अध्यायः 183
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरंप्रति
दानादिप्रशंसापरव्यासमैत्रेयसंवादानुवादः ॥ 1 ॥
भीष्म उवाच ।
एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूर्वकः ।
अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः ॥
असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् ।
अनुज्ञातश्च भवता किञ्चिद्ब्रूयामहं विभो ॥
व्यास उवाच ।
यद्यदिच्छसि मैत्रेय यावद्यावद्यथायथा ।
ब्रूहि तत्वं महाप्राज्ञ शुश्रुषे वचनं तव ॥
मैत्रेय उवाच ।
निर्दोषं निर्मलं चैव वचनं सत्यसंहितम् ।
विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः ॥
भवतो भावितात्मत्वाल्लाभोऽयं सुमहान्मम ।
भूयो बुद्ध्याऽनुपश्यामि सुसमृद्धतपा इव ॥
अपि मे दर्शनादेव भवतोऽभ्युदयो महान् ।
मन्ये भवत्प्रसादोऽयं बुद्धिकर्मस्वभावतः ॥
तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम् ।
त्रिभिर्गुणैः समुदितः स्नातो भवति वै द्विजः ॥
अस्मिंस्तृप्ते च तृप्यन्ति पितरो दैवतानि च ।
न हि श्रुतवतां किञ्चिदधिकं ब्राह्मणादृते ॥
`असंस्कारात्क्षत्रवैश्यौ नश्येते ब्राह्मणादृते ।
शूद्रो नश्यत्यशुश्रूषुराश्रमाणां यथार्हतः ॥'
[अन्धं स्यात्तम एवेदं न प्रज्ञायेत किञ्चन ।
चातुर्वर्ण्यं न वर्तेत धर्माधर्मावृतानृते ॥]
यथाहि सुकृते क्षेत्रे फलं विन्दति मानवः ।
एवं दत्त्वा श्रुतवते फलं दाता समश्नुते ॥
ब्राह्मणश्चेन्न विन्देत श्रुतवृत्तोपसंहितः ।
प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम् ॥
अन्नं ह्यविद्वान्हन्त्येवमविद्वांसं च हन्ति तत् ।
तच्चान्यं हन्ति यच्चान्यत्स भुक्त्वा हन्यतेऽबुधः ॥
प्राहुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः ।
स चान्नाज्जायते तस्मात्सूक्ष्म एष व्यतिक्रमः ॥
`ब्राह्मं ह्यनुपयोगी यो ददंश्चान्नमसंशयम् ।
यस्तारयति वै विद्वान्पितॄन्देवान्सदाऽमृतान्'
यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः ।
न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः ॥
यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः ।
तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते ॥
ये योनिशुद्धाः सततं तपस्यभिरता भृशम् ।
दानाध्ययनसम्पन्नास्ते वै पूज्यतमाः सदा ॥
तैर्हि सद्भिः कृतः पन्था देवयानो न मुह्यते ।
ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्र्यशीत्यधिकशततमोऽध्यायः ॥ 183 ॥
7-183-7 श्रुतं शास्त्रज्ञानम् । 7-183-8 ब्राह्मणादृते
इदमन्धन्तम एव स्याद्यतो वर्णधर्मादिकं तेन विना न प्रज्ञायेतेति सम्बन्धः ॥ 7-183-14 ईश्वरत्वाच्च क्षेत्रभूतः सन् पुनर्जनयति दात्रे अनेकगुणितं
प्रयच्छतीत्यर्थः । सच दातुरन्नाज्जायते प्रजारूपेण । गृहस्थश्चेत्तत्र यस्यान्नं
तस्य सन्ततिरिति सूक्ष्मो व्यतिक्रमोऽस्ति । तेन गृहस्थः परपाकं नाश्नीयादिति
गम्यते ॥ 7-183-15 प्रतिग्रहीत्रभावे अन्नस्य वृद्धिर्न स्यात् । वद्ध्यभावे
दातुर्दाने प्रवृत्तिर्न स्यादिति दातृप्रतिग्रहीतारौ चक्रवल्लोकतन्त्रं वहत
इत्यर्थः ॥
श्रीः