अध्यायः 194

अथ दानधर्मपर्व ॥ 1 ॥

प्रमथैर्ऋषिगणान्प्रति प्रजानां स्वहिंसातदभावकारणाभिधानम् ॥ 1 ॥

भीष्म उवाच ।

ततः सर्वे महाभागा देवाश्च पितरश्च ह ।
ऋषयश्च महाभागाः प्रमथान्वाक्यमब्रुवन् ॥
भवन्तो वै महाभागा अपरोक्षनिशाचराः ।
उच्छिष्टानशुचीन्क्षुद्रान्कथं हिसथ मानवान् ॥
के च स्मृताः प्रतीघाता येन मर्त्यान्न हिंसथ । रक्षोघ्नानि च कानि स्युर्यैर्गृहेषु प्रणश्यथ ।
श्रोतुमिच्छाम युष्माकं सर्वमेतन्निशाचराः ॥
प्रमथा ऊचुः ।
मैथुनेन सदोच्छिष्टाः कृते चैवाधरोत्तरे ।
मोहान्मांसानि खादेत वृक्षमूले च यः स्वपेत् ॥
आमिषं शीर्षतो यस्य पादतो यश्च संविशेत् ।
तत उच्छिष्टकाः सर्वे बहुच्छिद्राश्च मानवाः ॥
उदके चाप्यमेध्यानि श्लेष्माणं च प्रमुञ्चति ।
एते भक्ष्याश्च वध्याश्च मानुषा नात्र संशयः ॥
एवं शीलसमाचारान्धर्षयामो हि मानवान् । श्रूयतां च प्रतीघातान्यैर्न शक्नुम हिंसितुम् ।
गोरोचनासमालम्भो वचाहस्तश्च यो भवेत् ।
घृताक्षतं च यो दद्यान्मस्तके तत्परायणः ॥
ये च मांसं न खादन्ति तान्न शक्नुम हिंसितुम् ।
यस्य चाग्निर्गृहे नित्यं दिवारात्रौ च दीप्यते ॥
तरक्षोश्चर्मदंष्ट्राश्च तथैव गिरिकच्छपः ।
आज्यधूमो बिडालश्च च्छागः कृष्णोऽत पिङ्गलः ॥
येषामेतानि तिष्ठन्ति गृहेषु गृहमेधिनाम् ।
तान्यधृष्याण्यगाराणि पिशिताशैः सुदारुणैः ॥
लोकानस्मद्विधा ये च विचरन्ति यथासुखम् । तस्मादेतानि गेहेषु रक्षोघ्नानि विशाम्पते ।
एतद्वः कथितं सर्वं यत्र वः संशयो महान् ॥] ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्नवत्यधिकशततमोऽध्यायः ॥ 194 ॥

7-194-4 अधरोत्तरे अधर उत्तरः श्रेष्ठो यत्र श्रेष्ठस्यावमाने कृते सति ॥ 7-194-5 आमिषं मांसं शिरसि दधानः । पादतः शय्यायां पादस्थाने शिरः कृत्वा यः संविशेत् ॥ 7-194-10 तरक्षोर्व्याघ्रस्य । गिरिकच्छपःक पर्वतदरीशायी स्थलकूर्मः ॥

श्रीः