अध्यायः 202

अथ दानधर्मपर्व ॥ 1 ॥

युधिष्ठिरेण भीष्मंप्रति सप्रशंसनं पुनर्धर्मकथनप्रार्थना ॥ 1 ॥

वैशम्पायन* उवाच ।

अनुशास्य शुभैर्वाक्यैर्भीष्ममाह महामतिः ।
प्रीत्या पुनः स शुश्रूषुर्वचनं यद्युधिष्ठिरः ॥
जनमेजय उवाच ।
पितामहो मे विप्रर्षे भीष्मं कालवशं गतम् ।
किमपृच्छत्तदा राजा सर्वसामाजिकं हितम् ॥
उभयोर्लोकयोर्युक्तं पुरुषार्थमनुत्तमम् ।
तन्मे वद महाप्राज्ञ श्रोतुं कौतूहलं हि मे ॥
वैशम्पायन उवाच ।
भूय एव महाराज शृणु धर्मसमुच्चयम् ।
यदपृच्छत्तदा राजा कुन्तीपुत्रो युधिष्ठिरः ॥
शरतल्पगतं भीष्मं सर्वपार्थिवसन्निधौ ।
अजातशत्रुः प्रीतात्मा पुनरेवाभ्यभाषत ॥
पितामह महाप्राज्ञ सर्वशास्त्रविशारदः ।
श्रूयतां मे हि वचनमर्थित्वात्प्रब्रवीम्यहम् ॥
परावरज्ञो भूतानां दयावान्सर्वजन्तुषु ।
आगमैर्बहुभिः प्रीतो भवान्नः परमं कुले ॥
त्वादृशो दुर्लभो लोके साम्प्रतं ज्ञानसंयुतः ।
भवता गुरुणा चैव धन्याश्चैव वयं प्रभो ॥
अयं स कालः सम्प्राप्तो दुर्लभैर्ज्ञातिबान्धवैः ।
शास्ता तु नास्ति नः कश्चित्त्वदृते पुरुषर्षभ ॥
तस्माद्धर्मार्थसहितमायत्यां च हितोदयम् ।
आश्चर्यं परमं वाक्यं श्रोतुमिच्छामि भारत ॥
अयं नारायणः श्रीमन्सर्वपार्थिवसन्निधौ ।
भवन्तं बहुमानाच्च प्रणयाच्चैव सेवते ॥
अस्यैव तु समक्षं नः पार्तिवानां तथैव च ।
इतिवृत्तं पुराणं च श्रोतॄणां परमं हितम् ॥
यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ ।
मत्प्रियार्थं हि कौरव्य स्नेहाद्भाषितुमर्हसि ॥
वैशम्पायन उवाच ।
तस्य तद्वचनं श्रुत्वा स्नेहादागतविक्लवः ।
प्रविबन्निव तं दृष्ट्वा भीष्मो वचनमब्रवीत् ॥
शृणु राजन्पुरावृत्तिमितिहासं पुरातनम् । एतावदुक्त्वा गाङ्गेयः प्रणम्य शिरसा हरिम् ।
धर्मराजं समीक्ष्येदं पुनर्वक्तुं समारभत् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥

7-202-1x * एकोत्तरद्विशततमाध्यायात्परं एकपञ्चाशदधिकद्विशततमाद्यायात्पूर्वं मध्ये परिदृश्यमानैकोनपञ्चाशदध्यायप्रतिनिधितया औत्तराहकोशे अष्टावेवाध्यायाः परिदृश्यन्ते । तेचानुपूर्वीभेदेन तदर्थैकदेशप्रतिपादकाएव दृश्यन्ते नतु तदनुक्तार्थप्रतिपादकाः ॥

श्रीः