अध्यायः 210

अथ दानधर्मपर्व ॥ 1 ॥

ईश्वरेण पार्वतींप्रति ऋषीणां कर्मफलविशेषादिकथनम् ॥ 1 ॥

उमोवाच ।

भगवन्देवदेवेश तेषां कर्मफलं प्रभो ।
श्रोतुमिच्छाम्यहं देव प्रसादात्ते वरप्रद ॥
महेश्वर उवाच ।
वानप्रस्थगतं सर्वं फलपाकं शृणु प्रिये ॥
अग्नियोगं व्रजन्ग्रीष्मे ततो द्वादशवार्षिकम् ।
रुद्रलोकेऽभिजायेत विधिदृष्टेन कर्मणा ॥
उपवासव्रतं कुर्वन्वर्षाकाले दृढव्रतः ।
सोमलोकेऽभिजायेत नरो द्वादशवार्षिकम् ॥
काष्ठवन्मौनमास्थाय नरो द्वादशवार्षिकम् ।
मरुतां लोकमास्थाय तत्र भोगैश्च युज्यते ॥
कुशशर्करसंयुक्ते स्थण्डिले संविशन्मुनिः ।
यक्षलोकेऽभिजायेत सहस्राणि चतुर्दश ॥
वर्षाणां भोगसंयुक्तो नरो द्वादशवार्षिकम् । वीरासनगतो यस्तु कण्टकाफलकाश्रितः ।
गन्धर्वेष्वभिजायेत नरो द्वादशवार्षिकम् ॥
वीरस्थायी चोर्ध्वबाहुर्नरो द्वादशवार्षिकम् ।
देवलोकेऽभिजायेत दिव्यभोगसमन्वितः ॥
पादाङ्गुष्ठेन यस्तिष्ठेदूर्ध्वबाहुर्जितेन्द्रियः । इन्द्रलोकेऽभिजायेत सहस्राणि चतुर्दश ।
आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् ।
नागलोकेऽभिजायेत संवत्सरगणान्बहून् ॥
एवं दृढव्रता देवि वानप्रस्थाश्च कर्मभिः ।
स्थानेषु तत्र तिष्ठन्ति तत्तद्भोगसमन्विताः ॥
तेभ्यो भ्रष्टाः पुनर्देवि जायन्ते नृषु भोगिनः ।
वर्णोत्तमकुलेष्वेव धनधान्यसमन्विताः ॥
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।
एषां यथा वराणां तु धर्ममिच्छामि मानद ।
कृपया परयाऽऽविष्टस्तन्मे ब्रूहि महेश्वर ॥
महेश्वर उवाच ।
धर्मं यथा वराणां त्वं शृणु भामिनि तत्परा ॥
व्रतोपवासशुद्धाङ्गास्तीर्थस्नानपरायणाः ।
धृतिमन्तःक क्षमायुक्ताः सत्यव्रतपरायणाः ॥
पक्षमासोपवासैश्च कर्शिता धर्मदर्शिनः ।
वर्षैः शीतातपैश्चैव कुर्वन्तः परमं तपः ॥
कालयोगेन गच्छन्ति शक्रलोकं शुचिस्मिते ।
तत्र ते भोगसंयुक्ता दिव्यगन्धसमन्विताः ॥
दिव्यभूषणसंयुक्ता विमानवरसंयुताः । विचरन्ति यथाकामं दिव्यस्त्रीगणसंयुताः ।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।
तेषां चक्रचराणां च धर्ममिच्छामि वै प्रभो ॥
महेश्वर उवाच ।
हन्त ते कथयिष्यामि शृणु शाकटिकं शुभे ॥
संवहन्तो धुरं दानैः शकटानां तु सर्वदा ।
प्रार्थयन्ते यथाकालं शकटैर्भैक्षचर्यया ॥
तपोर्जनपरा धीरास्तपसा क्षीणकल्मषाः ।
पर्यटन्तो दिशः सर्वाः कामक्रोधविवर्जिताः ॥
तेनैव कालयोगेन त्रिदिवं यान्ति शोभने ।
तत्र प्रमुदिता भोगैर्विचरन्ति यथासुखम् ॥
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।
वैखानसानां वै धर्मं श्रोतुमिच्छाम्यहं प्रभो ॥
महेश्वर उवाच ।
ते वै वैखानसा नाम वानप्रस्थाः शुभेक्षणे । तीव्रेण तपसा युक्ता दीप्तिमन्तः स्वतेजसा ।
सत्यव्रतपरा धीरास्तेषां निष्कल्मषं तपः ॥
अश्मकुट्टास्तथाऽन्ये च दन्तोलूखलिनस्तथा ।
शीर्णपर्णाशिनश्चान्ये उञ्छवृत्तास्तथा परे ॥
कपोतवृत्तयश्चान्ये कापोतीं वृत्तिमाश्रिताः ।
पशुप्रचारनिरताः फेनपाश्च तथा परे ॥
मृगवन्मृगचर्यायां सञ्चरन्ति तथा परे ।
अब्भक्षा वायुभक्षाश्च निराहारास्तथैव च ॥
केचिच्चरन्ति सद्विष्णोः पादपूजनमुत्तमम् । सञ्चरन्ति तपो घोरं व्याधिमृत्युविवर्जिताः ।
स्ववशादेव ते मृत्युं भीषयन्ति च नित्यशः ॥
इन्द्रलोके तथा तेषां निर्मिता भोगसञ्चयाः ।
अमरैः समतां यान्ति देववद्भोगसंयुताः ॥
वराप्सरोभिः संयुक्ताश्चिरकालमनिन्दिते ।
एतत्ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥
उमोवाच ।
भगवञ्श्रोतुमिच्छामि वालखिल्यांस्तपोधनान् ॥
महेस्वर उवाच ।
धर्मचर्यां तथा देवि वालखिल्यगतां शृणु ॥
मृगनिर्मोकवसना निर्द्वन्द्वास्ते तपोधनाः ।
अङ्गुष्ठमात्राः सुश्रोणि तेष्वेवाङ्गेषु संश्रिताः ॥
उद्यन्तं सततं सूर्यं स्तुवन्तो विविधैः स्तवैः । भास्करस्येव किरणैः सहसा यान्ति नित्यदा ।
द्योतयन्तो दिशः सर्वा धर्मज्ञाः सत्यवादिनः ॥
तेष्वेव निर्मलं सत्यं लोकार्थं तु प्रतिष्ठितम् ।
लोकोऽयं धार्यते देवि तेषामेव तपोबलात् ॥
महात्मनां तु तपसा सत्येन च शुचिस्मिते ।
क्षमया च महाभागे भूतानां संस्थितिं विदुः ॥
प्रजार्थमपि लोकार्थं महद्भिः क्रियते तपः । तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम् ।
दुष्प्रापमपि यल्लोके तपसा प्राप्यते हि तत् ॥
पञ्चभूतार्थतत्वे च लोकसृष्टिविर्धनम् ।
एतत्सर्वं समासेन तपोयोगाद्विनिर्मितम् ॥
तस्मादयं त्वृषिगणस्तपस्तप इति प्रिये ।
धर्मान्वेषी तपः कर्तुं यतते सततं प्रिये ॥
अमरत्वं शिवत्वं च तपसा प्रापयेत्सदा । एतत्ते कथितं सर्वं शृण्वन्त्यास्ते श्रुतं प्रिये ।
प्रियार्थमृषिसङ्घस्य प्रजानां हितकाम्यया ॥
नारद उवाच ।
एवं ब्रुवन्तं देवेशमृषयश्चापि तुष्टुवुः ।
भूयः परतरं यत्तु तदाप्रभृति चक्रिरे ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि दशाधिकद्विशततमोऽध्यायः ॥ 210 ॥

श्रीः