अध्यायः 013

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति क्रमेण क्रोधस्यातिथेश्च निन्दाप्रशंसनपरवेदचतुष्टयसंवादानुवादः ॥ 1 ॥

भीष्म उवाच ।

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
चतुर्णामपि वेदानां संवादं शृणु पुत्रक ॥
ऋग्वेद उवाच ।
गृहानाश्रयमाणस्य अग्निहोत्रं च जुह्वतः ।
सर्वं सुकृतमादत्ते यः साये नुद्यतेऽतिथिः ॥
न स्कन्दते न व्यथते नास्योर्ध्वं सर्पते रजः ।
वरिष्ठमग्निहोत्राच्च ब्राह्मणस्य मुखे हुतम् ॥
सामवेद उवाच ।
न चेद्धन्ति पितरं मातरं वा न ब्राह्मणं नापवादं करोति ।
यत्किंचिदन्यद्वृजिनं करोति । प्रीतोऽतिथिस्तदुपहन्ति पापम् ॥
अथर्ववेद उवाच ।
यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यति यज्जुहोति ।
वैवस्वतो हरते सर्वमस्य मोघं चेष्टं भवति क्रोधनस्य ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥

श्रीः