अध्यायः 206

अथ दानधर्मपर्व ॥ 1 ॥

ईश्वरेण पार्वतींप्रति स्वस्य चतुर्मुखत्वस्य नीलकण्ठतायाः पिनाककार्मुकताया वृषभवाहनत्वस्य च कारणाभिधानम् ॥ 1 ॥

नारद उवाच ।

क्षणज्ञा देवदेवस्य श्रोतुकामा प्रियं हितम् ।
उमादेवी महादेवमपृच्छत्पुनरेव तु ॥
भगवन्देवदेवेश सर्वदेवनमस्कृत ।
चतुर्मुखो वै भगवानभवत्केन हेतुना ॥
भगवन्केन ते वक्त्रमैन्द्रमद्भुतदर्शनम् । उत्तरं चापि भगवन्पश्चिमं शुभदर्शनम् ।
दक्षिणं च मुखं रौद्रं केनोर्ध्वं जटिलावृतम् ॥
यथादृशं महाभाग श्रोतुमिच्छामि कारणम् ।
एष मे संशयो देव तन्मे शंसितुमर्हसि ॥
महादेव उवाच ।
तदहं ते प्रवक्ष्यामि यत्त्वमिच्छसि भामिनि ।
पुराऽसुरो महाघोरौ लोकोद्वेगकरौ भृशम् ॥
सुन्दोपसुन्दनामानावासतुर्बलगर्वितौ ।
अशस्त्रवध्यौ बलिनौ परस्परहितैषिणौ ॥
तयोरेव विनाशाय निर्मिता विश्वकर्मणा । सर्वतः सारमुद्धृत्य तिलशो लोकपूजिता ।
तिलोत्तमेति विख्याता अप्सराः सा बभूव ह ॥
देवकार्यं करिष्यन्ती हासभावसमन्विता ।
सा तपस्यन्तमागम्य रूपेणाप्रतिमा भुवि ॥
मया बहुमता चेयं देवकार्यं करिष्यति । इति मत्वा तदा चाहं कुर्वन्तीं मां प्रदक्षिणम् ।
तथैव तां दिदृक्षुश्च चतुर्वक्त्रोऽभवं प्रिये ॥
ऐन्द्रं मुखमिदं पूर्वं तपश्चर्यापरं सदा ।
दक्षिणं मे मुखं दिव्यं रौद्रं संहरति प्रजाः ॥
लोककार्यपरं नित्यं पश्चिमं मे मुखं प्रिये । वेदानधीते सततमद्भुतं चोत्तरं मुखम् ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।
भगवञ्श्रोतुमिच्छामि शूलपाणे वरप्रद ।
किमर्थं नीलता कण्ठे भाति बर्हिनिभा तव ॥
महेश्वर उवात ।
एतत्ते कथयिष्यामि शृणु देवि समाहिता ॥
पुरा युगान्तरे यत्नादमृतार्थं सुरासुरैः ।
बलवद्भिर्विमथितश्चिरकालं महोदधिः ॥
रज्जुना नागराजेन मथ्यमाने महोदधौ ।
विषं तत्र समुद्भूतं सर्वलोकविनाशनम् ॥
तद्दृष्ट्वा विबुधाः सर्वे तदा विमनसोऽभवन् ।
ग्रस्तं हि तन्मया देवि लोकानां हितकारणात् ॥
तत्कृता नीलता चासीत्कण्ठे बर्हिनिभा शुभे । तदाप्रभृति चैवाहं नीलकण्ठ इति स्मृतः ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।
नीलकण्ठ नमस्तेऽस्तु सर्वलोकसुखावह । बहूनामायुधानां त्वं पिनाकं धर्मुमिच्छसि ।
किमर्थं देवदेवेश तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
शस्त्रागमं ते वक्ष्यामि शृणु धर्म्यं शुचिस्मिते ।
युगान्तरे महादेवि कण्वो नाम महामुनिः ॥
स हि दिव्यां तपश्चर्यां कर्तुमेवोपचक्रमे । तथा तस्य तपो घोरं चरतः कालपर्ययात् ।
वल्मीकं पुनरुद्भूतं तस्यैव शिरसि प्रिये ॥
वेणुर्वल्मीकसंयोगान्मूर्ध्नि तस्य बभूव ह ।
धरमाणश्च तत्सर्वं तपश्चर्यां तथाऽकरोत् ॥
तस्मै ब्रह्मा वरं दातुं जगाम तपसार्चितः ।
दत्त्वा तस्मै वरं देवो वेणुं दृष्ट्वा त्वचिन्तयत् ॥
लोककार्यं समुद्दिश्य वेणुनाऽनेन भामिनि ।
चिन्तयित्वा तमादाय कार्मुकार्थे न्ययोजयत् ॥
विष्णोर्मम च सामर्थ्यं ज्ञात्वा लोकपितामहः ।
धनुषी द्वे तदा प्रादाद्विष्णवे च ममैव च ॥
पिनाकं नाम मे चापं शार्ङ्गं नाम हरेर्धनुः ।
तृतीयमवशेषेण गाण्डीवमभवद्धनुः ॥
तच्च सोमाय निर्दिश्य ब्रह्मा लोकं गतः पुनः ।
एतत्ते सर्वमाख्यातं शस्त्रागममनिन्दिते ॥
उमोवाच ।
भगवन्देवदेवेश पिनाकपरमप्रिय ।
वाहनेषु तथाऽन्येषु सत्सु भूतपते तव ॥
अयं तु वृषभः कस्माद्वाहनं स यथाऽभवत् ।
एष मे सशयो देव तन्मे शंसितुमर्हसि ॥
महादेव उवाच ।
तदहं ते प्रवक्ष्यामि वाहनं स यथाऽभवत् ॥
आदिसर्गे पुरा गावः श्वेतवर्णाः शुचिस्मिते ।
बलसंहनना गावो दर्पयुक्ताश्चरन्ति ताः ॥
अहं तु तप आतिष्ठं तस्मिन्काले शुभानने ।
एकपादश्चोर्ध्वबाहुर्लोकार्थं हिमवद्गिरौ ॥
गावो मे पार्श्वमागम्य दर्पोत्सिक्ताः समन्ततः ।
स्थानभ्रंशं तदा देवि चक्रिरे बहुशस्तदा ॥
अपचारेण वै तासां मनःक्षोभोऽभवन्मम ।
तस्माद्दग्धा यदा गावो रोषाविष्टेन चेतसा ॥
तस्मिंस्तु व्यसने घोरे वर्तमाने पशून्प्रति ।
अनेन वृषभेणाहं शमितः सम्प्रसादनैः ॥
तदाप्रभृति शान्ताश्च वर्णभेदत्वमागताः । श्वेतोऽयं वृषभो देवि पूर्वसंस्कारसंयुतः ।
वाहनत्वे ध्वजत्वे मे तदाप्रभृति योजितः ॥
तस्मान्मे गोपतित्वं च देवैर्गोभिश्च कल्पितम् ।
प्रसन्नश्चाभवं देवि तदा गोपतितां गतः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षडधिकद्विशततमोऽध्यायः ॥ 206 ॥

श्रीः