अध्यायः 015
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरंप्रति भगवन्महिमप्रतिपादकव्यासवासुदेवसंवादानुवादः ॥ 1 ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मद्रराजस्य संवादं व्यासस्य च महात्मनः ॥
वैताने कर्मणि तते कुन्तीपुत्र यथा पुरा ।
उक्तः स भगवान्यज्ञे तथा तत्राशृणोद्भवान् ॥
मद्रराज उवाच ।
कानि तीर्थानि भगवन्फलार्थाश्चेह केऽऽश्रमाः ।
क इज्यते कश्च यज्ञः को यूपः क्रमते च कः ॥
कश्चाध्वरे शस्यते गीतिशब्दैः
कश्चाध्वरे गीयते वल्गुभाषैः ।
को ब्रह्मशब्दैः स्तुतिभिः स्तूयते च
कस्येह वै हविरध्वर्यवः कल्पयन्ति ॥
वर्णाश्रमे गोफले कश्च सोमे
कश्चोंकारः कश्च वेदार्थमार्गः ।
पृष्टस्तन्मे ब्रूहि सर्वं महर्षे
लोकज्येष्ठं कस्य विज्ञानमाहुः ॥
द्वैपायन उवाच ।
लोकज्येष्ठं यस्य विज्ञानमाहु
र्योनिज्येष्ठं यस्य वदन्ति जन्म ।
पूतात्मानो ब्राह्मणा वेदमुख्या
अस्मिन्प्रश्नो दीयतां केशवाय ॥
ब्राह्मण उवाच ।
बालो जात्या क्षत्रधर्मार्थशीलो
जातो देवक्यां शूरपुत्रेण वीर ।
वेत्तुं वेदानर्हते क्षत्रियो वै
दाशार्हाणामुत्तमः पुष्कराक्षः ॥
वासुदेव उवाच ।
पाराशर्य ब्रूहि यद्ब्राह्मणेभ्यः
प्रीतात्मा वै ब्रह्मकल्पः सुमेधाः ।
पृष्टो यज्ञार्थं पाण्डवस्यातितेजा
एतच्छ्रेयस्तस्य लोकस्य चैव ॥
व्यास उवाच ।
उक्तं वाक्यं यद्भवान्मामवोच-
त्प्रश्नं चित्रं नाहमत्रोत्सहेऽद्य ।
छेत्तुं विस्पष्टं तिष्ठति त्वद्विधे वै
लोकज्येष्ठे विश्वरूपे सुनाभे ॥
वासुदेव उवाच ।
तत्त्वं वाक्यं ब्रूहि यत्त्वं महर्षे
यस्मिन्कृष्णः प्रोच्यते वै यथावत् ।
प्रीतस्तेऽहं ज्ञानशक्त्या यथाव-
त्तस्मान्निर्देशे कर्मणां ब्रूहि सिद्धिम् ॥
वैशम्पायन उवाच ।
उक्तवाक्ये सत्तमे यादवानां
कृष्णो व्यासः प्राञ्जलिर्वासुदेवम् ।
विप्रैः सार्धं पूजयन्देवदेवं
कृष्णं विष्णुं वासुदेवं बभाषे ॥
व्यास उवाच ।
आनन्त्यं ते विश्वकर्मंस्तवैवं
रूपं पौराणं शाश्वतं च ध्रुवं च ।
कस्ते बुद्ध्येद्वेदवादेषु चैत-
ल्लोके ह्यस्मिञ्शासकस्त्वं पितेव ॥
श्रीः