अध्यायः 208

अथ दानधर्मपर्व ॥ 1 ॥

ईश्वरेण पार्वतींप्रति वर्णाश्रमधर्मकथनम् ॥ 1 ॥

महेश्वर उवाच ।

हन्त ते कथयिष्यामि यत्ते देवि मनःप्रियम् ।
शृणु तत्सर्वमखिलं धर्मं वर्णाश्रमाश्रितम् ॥
ब्राह्मणाः क्षत्रिया वैश्याः शुद्राश्चेति चतुर्विधम् । ब्राह्मणा विहिताः पूर्वं लोकतन्त्रमभीप्सता ।
कर्माणि च तदर्हाणि शास्त्रेषु विहितानि वै ॥
यदीदमेकवर्णं स्याज्जगत्सर्वं विनश्यति ।
सहैव देवि वर्णानि चत्वारि विहितान्यतः ॥
मुखतो ब्राह्मणाः सृष्टस्तस्मात्ते वाग्विशारदाः ।
बाहुभ्यां क्षत्रियाः सृष्टास्तस्मात्ते बाहुगर्विताः ॥
ऊरुभ्यामुद्गता वैश्यास्तस्माद्वार्तोपजीविनः ।
शूद्राश्च पादतः सृष्टास्तस्मात्ते परिचाकाः ॥
तेषां धर्मांश्च कर्माणि शृणु देवि समाहिता । विप्राः कृता भूमिदेवा लोकानां धारणे कृताः ।
ते कैश्चिन्नावमन्तव्या ब्राह्मणा हितमिच्छुभिः ॥
यदि ते ब्राह्मणा न स्युर्दानयोगवहाः सदा ।
उभयोर्लोकयोर्देवि स्थितिर्न स्यात्समासतः ॥
लोकेषु दुर्लभं किंतु ब्राह्मणत्वमिति स्मृतम् ।
अबुधो वा दरिद्रो वा पूजनीयः सदैव सः ॥
ब्राह्मणान्योऽवमन्येत निन्देच्च क्रोधयेच्च वा ।
प्रहरेत हरेद्वाऽपि धनं तेषां नराधमः ॥
कारयेद्धीनकर्मणि कामलोभविमोहनात् ।
स च मामवमन्येत मां क्रोधयति निन्दति ॥
मामेव प्रहरेन्मूढो मद्धनस्यापहारकः ।
मामेव प्रेषणं कृत्वा निदन्ते मूढचेतनः ॥
स्वाध्यायो यजनं दानं तस्य धर्म इति स्थितिः । कर्मण्यध्यापनं चैव याजनं च प्रतिग्रहः ।
सत्यं शान्तिस्तपः शौचं तस्य धर्मः सनातनः ॥
विक्रयो रसधान्यानां ब्राह्मणस्य विगर्हितः ।
अनापदि च शूद्रान्नं वृषलीसङ्ग्रहस्तथा ॥
तप एव सदा धर्मो ब्राह्मणस्य न संशयः ।
स तु धर्मार्थमुत्पन्नः पूर्वं धात्रा तपोबलात् ॥
तस्योपनयनं धर्मो नित्यं चोदकधारणम् ।
शास्त्रस्य श्रवणं धर्मो देवव्रतनिषेवणम् ॥
अग्निकार्यं परो धर्मो नित्ययज्ञोपवीतिता । शूद्रान्नवर्जनं धर्मो धर्मः सत्पथसेवनम् ।
धर्मो नित्योपवासित्वं ब्रह्मचर्यं परं तथा ॥
गृहस्थस्य परो धर्मो गृहस्थाश्रमिणस्तथा ।
गृहसम्मार्जनं धर्म आलेपनविधिस्तथा ॥
अतिथिप्रियता धर्मो धर्मस्त्रेताग्निधारणम् ।
इष्टिर्वा पशुबन्धाश्च विधिपूर्वं परंतप ॥
दम्पत्योः समशीलत्वं धर्मो वै गृहमेधिनाम् ।
एवं द्विजन्मनो धर्मो गार्हस्थ्ये धर्मधारणम् ॥
यस्तु क्षत्रगतो धर्मस्त्वया देवि प्रयोदितः ।
तमहं ते प्रवक्ष्यामि शृणु देवि समाहिता ॥
क्षत्रियास्तु ततो देवि द्विजानां पालने स्मृताः ।
यदि निःक्षत्रियो लोको जगत्स्यादधरोत्तरम् ॥
रक्षणात्क्षत्रियैरेव जगद्भवति शाश्वतम् ।
तस्याप्यध्ययनं दानं यजनं धर्मतः स्मृतम् ॥
दीनानां रक्षणं चैव पापनामनुशासनम् ।
सतां सम्पोषणं चैव कर्मषण्मार्गजीवनम् ॥
उत्साहः शस्त्रजीवित्वं तस्य धर्मः सनातनः ।
भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता ॥
सम्यग्गुणयुतो धर्मो धर्मः पौरहितक्रिया ।
व्यवहारस्थितिर्नित्यं गुणयुक्तो महीपतिः ॥
आर्तवित्तप्रदो राजा धर्मं प्राप्नोत्यनुत्तमम् ।
एवं तैर्विहितः पूर्वैर्धर्मः कर्मविधानतः ॥
तथैव देवि वैश्याश्च लोकयात्राहिताः स्मृताः ।
अन्ये तानुपजीवन्ति प्रत्यक्षफलदा हि ते ॥
यदि न स्युस्तथा वैश्या न भवेयुस्तथा परे ।
तेषामध्ययनं दानं गजनं धर्म उच्यते ॥
वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा ।
अग्निहोत्रपरिस्पन्दास्त्रयो वर्णा द्विजातयः ॥
वाणिज्यं सत्पथे स्थानमातिथेयत्वमेव च ।
विप्राणां स्वागतन्यायो वैश्यधर्मः सनातनः ॥
तिलगन्धरसाश्चैव न विक्रेयाः कथञ्चन ।
वणिक्पथमुपासद्भिर्वैश्यैर्वैश्यपथि स्थितैः ॥
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् ।
एवं ते विहिता देवि लोकयात्रा स्वयंभुवा ॥
तथैव शूद्रा विहिताः सर्वधर्मप्रसाधकाः ।
शूद्राश्च यदि ते न स्युः कर्मकर्ता न विद्यते ॥
त्रयः पूर्वे शूद्रमूलाः सर्वे कर्मकराः स्मृताः ।
ब्राह्मणादिषु शुश्रूषा दासधर्म इति स्मृतः ॥
वार्ता च कारुकर्माणि शिल्यं नाट्यं तथैव च ।
अहिंसकः शुभाचारो देवतद्विजवन्दकः ॥
शूद्रो धर्मफलैरिष्टैः स्वधर्मेणोपपद्यते ।
एवमादि तथाऽन्यच्च शूद्रधर्म इति स्मृतः ॥
तेऽप्येवं विहिता लोके कर्मयोग्याः शुभानने ॥
एवं चतुर्णां वर्णानां वर्णलोकाः परत्र च ।
विहिताश्च तथा दृष्टा यथावद्धर्मचारिणि ॥
एष वर्णाश्रयो धर्मः कर्म चैव तदर्पणम् ।
कथितं श्रोतुकामायाः किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।
भगवन्देवदेवेश नमस्ते वृषभध्वज ।
श्रोतुमिच्छाम्यहं देव धर्ममाश्रमिणां विभो ॥
महेश्वर उवाच ।
तथाऽऽश्रमगतं धर्मं शृणु देवि समाहिता ।
आश्रमाणां तु यो धर्मः क्रियते ब्रह्मवादिभिः ॥
गृहस्थः प्रवरस्तेषां गार्हस्थ्यं धर्ममाश्रितः ।
पञ्चयज्ञक्रियाशौचं दारतुष्टिरतन्द्रिता ॥
ऋतुकालाभिगमनं दानयज्ञतपांसि च ।
अविप्रवासस्तस्येष्टः स्वाध्यायश्वाग्निपूर्वकम् ॥
अतिथीनामाभिमुख्यं शक्त्या चेष्टनिमन्त्रणम् ।
अनुग्रहश्च सर्वेषां मनोवाक्कायकर्मभिः ॥
एवमादि शुभं चान्यत्कुर्यात्तद्वृत्तिमान्गृही । एवं सञ्चरतस्तस्य पुण्यलोका न संशयः ।
तथैव वानप्रस्थस्य धर्माः प्रोक्ताः सनातनाः ॥
गृहवासं समुत्सृकज्य निश्चित्यैकमनाः शुभैः ।
वन्यैरेव तदाहारैः वर्तयेदिति च स्थितिः ॥
भूमिशय्या जटाश्मश्रुचर्मवल्कलधारणम् ।
देवतातिथिसत्कारो महाकृच्छ्राभिपूजनम् ॥
अग्निहोत्रं त्रिषवणं नित्यं तस्य विधीयते । ब्रह्मचर्यं क्षमा शौचं तस्य धर्मः सनातनः ।
एवं स विगते प्राणे देवलोके महीयते ॥
यतिधर्मास्तथा देवि गृहांस्त्यक्त्वा यतस्ततः ।
आकिञ्चन्यमनारम्भः सर्वतः शौचमार्जवम् ॥
सर्वत्र भैक्षचर्या च सर्वत्रैव विवासनम् । सदा ध्यानपरत्वं च देहशुद्धिः क्षमा दया ।
तत्वानुगतबुद्धित्वं तस्य धर्मविधिर्भवेत् ॥
ब्रह्मचारी च यो देवि जन्मप्रभृति भिक्षितः । ब्रह्मचर्यपरो भूत्वा साधयेद्गुरुमात्मनः ।
सर्वकालेषु सर्वत्र गुरुपूजां समाचरेत् ॥
भैक्षचर्याग्निकार्यं च सदा जलनिषेवणम् ।
स्वाध्यायः सततं तस्य एष धर्मः सनातनः ॥
तस्य चेष्टा तु गुर्वर्थमाप्राणान्तमिति स्थितिः ।
गुरोरभावे तत्पुत्रे गुरुवद्वृत्तिमाचरेत् ॥
एवं सोप्यमलाँल्लोकान्ब्राह्मणः प्रतिपद्यते ।
एष ते कथितो देवि धर्मश्चाश्रमवासिनाम् ॥
चतुर्णामाश्रमो युक्तो लोक इत्येव विद्यते ।
कथितं ते समासेन किं भूयः श्रोतुमिच्छसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टोत्तरद्विशततमोऽध्यायः ॥ 208 ॥

7-208-9 ब्राह्मणोऽभिहिता शुचिः इति क.पाठः ॥ 7-208-55 आयुष्कामो द्विजो देवि धारयेद्भस्य नित्पशः । मोक्षकामी च यो विप्रो भूतिकामोथवा पुनः । पुनरावृत्तिरहितं लोकं सम्प्रतिपद्यते । इति थ.पाठः ॥

श्रीः