अध्यायः 195

अथ दानधर्मपर्व ॥ 1 ॥

रेणुकनामकेन करेणुना देवादीन्प्रति दिग्गजगदितधर्मनिवेदनम् ॥ 1 ॥

[भीष्म उवाच ।

ततः पद्मप्रतीकाशः पद्मोद्भूतः पितामहः ।
उवाच वचनं देवान्वासवं च शचीपतिम् ॥
अयं महाबलो नागो रसातलचरो बली ।
तेजस्वी रेणुको नाम महासत्वपराक्रमः ॥
अतितेजस्विनः सर्वे महावीर्या महागजाः ।
धारयन्ति महीं कृत्स्नां सशैलवनकाननाम् ॥
भवद्भिः समनुज्ञातो रेणुकस्तान्महागजान् ।
धर्मगुह्यानि सर्वाणि गत्वा पृच्छतु तत्र वै ॥
पितामहवचःक श्रुत्वा ते देवा रेणुकं तदा ।
प्रेषयामासुरव्यग्रा यत्र ते धरणीधराः ॥
रेणुक उवाच ।
अनुज्ञातोऽस्मि देवैश्च पितृभिस्चक महाबलाः । धर्मगुह्यानि युष्माकं श्रोतुमिच्छामि तत्त्वतः ।
कथयध्वं महाभागा यद्वस्तत्त्वं मनीषितम् ॥
दिग्गजा ऊचुः ।
कार्तिके मासि चाश्लेषा बहुलस्याष्टमी शिवा । तेन नक्षत्रयोगेन यो ददाति गुडौदनम् ।
इमं मन्त्रं जपच्छ्राद्धे यताहारो ह्यकोपनः ॥
बलदेवप्रभृतयो ये नागा बलवत्तराः ।
अनन्ता ह्यक्षया नित्यं भोगिनः सुमहाबलाः ॥
तेषां कुलोद्भवा ये च महाभूता भुजङ्गमाः ।
ते मे बलिं प्रयच्छन्तु बलतेजोभिवृद्धये ॥
यदा नारायणः श्रीमानुज्जहार वसुन्धराम् ।
तद्बलं तस्य देवस्य धरामुद्धरतस्तथा ॥
एवमुक्त्वा बलिं तत्र वल्मीके तु निवेदयेत् ॥
गजेन्द्रकुसुमाकीर्णं नीलवस्त्रानुलेपनम् ।
निर्वपेत्तं तु वल्मीके अस्तं याते दिवाकरे ॥
एवं तुष्टास्ततः सर्वे अधस्ताद्भारपीडिताः ।
श्रमं तं नावबुध्यामो धारयन्तो वसुन्धराम् ॥
एवं मन्यामहे सर्वे भारार्ता निरपेक्षिणः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यद्युपोषितः ॥
एवं संवत्सरं कृत्वा दानं बहुफलं लभेत् ।
वल्मीके बलिमादाय तन्नो बहुफलं मतम् ॥
ये च नागा महावीर्यास्त्रिषु लोकेषु कृत्स्नशः ।
कृतातिथ्या भवेयुस्ते शतं वर्षाणि तत्त्वतः ॥
दिग्गजानां च तच्छ्रुत्वा देवताः पितरस्तथा । ऋषयश्च महाभागाः पूजयन्ति स्म रेणुकम् ॥] ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चनवत्यधिकशततमोऽध्यायः ॥ 195 ॥

7-195-2 नागो गजः ॥

श्रीः