न वेति । दधीति तक्रं त्वनुपानं कर्तव्यमेव । यथेष्टं भुंक्ष्व माभैषीस्तक्रं सलवणं पिबेति तस्य दृष्टार्थत्वोक्तेः ॥ 7-161-108 प्राणान्नासादीन् ॥ 7-161-113 नच वर्धकीम् इति ड.थ.ध.पाठः । नच नर्तकीम् इति क.पाठः ॥ 7-161-121 एते तैलपायिकादिवन्न पापाय । अभ्युदयायेत्यर्थः । पारावतादयः सर्वे पक्षिविशेषा एव ॥ 7-161-125 शारणिकस्य रक्षणार्थिनः । तथा नागरिकस्य चेति ध.पाठः ॥ 7-161-128 प्रसाधनं केशानां संस्कारादिकम् । पानीयस्य क्रिया स्नानं न नक्तं स्रायादिति गृहे रात्रौ शिरःस्नाननिषेधः ॥ 7-161-132 पुत्राः प्रदेया ज्ञानेष्विति झ.पाठः । ज्ञानेषु बहुज्ञाननिमित्तं पुत्रा देया विद्वत्सु समर्पणीयाः ॥ 7-161-133 कुलात्सत्कुलसम्बन्धेन । निवेश्या विवाह्याः । लभ्या लम्भनीयाः ॥ 7-161-135 तैलाभ्यञ्जनमष्टम्यामिति ङ.थ.पाठः । आग्नेये कृत्तिकायाम् ॥ 7-161-136 स्वनक्षत्राद्दिननक्षत्रं यावद्गणयित्वा नवभिर्भागे हृते पञ्चमी तारा प्रत्यरिः ॥ 7-161-140 व्यङ्गिनीं न्यूनाङ्गीम् । व्यङ्गिकां विरुद्धाङ्गेनाधिकेन युक्ताम् । समार्षा समानप्रवराम् ॥ 7-161-142 अयोनि अज्ञातकुलाम् । वियोनिं हीनकुलाम् ॥ 7-161-150 नापितोच्छिष्टता श्मश्रुकर्मोत्तरमस्नातता ॥ 7-161-153 दर्शको द्रष्टा ॥ 7-161-154 परिव्रज्यं देशान्तरे गन्तव्यम् ॥ 7-161-157 मातुः पितुश्च पुत्राणां कार्यमिति थ.पाठः ॥ 7-161-169 आयुष्याणामा**ष्कराणां कर्मणाम् । उद्देशः संक्षेपः ॥

श्रीः