अध्यायः 204
अथ दानधर्मपर्व ॥ 1 ॥
कृष्णेनाश्चर्यकथनं प्रार्थितैर्मुनिगणैर्नारदंप्रति तच्चोदना ॥ 1 ॥
श्रीभगवानुवाच ।
भवतां दर्शनादेव प्रीतिरभ्यधिका मम ।
भवन्तस्तु तपःसिद्धा भवन्तो दिव्यदर्शनाः ॥
सर्वत्र गतिमन्तश्च ज्ञानविज्ञानभाविताः ।
गत्यागतिज्ञा लोकानां सर्वे निर्दूतकल्मषाः ॥
तस्माद्भवद्भिर्यत्किंचिदृष्टं वाऽप्यथवा श्रुतम् ।
आश्चर्यभूतं लोकेषु तद्भवन्तो ब्रुवन्तु मे ॥
युष्माभिः कथितं यत्स्यात्तपसा भावितात्मभिः
तस्यादमृतसंकाशं वाङ्मधुश्रवणे स्पृहा ॥
रागद्वेषवियुक्तानां सततं सत्यवादिनाम् ।
श्रद्धेयं श्रवणीयं च वचनं हि सतां भवेत् ॥
तत्संयोगं हितं मेऽस्तु न वृथा कर्तुमर्हथ ।
भवतां दर्शनं तस्मात्सफलं तु भवेन्मम ॥
तदहं सज्जनमुखान्निःसृतं जनसंसदि ।
कथयिष्याम्यहं बुद्ध्या बुद्धिदीपकरं नृणाम् ॥
तदन्ये वर्धयिष्यन्ति पूजयिष्यन्ति चापरे ।
वात्सल्यविगताश्चान्ये प्रशंसन्ति पुरातनाः ॥
एवं ब्रुवति गोविन्दे श्रवणार्थं महर्षयः ।
वाग्भिः साञ्जलिमालाभिरिदमूचुर्जनार्दनम् ॥
अयुक्तमस्मानेवं त्वं वाचा वरद भाषितुम् ।
त्वच्छासनमुखाः सर्वे त्वदधीनपरिश्रमाः ॥
एवं पूजयितुं चास्मान्न चैवार्हसि केशव ।
त्वत्तस्त्वन्यं न पश्यामो यल्लोके ते न विद्यते ।
दिवि वा भुवि वा किञ्चित्तत्सर्वं हि त्वया ततम् ॥
न विद्महे वयं देव कथ्यमानं तवान्तिके ।
एवमुक्तो हृषीकेशः सस्मितं चेदमब्रवीत् ॥
अहं मानुषयोनिस्थः साम्प्रतं मुनिपुङ्गवाः ।
तस्मान्मानुषवद्वीर्यं मम जानीत सुव्रताः ।
भवद्भिः कथ्यमानं च अपूर्वमिव तद्भवेत् ॥
भीष्म उवाच ।
एवं संचोदिताः सर्वे केशवेन महात्मना ।
ऋषयश्चानुवर्तन्ते वासुदेवस्य शासनम् ॥
ततस्त्वृषिगणाः सर्वे नारदं देवदर्शनम् ।
अमन्यन्त बुधा बुद्ध्या समर्थं तन्निबोधने ॥
ऋषिरुग्रतपाश्चायं केशवस्य प्रियोऽधिकम् ।
पुराणज्ञश्च वाग्मी च कारणैस्तं च मेनिरे ॥
सर्वे तदर्हणं कृत्वा नारदं वाक्यमब्रुवन् ॥
भवता तीर्थयात्रार्थं चरता हिमवद्गिरौ ।
दृष्टं वै यत्तदाश्चर्यं श्रोतॄणां परमं प्रियम् ॥
अतस्त्वमविशेषेण हितार्थं सर्वमादितः ।
प्रियार्थं केशवस्यास्य स भवान्वक्तुमर्हति ॥
तदा संयोजितः सर्वैर्ऋषिभिर्नारदस्तदा ।
प्रणम्य शिरसा विष्णुं सर्वलोकहिते रतम् ।
समुद्वीक्ष्य हृषीकेशं वक्तुमेवोपचक्रमे ॥
ततो नारायणसुहृन्नारदो वदतांवरः ।
शङ्करस्योमया सार्धं संवादमनुभाषत ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुरधिकद्विशततमोऽध्यायः ॥ 204 ॥
श्रीः