अध्यायः 173

अथ दानधर्मपर्व ॥ 1 ॥

बृहस्पतिना युधिष्ठिरंप्रति देहिनां जननादिप्रकारनिरूपणम् ॥ 1 ॥ तथा प्राणिनां दुष्कर्मविशेषफलतया तिर्यग्योनिविशेषेषु जननकथनम् ॥ 2 ॥

युधिष्ठिर उवाच ।

पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम् ॥
केन वृत्तेन राजेन्द्र वर्तमाना नरा भुवि ।
प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप ॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति ॥ भीष्म उवाच ।
दूरादायाति भगवान्बृहस्पतिरुदारधीः ।
पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम् ॥
नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै । वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् ॥ वैशम्पायन उवाच ।
तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा ।
आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः ॥
ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः ।
पूजामनुषमां चक्रे सर्वे ते च सभासदः ॥
ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम् ।
उपगम्य यथान्यायं प्रश्नं पप्रच्छ तत्त्वतः ॥
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः । ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । गच्छन्त्यमुं च लोकं वै क एताननुगच्छति ॥ बृहस्पतिरुवाच ।
एकः प्रसूयते राजन्नेक एव विनश्यति ।
एकस्तरति दुर्गाणि गच्छत्येकस्तु दुर्गतिम् ॥
न सहायः पिता माता तथा भ्राता सुतो गुरुः ।
ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।
मुहूर्तमुपयुञ्ज्याथ ततो यान्ति पराङ्मुखाः ॥
तैस्तच्छरीरमुत्सृष्टं धर्मि एकोऽनुगच्छति ।
तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृपः ॥
प्राणी धर्मसमायुक्तो गच्छेत्स्वर्गगतिं पराम् ।
तथैवाधर्मसंयुक्तो नरकं चोपपद्यते ॥
तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः ।
धर्म एको मनुष्याणां सहायः पारलौकिकः ॥
लोभान्मोहादनुक्रोशाद्भयाद्वाऽप्यबहुश्रुतः ।
नरः करोत्यकार्याणि परार्थे लोभमोहितः ॥
धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् । एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥ युधिष्ठिर उवाच ।
श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् ।
शरीरनिश्चयं ज्ञातुं बुद्धिस्तु मम जायते ॥
मृतं शरीरं हि नृणां सूक्ष्ममव्यक्ततां गतम् । अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ॥ बृहस्पतिरुवाच ।
पृथिवी वायुराकाशमापो ज्योतिरनन्तरम् ।
बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥
प्राणिनामिह सर्वेषां साक्षिभूतं दिवानिशम् ।
एतैश्च सह धर्मोऽपि तं जीवमनुगच्छति ॥
त्वगस्थि मांसं शुक्रं च शोणितं च महामते ।
शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ॥
ततो धर्मसमायुक्तः स जीवः सुखमेधते । इह लोके परे चैव किं भूयः कथयामि ते ॥ युधिष्ठिर उवाच ।
तद्दर्शितं भगवता यथा धर्मोऽनुगच्छति । एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते ॥ बृहस्पतिरुवाच ।
अन्नमश्नन्ति यद्देवाः शरीरस्था नरेश्वर ।
पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥
ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु ।
मनःषष्ठेषु शुद्धात्मन्रेतः सम्पद्यते महत् ॥
ततो गर्भः सम्भवति श्लेषात्स्त्रीपुंसयोर्नृप । एतत्ते सर्वमाख्यातं भूयः किं श्रोतुमिच्छसि ॥ युधिष्ठिर उवाच ।
आख्यातं मे भगवता गर्भः सञ्जायते यथा । यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् ॥ बृहस्पतिरुवाच ।
आसन्नमात्रः पुरुषस्तैर्भूतैरभिभूयते । विप्रयुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम् ।
स च भूतसमायुक्तः प्राप्नुते जीव एव हि ॥
ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् । देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि ॥ युधिष्ठिर उवाच ।
त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः । जीवः सह वसन्कृत्स्नं सुखदुःखसहः प्रभो ॥ बृहस्पतिरुवाच ।
`भोगवश्यं कर्मवश्यं यातनावश्यमित्यपि । एतत्त्रयाणामासाद्य कर्मतः सोऽश्नुते फलम् ॥'
जीवः कर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः ।
स्त्रीणां पुष्पं समासाद्य सूतिकाले लभेत तत् ॥
यमस्य पुरुषैः क्लेसं यमस्य पुरुषैर्वधम् ।
दुःखं संसारचक्रं च नरः क्लेशं स विन्दति ॥
इह लोके स च प्राणी जन्मप्रभृति पार्थिव ।
सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥
यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते ।
ततः स पुरुषो भूत्वा सेवते नियतं सुखम् ॥
अथान्तरा तु धर्मस्याप्यधर्ममुपसेवते ।
सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ॥
अधर्मेण समायुक्तो यमस्य विषयं गतः ।
महद्दुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥
कर्मणा येन येनेह यस्यां योनौ प्रजायते ।
जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु ॥
यदेतदुच्यते शास्त्रे सेतिहासे च च्छन्दसि ।
यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते ॥
इह स्थानानि पुण्यानि देवतुल्यानि भूपते ।
तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः ॥
यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः ।
कर्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते ॥
येनयेन तु भावेन कर्मणा पुरुषो गतिम् ।
प्रयाति परुषां घोरां तत्ते वक्ष्याम्यतः परम् ॥
अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः ।
पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते ॥
खरो जीवति वर्षाणि दश पञ्च च भारत ।
खरो मृतो बलीवर्दः सप्तवर्षाणि जीवति ॥
बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः ।
ब्रह्मरक्षश्च मासांस्त्रींस्ततो जायेत ब्राह्मणः ॥
पतितं याजयित्वा तु कृमियोनौ प्रजायते ।
तत्र जीवति वर्षाणि दश पञ्च च भारत ॥
कृमिभावाद्विमुक्तस्तु ततो जायेत गर्दभः ।
गर्दभः पञ्चवर्षाणि पञ्चवर्षाणि सूकरः ॥
कुक्कुटः पञ्चवर्षाणि पञ्चवर्षाणि जम्बुकः ।
श्वा वर्षमेकं भवति ततो जायेत मानवः ॥
उपाध्यायस्त्रियः पापं शिष्यः कुर्यादबुद्धिमान् ।
स जीव इह संसारांस्त्रीनाप्नोति न संशयः ॥
वृको भवति राजेन्द्र ततः क्रव्यात्ततः खरः ।
ततः प्रेतः परिक्लिष्टः पश्चाज्जायेत ब्राह्मणः ॥
मनसाऽपि गुरोर्भार्यां यः शिष्यो याति पापकृत् ।
स उग्रान्प्रैति संसारानधर्मेणेह चेतसा ॥
श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति ।
तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते ॥
कृमिभावमनुप्राप्तो वर्षमेकं तु जीवति ।
ततस्तु निधनं प्राप्तो ब्रह्मयोनौ प्रजायते ॥
यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे ।
आत्मनः कामकारेण सोपि हिंस्रः प्रजायते ॥
पितरं मातरं चैव यस्तु पुत्रोऽवमन्यते ।
सोऽपि राजन्मृतो जन्तुः पूर्वं जायेत गर्दभः ॥
गर्दभत्वं तु सम्प्राप्य दशवर्षाणि जीवति ।
संवत्सरं तु कुम्भीरस्ततो जायेत मानवः ॥
पुत्रस्य मातापितरौ यस्य रुष्टावुभावपि ।
गुर्वपध्यानतः सोपि मृतो जायति गर्दभः ॥
खरो जीवति मासांस्तु दश श्वा च चतुर्दशः ।
बिडालः सप्तमासांस्तु ततो जायेत मानवः ॥
मातापितरावाक्रुश्य शारिका सम्प्रजायते ।
ताडयित्वा तु तावेव जायते कच्छपो नृप ॥
कच्छपो दशवर्षाणि त्रीणि वर्षाणि शल्यकः ।
व्यालो भूत्वा च षण्मासांस्ततो जायति मानुषः ॥
भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते ।
सोपि मोहसमापन्नो मृतो जायति वानरः ॥
वानरो दशवर्षाणि पञ्चवर्षाणि सूकरः ।
श्वाऽथ भूत्वा तु षण्मासांस्ततो जायति मानुषः ॥
न्यासापहर्ता तु नरो यमस्य विषयं गतः ।
यातनानां शतं गत्वा कृमियोनौ प्रजायते ॥
तत्र जीवति वर्षाणि दशपञ्च च भारत ।
दुष्कृतस्य क्षयं कृत्वा ततो जायति मानुषः ॥
असूयकः कुत्सितश्च चण्डालो दुःखमश्नुते ।
विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः ॥
भूत्वा मीनोऽष्टमासांस्तु मृगो जायति भारत ।
मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥
छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः ।
गौः स सञ्जायते जन्तुस्ततो जायति मानुषः ॥
धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान् ।
कलायानथ मुद्गांश्च गोधूमानतसीस्तथा ॥
यस्तु धान्यापहर्ता च मोहाज्जन्तुरचेतनः ।
स जायते महाराज मूषिको निरपत्रपः ॥
ततः प्रेत्य महाराज मृतो जायति सूकरः ।
सूकरो जातमात्रस्तु रोगेणि म्रियते नृप ॥
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव ।
भूत्वा श्वा पञ्चवर्षाणि ततो जायति मानवः ॥
परदाराभिमर्शं तु कृत्वा जायति वै वृकः ।
श्वा शृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥
भ्रातुर्भार्यां तु पापात्मा यो धर्मयति मोहितः ।
पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप ॥
सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च ।
प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः ॥
सूकरः पञ्चवर्षाणि दशवर्षाणि श्वाविधः ।
बिडालः पञ्चवर्षाणि दशवर्षाणि कुक्कुटः ॥
पिपीलिका तु मासांस्त्रीन्वानरो मासमेव तु ।
एतानासाद्य संसारान्कृमियोनौ प्रजायते ॥
तत्र जीवति मासांस्तु कृमियोनौ चतुर्दश ।
ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानवः ॥
उपस्थिते विवाहे तु यज्ञे दानेऽपि वा विभो ।
मोहात्करोति यो विघ्नं स मृतो जायते कृमिः ॥
कृमिर्जीवति वर्षाणि दश पञ्च च भारत ।
अधर्मिस्य क्षयं कृत्वा ततो जायति मानवः ॥
पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुमिच्छति ।
सोपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते ॥
तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर ।
अधर्मसंक्षये युक्तस्ततो जायति मानवः ॥
देवकार्यमकृत्वा तु पितृकार्यमथापि वा ।
अनिर्वाप्य समश्नन्वै मृतो जायति वायसः ॥
वायसः शतवर्षाणि ततो जायति कुक्कुटः ।
जायते व्यालकश्चापि मासं तस्मात्तु मानुषः ॥
ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते ।
सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते ॥
क्रौञ्चो जीवति वर्षं तु ततो जायति चीरकः ।
ततो निधनमापन्नो मानुषत्वमुपाश्नुते ॥
वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ।
[ततः सम्प्राप्य निधनं जायते सूकरः पुनः ॥
सूकरो जातमात्रस्तु रोगेण म्रियते नृप ।
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव ॥
श्वा भूत्वा कृतकर्माऽसौ जायते मानुषस्ततः ।
तत्रापत्यं समुत्पाद्य मृतो जायति मूषिकः ॥
कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः ।
यमस्य पुरुषैः क्रुद्धैर्वधं प्राप्नोति दारणम् ॥
दण़्डं समुद्गरं शूलमग्निकुम्भं च दारुणम् ।
असिपत्रवनं घोरवालुकं कूटशाल्मलीम् ॥
एताश्चान्याश्च बह्वीश्च यमस्य विषयं गतः ।
यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत ॥
ततो हतः कृतघ्नः स तत्रोग्रैर्भरतर्षभ ।
संसारचक्रमासाद्य कृमियोनौ प्रजायते ॥
कृमिर्भवति वर्षाणि दशपञ्च च भारत ।
ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः ॥
ततो गर्भशतैर्जन्तुर्बहुभि सम्प्रपद्यते ।
संसारांश्च बहून्गत्वा ततस्मिर्यक्षु जायते ॥
ततो दुःखमनुप्राप्य बहुवर्षगणानिह ।
स पुनर्भवसंयुक्तस्ततः कूर्मः प्रजायते ॥
दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् ।
चोरयित्वा तु दुर्बुद्धिर्मधुदंशः प्रजायते ॥
फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः ।
चोरयित्वा च निष्पावं जायते हलगोलकः ॥
पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते ।
हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते ॥
अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः ।
कांस्यं हृत्वा तु दुर्बद्धिर्हारितो जायते नरः ॥
राजतं भाजनं हृत्वा कपोतः सम्प्रजायते ।
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥
पत्रोर्णं चोरयित्वा तु कृकलत्वं निगच्छति ।
कौशिकं तु ततो हृत्वा नरो जायति वर्तकः ॥
अंशुकं चोरयित्वा तु शुक्रो जायति मानवः ।
चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते ॥
क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः । चोरयित्वा नरः पट्टं त्वाविकं चैव भारत । क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते ॥
वर्णान्हृत्वा तु पुरुषो मृतो जायति बर्हिणः ।
हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः ॥
वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः ।
छुन्दुन्दरित्वमाप्नोति राजँल्लोभपरायणः ॥
तत्र जीवति वर्षाणि ततो दश च पञ्च च । अधर्मस्य क्षयं गत्वा ततो जायति मानुषः ॥ 109a चोरयित्वा पयश्चापि बलाका सम्प्रजायते ॥ 110a यस्तु चोरयते तैलं नरो मोहसमन्वितः । 110b सोपि राजन्मृतो जन्तुस्तैलपायी प्रजायते ॥ 111a अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः । 111b अर्थार्थी यदि वा वैरी स मृतो जायते स्वरः ॥ 112a खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते । 112b स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते ॥ 113a मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः । 113b हतो मृगस्ततो मीनः सोपि जालेन बध्यते ॥ 114a मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते । 114b श्वापदो दशवर्षाणि द्वीपी वर्षाणि पञ्च च ॥ 115a ततस्तु निधनं प्राप्तः कालपर्यायचोदितः । 115b अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ॥ 116a स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः । 116b बहून्क्लेशान्समासाद्य नरकानेकविंशतिम् ॥ 117a ततः पश्चान्महाराज कृमियोनौ प्रजायते । 117b कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः ॥ 118a भोजनं चोरयित्वा तु मक्षिका जायते नरः । 118b मक्षिकासङ्घवशगो बहून्मासान्भवत्युत ॥ 119a ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते । 119b `भक्ष्यं हृत्वा तु पुरुषो जालपाशः प्रजायते ॥ 120a स्वाद्यं हृत्वा तु पुरुषश्चीरपाशः प्रजायते ।' 120b धान्यं हृत्वा तु पुरुषो लोमशः सम्प्रजायते ॥ 121a तथा पिण्याकसम्मिश्रमशनं चोरयेन्नरः । 121b स जायते भृतिधनो दारुणो मूषिको नरः ॥ 122a दशन्वै मानुषान्नित्यं पापात्मा स विशाम्पते । 122b घृतं हृत्वा तु दुर्बुद्धिः काकमद्गुः प्रजायते ॥ 123a मत्स्यमांसमथो हृत्वा काको जायति दुर्मतिः । 123b लवणं चोरयित्वा तु चिरिकाकः प्रजायते । 124a विश्वासेन तु निक्षिप्तं यो विनिह्नोति मानवः । 124b स गतायुर्नरस्तात मत्स्ययोनौ प्रजायते ॥ 125a मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः । 125b मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते ॥ 126a पापानि तु नराः कृत्वा तिर्यग्जायन्ति भारत । 126b न चात्मनः प्रयाणान्ते धर्मं जानन्ति कञ्चन ॥ 127a ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा । 127b सुखदुःखसमायुक्ता व्यथितास्ते भवन्त्युत ॥ 128a अपुमांसः प्रजायन्ते म्लेच्छाश्चापि न संशयः । 128b नराः पापसमाचारा लोभमोहसमन्विताः ॥ 129a वर्जयन्ति च पापानि जन्मप्रभृति ये नराः । 129b अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत ॥ 130a स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः । 130b एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ 131a परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः । 131b एतद्धि लेशमात्रेण कथितं ते मयाऽनघ ॥ 132a अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत । 132b एतन्मया महाराज ब्रह्मणो गदतः पुरा ॥ 133a सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम् । 133b मयाऽपि तच्च कार्त्स्न्येन यथावदनुवर्णितम् । 133c एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः ॥ 173 ॥

7-173-13 मुहूर्तमिव रोदित्वेति झ.पाठः ॥ 7-173-32 जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते इति झ.पाठः ॥ 7-173-51 उपाध्यायस्य यः पापं इति झ.पाठः ॥ 7-173-52 प्राक् श्वा भवति इति झ.पाठः ॥ 7-173-58 कुम्भीरो नक्रः ॥ 7-173-64 पञ्चवर्षाणि मूषिकः इति झ.पाठः ॥ 7-173-65 संसाराणां शतं इति झ.पाठः ॥ 7-173-99 निष्पावं राजमाषम् । हलगोलकः दीर्घपुच्छो गोलरूपी कीटविशेषः ॥ 7-173-100 कुम्भोलूक उलूकजातिभेदः ॥ 7-173-101 हारितः पक्षिविशेषः ॥ 7-173-103 पत्रोर्मं धौतकौशेयम् ॥ 7-173-106 वर्णान् हरितालादीन् ॥ 7-173-122 काकमद्गुः शृङ्गवान् जलपक्षी ॥ 7-173-128 असंवासाः प्रजायन्ते इति झ.पाठः ॥

श्रीः