अध्यायः 165

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति तत्वसृष्टिप्रतिपादकरुद्रसनत्कुमारसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

पितामहेन कथिता दानधर्माश्रिताः कथाः ।
मया श्रुता ऋषीणां तु संनिधौ केशवस्य च ॥
पुनः कौतूहलमभूत्तामेवाध्यात्मिकीं प्रति ।
कथाः कथय राजेन्द्र त्वदन्यः क उदाहरेत् ॥
एष यादवदायादस्तथानुज्ञातुमर्हति ।
ज्ञाते तु यस्मिञ्ज्ञातव्यं ज्ञातं भवति भारत ॥
पश्चाच्छ्रोष्यामहे राज्ञां श्राव्यान्धर्मान्पितामह ।
कौतूहलमृषीणां तु च्छेतुमर्हसि साम्प्रतम् ॥
भीष्म उवाच ।
अत ऊर्ध्वं महाराज साङ्ख्ययोगोभयशास्त्राधि- गतयाथात्म्यदर्शनसम्पन्नयोराचार्ययोः संवादमनुव्याख्यास्यामः ॥
तद्यथा भगवन्तं सनत्कुमारमासीनमङ्गुष्ठपर्व- मात्रं महति विमानवरे योजनसहस्रमण्डले तरुण-
भास्करप्रतीकाशे शयनीये महति बद्धासनमनु- ध्यायन्तममृतमनावर्तकरममूर्तमक्षयजमथोपदि- ष्टमुपससर्प भगवन्तमाचार्यं भगवानाचार्यो रुद्रः ॥
तं प्रोवाच स्वागतं महेश्वर ब्रह्मसुत एतदास- नमास्तां भगवान् ॥
इत्युक्ते चासीनो भगवाननन्तरूपो रुद्रस्तं प्रोवाच भगवानपि ध्यानमावर्तयति । इत्युक्ते चाह
भगवान्सनत्कुमारस्तथेति ॥
तथेत्युक्तश्च प्रोवाच भगवाञ्शङ्करस्तदा ।
परावरज्ञं सर्वस्य त्रैलोक्यस्य महामुनिम् ॥
किं वा ध्यानेन द्रष्टव्यं यद्भवाननुपश्यति ।
यच्च ध्यात्वा न शोचन्ति यतयस्तत्वदर्शिनः ॥
कथय त्वमिमं देवं देहिनां यतिसत्तम ।
यच्च तत्पुरुषं शुद्धमित्युक्तं योगसाङ्ख्ययोः ॥
किमध्यात्माधिभूतं च तथा चाप्यधिदैवतम् ।
कालसङ्ख्या च का देव द्रष्टव्या तस्य ब्रह्मणः ॥
सङ्ख्या सङ्ख्यादनस्यैव या प्रोक्ता परमर्षिभिः ।
शास्त्रदृष्टेन मार्गेण यथावद्यतिसत्तम ॥
यच्च तत्पुरुषं शुद्धं प्रबुद्धमजरं ध्रुवम् ।
बुध्यमानाप्रबुद्धाभ्यां विद्यावेद्यं तथैव च ॥
विमोक्षं त्रिविधं चैव ब्रूहि मोक्षविदांवर ।
परिसाङ्ख्यं च साङ्ख्यानां ध्यानं योगेषु चार्थवत् ॥
एकत्वदर्शनं चैव तथा नानात्वदर्शनम् ।
अरिष्टानि च तत्वेन तथैवोत्क्रमणानि च ॥
दैवतानि च सर्वाणि निखिलेनानुपूर्वशः । यान्याश्रितानि देहेषु देहिनां यतिसत्तम ।
सर्वमेतद्यथातत्वमाख्याहि मुनिसत्तम ॥
श्रेष्ठो भवान्हि सर्वेषां ब्रह्मज्ञानामनिन्दितः । चतुर्थस्त्वं त्रयाणां तु ये गताःइ परमां गतिम् ।
ज्ञानेन च प्राकृतेन निर्मुक्तो मृत्युबन्धनात् ॥
वयं तु वैकृतं मार्गमाश्रिता वै क्षरं सदा ।
परमुत्सृज्य पन्थानममृताक्षरमेव तु ॥
न्यूने पथि निमग्नास्तु ऐश्वर्येऽष्टगुणे तथा ।
महिमानं प्रगृह्येमं विचरामो यथासुखम् ॥
न चैतत्सुखमत्यन्तं न्यूनमेतदनन्तरम् ।
मूर्तिमत्परमेतत्स्यादिदमेवं सुसत्तम ॥
पुनः पुनश्च पतनं मूर्तिमत्युपदिश्यते ।
न पुनर्मृत्युमित्यन्यं निर्मुक्तानां तु मूर्तितः ॥
मृत्युदोषास्त्वनन्ता वै उत्पद्यन्ते कृतात्मनाम् ।
मर्त्येषु नाकपृष्ठेषु निरयेषु महामुने ॥
तत्र मञ्जन्ति पुरुषाः सुखदुःखेन वेष्टिताः ॥
सुखदुःखव्यपेतं च यदाहुरमृतं पदम् ।
तदहं श्रोतुमिच्छामि यथावच्छ्रुतिदर्शनात् ॥
सनत्कुमार उवाच ।
यदुक्तं भवता वाक्यं तत्वसंज्ञेति देहिनाम् ।
चतुर्विंशतिमेवात्र केचिदाहुर्मनीषिणः ॥
केचिदाहुस्त्रयोविंशं यथाश्रुतिनिदर्शनात् । वयं तु पञ्चविंशं वै तदधिष्ठानसंज्ञितम् ।
तत्वं समधिमन्यामः सर्वतन्त्रप्रलापनात् ॥
अव्ययश्चैव वै व्यक्तावुभावपि पिनाकधृक् ।
सह चैव विना चैव तावन्योन्यं प्रतिष्ठितौ ॥
हिरण्मयीं प्रविश्यैष मूर्तिं मूर्तिमतांवर ।
चकार पुरुषस्तात विकारपुरुषावुभौ ॥
अव्यक्तादेक एवैष महानात्मा प्रसूयते ।
अहङ्कारेण लोकांश्च व्याप्य चाहंकृतेन वै ॥
पिना सर्वं तदव्यक्तादभफिमन्यस्व शूलधृक् ।
भूतसर्गमहङ्कारात्तृतीयं विद्धि वै क्रमात् ॥
अहङ्काराच्च भूतेषु चतुर्थं विद्दि वैकृतम् ।
अहङ्काराच्च जातानि युगपद्विबुधेश्वर ॥
सविशेषाणि भूतानि पञ्च प्राहुर्मनीषिणः ।
चतुर्विंशात्तु वै प्रोक्तात्पञ्चविंशोऽधितिष्ठति ॥
एते सर्गा मया प्रोक्ताश्चत्वारः प्राकृतास्त्विह ।
अहङ्काराच्च जातानि युगपद्विबुधेश्वर ॥
अङ्काराच्च भूतेषु विविधार्थं व्यजायत ।
इन्द्रियैर्युगपत्सर्वैः सो नित्यश्च समीक्षते ॥
मरुत्त्वं सत्वसर्गश्च तुष्टिः सिद्धिस्तथैव च ।
वैकृतानि प्रवक्ष्यामि शृणु तानि महामते ॥
एषा तत्वचतुर्विंशन्मया शास्त्रानुमानतः ।
वर्णिता तव देवेश पञ्चविंशत्समन्विता ॥
पञ्चमोऽनुग्रहश्चैव नवैते प्राकृतैः सह ।
ऐन्द्रेप्यहमधोप्यन्यन्ममात्मनि च भास्वरः ॥
यच्च देहमयं किञ्चित्त्रिषु लोकेषु विद्यते ।
सर्वत्रैवाभिमन्तव्यं त्वया त्रिपुरसूदन ॥
अन्यथा येऽनुपश्यन्ति ते न पश्यन्ति ब्रह्मज ।
एतदव्यक्तविषयं पञ्चविंशसमन्वितम् ॥
अनेन कारणेनैव तत्वमाहुर्मनीषिणः ।
विकारमात्रमेतं तु तत्वमाचक्षते परम् ॥
निस्तत्वश्चैष देवेश बोद्धव्यं तु न बुद्ध्यते । यदि बुद्ध्येत्परं बुद्धं बुद्ध्यमानः सुरर्षभः ।
प्रबुद्धो ह्यभिमन्येत योयं नाहमिति प्रभो ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥

7-165-1x एतदादिपञ्चाध्याया दाक्षिणात्यकोशेष्वेव दृश्यन्ते ॥ 7-165-13 यथावद्वद सत्तमेति ङ.पाठः ॥ 7-165-36 मम त्वं सत्त्वसर्गश्चेति ध.पाठः ॥

श्रीः