अध्यायः 177

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति मांसभक्षणाभक्षणयोः क्रमेण निन्दाप्रशंसने ॥ 1 ॥

युधिष्ठिर उवाच ।

अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया ।
श्राद्धेषु च भवानाह पितॄणां मांसमीप्सितम् ॥
मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा ।
अहत्वा च कुतो मांसमेवमेतद्विरुध्यते ॥
जातो नः संशयो धर्मे मांसस्य परिवर्जने ।
दोषो भक्षयत कः स्यात्कश्चाभक्षयतो गुणः ॥
हत्वा भक्षयतो वाऽपि परेणोपहृतस्य वा ।
हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः ॥
एतदिच्छामि तत्त्वेन कथ्यमानं त्वयाऽनघ ।
निश्चयेन चिकीर्षामि धर्ममेतं सनातनम् ॥
कथमायुरवाप्नोति कथं भवति सत्ववान् ।
कथमव्यङ्गतामेति लक्षण्यो जायते कथम् ॥
भीष्म उवाच ।
मांसस्याभक्षणाद्राजन्यो धर्मः कुरुनन्दन ।
तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः ॥
रूपमव्यङ्गतामायुर्बुद्धिं सत्वं बलं स्मृतिम् ।
प्राप्तुकामैर्नरैर्हिंसा वर्जनीया कृतात्मभिः ॥
ऋषीणामत्र संवादो बहुशः कुरुनन्दन ।
बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर ॥
यो यजेताश्वमेधेन मासिमासि यतव्रतः ।
वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर ॥
सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः ।
मांसस्याभक्षणं राजन्प्रशंसन्ति मनीषिणः ॥
न भक्षयति यो मांसं न च हन्यान्न घातयेत् ।
तन्मित्रं सर्वभूतानां मनुः स्वायंभुवोऽब्रवीत् ॥
अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु ।
साधूनां सम्मतो नित्यं भवेन्मांसं विवर्जयन् ॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
अविश्वास्योऽवसीदेत्स इति होवाच नारदः ॥
ददाति यजते चापि तपस्वी च भवत्यपि ।
मधुमांसनिवृत्त्येति प्राह चैवं बृहस्पतिः ॥
मासिमास्यश्वमेधेन यो यजेत शतं समाः ।
न खादति च यो मांसं सममेतन्मतं मम ॥
सदा यजति सत्रेण सदा दानं प्रयच्छति ।
सदा तपस्वी भवति मद्यमांसविवर्जनात् ॥
सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च भारत ।
यो भक्षयित्वा मांसानि पश्चादपि निवर्तते ॥
`भक्षयित्वा निमित्तेऽपि दुष्करं कुरुते तपः ।' दुष्करं च रसज्ञेन मांसस्य परिवर्जनम् ।
चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम् ॥
सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम् । दाता भवति लोके स प्राणानां नात्र संशयः ।
एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः ॥
प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि वै तथा ।
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिः कृतात्मभिः ॥
विकीर्णकर्णकेनापि तृणमस्पन्दने भयम् । किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम् ।
अरोगाणामपापानां पापैर्मांसोपजीविभिः ॥
मृत्युतो भयमस्तीति शङ्कायां दुःखमुत्तरम् ।
धर्मस्यायतनं तस्मान्मांसस्य परिवर्जनम् ॥
अहिंसा परमो धर्मस्तथाऽहिंसा परं तपः ।
अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते ॥
न हि मांसं तृणात्काष्ठादुपलाद्वाऽपि जायते ।
हत्वा जन्तुं ततो मांसं तस्माद्दोषस्तु भक्षणे ॥
स्वाहास्वाधामृतभुजो देवाः सत्यार्जवप्रियाः ।
राक्षसेन्द्रभयान्मुक्ताः सर्वभूतपरायणाः ॥
कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च ।
रात्रावहनि सन्ध्यासु चत्वरेषु सभासु च ॥
उद्यतेषु च शस्त्रेषु मृगव्यालहतेषु च ।
अमांसभक्षणाद्राजन्न भयं तेषु विद्यते ॥
शरण्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु ।
अनुद्वेगकरो लोके न चाप्युद्विजते सदा ॥
यदि चेत्स्वादको न स्यान्न तदा घातको भवेत् ।
घातकः खादकार्थाय तद्धातयति वै नरः ॥
अभक्ष्यमेतदिति वै इति हिंसा निवर्तते ।
खादकक्रमतो हिंसा मृगादीनां प्रवर्तते ॥
यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते ।
तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः ॥
त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः ।
उद्वेजकास्तु भूतानां यथा व्यालमृगास्तथा ॥
लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च ।
संसर्गादथ पापानामधर्मो रुचितो नृणाम् ॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
उद्विग्नराष्ट्रे वसति यत्र यत्राभिजायते ॥
धन्यं यशस्यामायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ।
मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः ॥
इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया ।
मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे ॥
यो हि खादति सांसानि प्राणिनां जीवितैषिणाम् ।
सदा भवति वै पापः प्राणिहन्ता तथैव सः ॥
धनेन क्रयिको हन्ति खादकश्चोपभोगतः ।
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥
अखादन्ननुमोदंश्च भावदोषेण मानवः ।
योऽनुमोदति हन्यन्तं सोऽपि दोषेण लिप्यते ॥
अधृष्यः सर्वभूतानामायुष्मान्निरुजः सदा ।
भवत्यभक्षयन्मासं दयावान्प्राणिनामिह ॥
हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः ।
मांसस्याभक्षणे धर्मो विशिष्ट इति नः श्रुतिः ॥
अप्रोक्षितं वृथामासं विधिहीनं न भक्षयेत् ।
भक्षयन्निरयं याति नरो नास्त्यत्र संशयः ॥
प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्म्णकाम्यया ।
अल्पदोषमिति ज्ञेयं विपरिते तु लिप्यते ॥
खादकस्य कृते जन्तून्यो हन्यात्पुरुषाधमः ।
महादोषकरस्तत्र घातको न तु खादकः ॥
इज्यायज्ञश्रुतिकृतैर्या मार्गैरबुधोऽधमः ।
हन्याज्जन्तून्मांसगृध्नुः स वै नरकभाङ्नरः ॥
भक्षयित्वाऽपि यो मांसं पश्चादपि निवर्तते ।
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते ॥
आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी ।
संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते ॥
इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् ।
पुराणमुषिभिर्जुष्टं वेदेषु परिनिश्चितम् ॥
प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते ।
यथोक्तं राजशार्दूल न तु तन्मोक्षकारणम् ॥
हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि । वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च ।
प्रवृत्तिधर्मिणा भक्ष्यं नान्यथा मनुरब्रवीत् ॥
अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ ।
विधिहीनं नरः पूर्वं मांसं राजन्न भक्षयेत् ॥
य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम् ।
स वर्जयेत मांसानि प्राणिनामिह सर्वशः ॥
श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः ।
येनायजन्त विद्वांसः पुण्यलोकपरायणाः ॥
ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा ।
अभक्ष्यमपि मांसं यः प्राह भक्ष्यमिति प्रभो ॥
आकाशादवनिं प्राप्तस्ततः स पृथिवीपतिः ।
यस्तदेव पुनश्चोक्त्वा विवेश धरणीतलम् ॥
प्रजानां हितकामेन त्वगस्त्येन महात्मना ।
आरण्याः सर्वदैवत्याः प्रोक्षितास्तापसैर्मृगाः ॥
क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः ।
प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः ॥
इदं तु शृणु राजेन्द्र मांसस्याभक्षणे गुणाः । [अभक्षणे सर्वसुखं मांसस्य मनुजाधिप ॥]
यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् ।
यश्चैव वर्जयेन्मांसं सममेतन्मतं मम ॥
कौमुद्यास्तु विशेषेण शुक्लपक्षे नराधिप ।
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते ॥
[चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् ।
चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम् ॥
अथवा मासमेकं वै सर्वमांसान्यभक्षयन् ।
अतीत्य सर्वदुःखानि सुखं जीवेन्निरामयः ॥
वर्जयन्ति हि मांसानि मासशः पक्षशोपि वा । तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते ॥]
मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः ।
सर्वभूतात्मभूतस्थैर्विदितार्थपरावरैः ॥
नाभागेनाम्बरीषेण गयेन च महात्मना ।
आयुषाऽथानरण्येन दिलीपरघुसूनुभिः ॥
कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना ।
नृगेण विष्वगश्वेन तथैव शशबिन्दुना ॥
युवनाश्वेन च तथा शिबिनौशीनरेण च ।
मुचुकुन्देन मान्धात्रा हरिश्चन्द्रेण वा विभो ॥
सत्यं वदत माऽसत्यं सत्यं धर्मः सनातनः ।
हरिश्चन्द्रश्चरति वै दिवि सत्येन चन्द्रवत् ॥
श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च ।
रैवते रन्तिदेवेन वसुना सृञ्जयेन च ॥
एतैश्चान्यैश्च राजेन्द्र कृपेण भरतेन च । दुष्यन्तेन करूशेन रामालर्कनलैस्तथा ।
विचकाश्वेन निमिना जनकेन च धीमता ॥
ऐलेन पृथुना चैंव वीरसेनेन चैव ह ।
इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च ॥
अजेन धुन्धुना चैव तथैव च सुबाहुना ।
हर्यश्वेन च राजेन्द्र क्षुपेण भरतेन च ॥
एतैश्चान्यैश्च राजेन्द्रि पुरा मांसं न भक्षितम् ।
शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् ॥
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियाऽन्विताः ।
उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः ॥
तदेतदुत्तमं धर्ममहिंसाधर्मलक्षणम् ।
ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते ॥
मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः ।
जन्मप्रभृति मद्यं च सर्व ते मुनयः स्मृताः ॥
इमं धर्मममांसादं यश्चरेनच्छ्रावयीत वा ।
अपि चेत्सुदुराचारो न जातु निरयं व्रजेत् ॥
पठेद्वा च इदं राजञ्शृणुयाद्वाऽप्यभीक्ष्णशः ।
अमांसभक्षणविधिं पवित्रमृषिपूजितम् ॥
विमुक्तः सर्वपापेभ्यः सर्वकामैर्महीयते । विशिष्टतां ज्ञातिषु च लभते नात्र संशयः ।
`अहिंस्रो दानशीलश्च मधुमांसविवर्जितः ॥'
आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् ।
मुच्येत्तथाऽऽतुरो रोगाद्दुःखान्मुच्येत दुःखितः ॥
तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः ।
ऋद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः ॥
एतत्ते कथितं राजन्मांसस्य परिवर्जने ।
प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥

7-177-18 नहि कृत्स्नो वेदस्तथा तद्बोधिता यज्ञाश्च पुरुषं हिंसायां पवर्तयन्ति । किन्तु परिसंख्याविधया निवृत्तिमेव बोधयन्तीत्यर्थः ॥ 7-177-33 व्यालमृगाः मांसादपशवः ॥ 7-177-40 हन्यन्तं हन्यमानम् ॥ 7-177-46 इज्या देवपूजा यज्ञोऽश्वमेधादिस्तदर्थं श्रुतिकृतैर्मार्गैरुपायैरबुधो यज्ञोपनिषदमजानन्मांसगृध्नुः । केवलं यज्ञव्याजेन मांसं भोक्तुकामः ॥ 7-177-50 प्रवत्तिलक्षणो धर्मः प्रजार्थिभिरुदाहृतः । यथोक्तं राजशार्दूल नतु तन्मोक्षकाङ्क्षिणाम् । इति झ. पाठः ॥ 7-177-57 आरण्याः प्रोक्षिता इति पर्यग्निकृतानारण्यानुत्सृजन्तीति श्रुतेरारण्यैर्यज्ञं कृत्वापि तेषां वधो न कृत इत्यर्थः ॥

श्रीः