अध्यायः 201
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरंप्रति दानस्य पञ्चविधत्वकथनपूर्वकं तत्तल्लक्ष्यप्रदर्शनम् ॥ 1 ॥
[युधिष्ठिर उवाच ।
श्रुतं मे भवतस्तात सत्यव्रतपराक्रम ।
दानधर्मेण महता ये प्राप्तास्त्रिदिवं नृपाः ॥
इमांस्तु श्रोतुमिच्छामि ध्रमान्धर्मभृतांवर ।
दानं कतिविधं देयं किं तस्य च फलं लभेत् ॥
कथं केभ्यस्च धर्म्यं च दानं दातव्यमिष्यते ।
कैः कारणैः कतिविधं श्रोतुमिच्छामि तत्त्वतः ॥
भीष्म उवाच ।
शृणु तत्त्वेन कौन्तेय दानं प्रति ममानघ ।
यथा दानं प्रदातव्यं सर्ववर्णेषु भारत ॥
धर्मादर्थाद्भयात्कामात्कारुण्यादिति भारत ।
दानं पञ्चविधं ज्ञेयं कारणैर्यैर्निबोध तत् ॥
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ।
इति दानं प्रदातव्यं ब्राह्मणेभ्योऽनसूयता ॥
ददाति वा दास्यति वा मह्यं दत्तमनेन वा ।
इत्यर्तिभ्यो निशम्यैव सर्वं दातव्यमर्थिने ॥
नास्याहं न मदीयोऽयं पापं कुर्याद्विमानितः ।
इति दद्याद्भयादेव दृढं मूढाय पण्डितः ॥
प्रियो मे यं प्रियोऽस्याहमिति सम्प्रेक्ष्य बुद्धिमान् ।
वयस्यायैवमक्लिष्टं दानं दद्यादतन्द्रितः ॥
दीनश्च याचते चायमल्पेनापि हि तुष्यति ।
इति दद्याद्दरिद्राय कारुण्यादिति सर्वथा ॥
इति पञ्चविधं दानं पुण्यकीर्तिविवर्धनम् ।
यथाशक्त्या प्रदातव्यमेवमाह प्रजापतिः ॥] ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाधिकद्विशततमोऽध्यायः ॥ 201 ॥
7-201-6 धर्मद्दानं व्याचष्टे इहेति ॥ 7-201-7 अर्थादित्यस्य लक्षणमाह ददातीति ॥
श्रीः