अध्यायः 166

अथ दानधर्मपर्व ॥ 1 ॥

रुद्रंप्रति सनत्कुमारेण तत्वलयक्रमाध्यात्मादिप्रतिपादनम् ॥ 1 ॥

`सनत्कुमार उवाच ।

तत्वसङ्ख्या श्रुता चैषा येषां ब्रह्मविदांवर । सर्गसङ्ख्या मया प्रोक्ता नवानामानुपूर्व्यशः ।
प्रवक्ष्यामि तु तेऽध्यात्ममधिभूताधिदैवतम् ॥
नैतद्युक्तैर्वेदविद्भिर्गृहस्थै- र्मान्यैरेभिस्तपसा वाभिपन्नैः ।
यत्नेन दृष्टं परमात्मतत्वं तत्वेन प्राप्यं तु यथोक्तमेतत् । परं परेभ्यस्त्वमृतार्थतत्वं स्वभावसत्वस्थमनीशमीशम् ॥
कैवल्यतां प्राप्य महासुरोत्तम तवैतदाख्यामि मुनीन्द्रवृत्त्या ।
रहस्यमेवान्यदवाप्य दिव्यं पवित्रपूतस्तव मृत्युजालम् ॥
पृथ्वीमिमां यद्यपि रत्नपूर्णां दद्यान्न देयं त्वपरीक्षिताय ।
नाश्रद्दधानाय न चान्यबुद्धे- र्नाज्ञानयुक्ताय न विस्मिताय ॥
स्वाध्याययुक्ताय गुणान्विताय प्रदेयमेतन्नियतेन्द्रियाय ॥
संक्षेपं चाप्यथैतेषां तत्वानां वृषभध्वज ।
अनुलोमानुजातानां प्रतिलोमप्रमीयतम् ॥
प्रवक्ष्यामि तमध्यात्मं साधिभूताधिदैवतम् ।
यथांशुजालमर्कस्य तथैतत्प्रवदन्ति वै ॥
संक्षीणे ब्रह्मदिवसे जगज्जलधिमाविशेत् ।
प्रलीयते जले भूमिर्जलमग्नौ प्रलीयते ॥
लीयतेऽग्निस्तथा वायौ वायुराकाश एव तु ।
मनसि प्रलीयते खं तु मनोऽहंकार एव च ॥
अहङ्कारस्तथा तस्मिन्महति प्रविलीयते ।
महानव्यक्त इत्याहुस्तदेकत्वं प्रचक्षते ॥
अव्यक्तस्य महादेव प्रलयं विद्धि ब्रह्म्णि ।
एवमस्यासकृत्क्रीडामाहुस्तत्वविदो जनाः ॥
अध्यात्ममधिभूतं च तथैवाप्यधिदैवतम् ।
यथावदुदितं शास्त्रं योगे तु सुमहात्मभिः ॥
तथैव चेह साङ्ख्ये तु परिसंख्यात्मचिन्तकैः ।
प्रपञ्चितार्थमेतावन्महादेव महात्मभिः ॥
ब्रह्मेति विद्यादध्यात्मं पुरुषं चाधिदैवतम् ।
प्रभवं सर्वभूतानां रक्षणं तत्र कर्म च ॥
अध्यात्मं प्राणमित्याहुः क्रतुमप्यधिदैवतम् ।
रथं च यज्ञवाहोऽत्र कर्माहङ्कारमेव च ॥
अध्यात्मं तु मनो विद्याच्चन्द्रमाश्चाधिदैवतम् ।
दैवं च प्रभवश्चैव कर्म व्याहृतयस्तथा ॥
विद्यात्तु श्रोत्रमध्यात्ममाकाशमधिदैवतम् ।
सर्वभावाभिधानार्थं शब्दः कर्म सदा स्मृतं ॥
त्वगध्यात्ममथो विद्याद्वायुरत्राधिदैवतम् ।
सन्निपातय विज्ञानं सर्वकर्म च तत्र ह ॥
अध्यात्मं चक्षुरित्याहुर्भास्करोऽत्राधिदैवतम् ।
ज्ञापतं सर्ववर्णानां रूपं कर्म सदा स्मृतम् ॥
जिह्वेति विद्यादध्यात्ममापश्चात्राधिदैवतम् ॥
पायुरध्यात्ममित्याहुर्यथावद्यतिसत्तमाः ।
विसर्गमधिभूतं च मित्रं चाप्यधिदैवतम् ॥
उपस्थोऽध्यात्ममित्याहुर्देवदेव पिनाकधृक् ।
अनुभावोऽधिभूतं तु दैवतं च प्रजापतिः ॥
पादावध्यात्ममित्याहुस्त्रिशूलाङ्क मनीषिणः ।
गन्तव्यमधिभूतं तु विष्णुस्तत्राधिदैवतम् ॥
वागध्यात्मं तथैवाहुः पिनाकिंस्तत्वदर्शिनः ।
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥
एतदध्यात्ममतुलं साधिभूताधिदैवतम् ।
मया तु वर्णितं सम्यग्देहिनाममरर्षभ ॥
एतत्कीटपतङ्गे च श्वपाके शुनि हस्तिनि ।
पुत्रिकादंशमशके ब्राह्मणे गवि पार्थिवे ॥
सर्वमेव हि द्रष्टव्यमन्यथा मा विचिन्तय ।
अतोऽन्यथा ये पश्यन्ति न सम्यक्तेषु दर्शनम् ॥
देवदानवगन्धर्वयक्षराक्षसकिन्नराः ।
यन्न जानन्ति को ह्येष कुतो वा भगवानिति ॥
ओमित्येकाक्षरं ब्रह्म यत्तत्सदसतः परम् ।
अनादिमध्यपर्यन्तं कूटस्थमचलं ध्रुवम् ॥
योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ।
अनादिनिधं देवं देवदेवं सनातनम् ॥
अपमेयमविज्ञेयं हरिं नारायणं प्रभुम् ।
कृताञ्जलिः शुचिर्भूत्वा प्रणम्य प्रयतोऽर्चयेत् ॥
अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः ।
एकोयं वेद भगवांस्त्राता नारायणो हरिः ॥
नारायणादृषिगणास्ततः सिद्धा महोरगाः ।
देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम् ॥
यमाहुर्विजितक्लेशं यस्मिंश्च विहिताः प्रजाः ।
यस्मिँल्लोकाः स्फुरन्तीमे जाले शकुनयो यथा ॥
सप्तर्षयो मनः सप्त साङ्ख्यास्तु मुनिदर्शनात् ।
सप्तर्षयश्चेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि च ॥
श्रोत्रयोश्च दिशः प्राहुर्मनसि त्वथ चन्द्रमाः ॥
मनः षष्ठं बुद्धिः सप्तमी ह्यात्मनि स्थापितानि शरीरेषु नात्मनि तस्य हि कारणानि भन्ति सर्वा-
ण्यपि सर्वकर्मसु वा विषयेषुवा युञ्जन्ति यथात्म- नि स्वानि कर्माणि प्रवृत्तानि सप्तस्वपि ॥
विषयाणां व्यापकत्वानि तान्येव स्वपतो भूत- ग्रामस्याजमात्मानं देवलोकस्थानसंमितं देहान्तर-
गामिनं मुमुक्षुं वानुप्रतिशन्ति सूक्ष्माणि प्रलीयन्ते ॥
मोक्षकाले तमेकं न कश्चिद्वेत्ति स्वपरम् ।
एवं प्रविष्टेषु भूतेषु को जागर्तीत्युच्यते ॥
निद्राप्रसुप्तेषु वाऽत्र जाग्रत्स्वप्नशीलोत्रसदनौ च देवद्योतनो भगवांश्चात्र क्षत्रेज्ञो बुद्धिर्वाऽभिसुप्त-
स्यापि स्वप्नदर्शनानि पश्यन्ति ॥
अप्रतिबुद्धेषु लोकेषु स एव प्रतिबुध्यते । स एष प्राज्ञः । अथ तैजसः कायाग्निः स हि सुप्तस्यात्मा वा ॥
अविदुषो वाऽप्रतिबुध्यमानस्यान्नं पचतीत्यन्ते वै तिष्ठति एतदात्मानमधिकृत्यानुज्ञातमिति ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥

7-166-2 गृहस्यैर्मान्येज्याभिरिति ट.थ.पाठः ॥

श्रीः