अध्यायः 170

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति तीर्थशौचनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच ।

यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह ।
यत्र चैव परं शौचं तन्मे व्याख्यातुमर्हसि ॥
भीष्म उवाच ।
सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणः ।
यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः ॥
अगाधे विमले शुद्धे सत्यतीर्थे धृतिह्रदे ।
स्नातव्यं मानसे तीर्थे सत्वमालम्ब्य शाश्वतम् ॥
तीर्थशौचं तपो ज्ञानं मार्दवं सत्यमार्जवम् ।
अहिंसा सर्वभूतानामानृशंस्यं दमः शमः ॥
निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ।
योगिनस्तीर्थभूतास्ते तीर्थं परममुच्यते ॥
नारायणेऽथ रुद्रे वा भक्तिस्तीर्थं परं मतम् ।
शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षतः ॥
रजस्तमःसत्वमथो येषां निर्धूतमात्मना । तीर्थमाचारशुद्धिश्च स्वमार्गपरिमार्गणम् ।
सर्वत्यागेष्वभिरताः सर्वज्ञाः समदर्शिनः ।
शौचष्वेतेष्वभिरतास्ते तीर्थशुचयोऽपि च ॥
नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते ।
स स्नातो यो दमस्नातः स बाह्याभ्यन्तरः शुचिः ॥
अदृष्टेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः ।
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ॥
प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः ।
तथा निष्किंचनत्वं च मनसश्च प्रसन्नता ॥
वृत्तं शौचं महाशौचं तीर्थशौचमतः परम् ।
ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं स्मृतम् ॥
मनसा च प्रदीप्तेन ब्रह्मज्ञानजलेन च ।
स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शनाः ॥
समारोपितशौचस्तु नित्यं भवसमन्वितः ।
केवलं गुणसम्पन्नः शुचिरेव नरः सदा ॥
शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत ।
पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि ॥
शरीरस्य यथोद्देशः शरीरोपरि निर्मिताः ।
तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च ॥
कीर्तनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् । शोध्यं हि पातकं तीर्थे पूता यान्ति सुखं दिवम् ।
परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा ।
अतीव पुण्यभागास्ते सलिलस्य च तेजसा ॥
मनसश्च पृथिव्याश्च पुण्यास्तीर्थास्तथापरे ।
उभयोरेव यः स्नायात्स सिद्धिं शीघ्रमाप्नुयात् ॥
यथा फलं क्रियाहीनं क्रिया वा फलवर्जिता ।
नेह साधयते कार्यं समायुक्ता तु सिध्यति ॥
एवं शरीरशौचेन तीर्थशौचेन चान्वितः ।
शुचिः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥ 170 ॥

7-170-7 तत्त्ववित्त्वनहंबुद्धिस्तीर्थप्रवरमुच्यते इति झ.पाठः ॥

श्रीः