अध्यायः 213
अथ दानधर्मपर्व ॥ 1 ॥
ईश्वरेण हिंसाया दुस्त्यजत्वनिरूपणपूर्वकमर्हिंसाप्रशंसनम् ॥ 1 ॥
उमोवाच ।
देवदेव महादेव सर्वदेवनमस्कृत ।
						यानि धर्मरहस्यानि श्रोतुमिच्छामि तान्यहम् ॥
						महेश्वर उवाच । 
					रहस्यं श्रूयतां देवि मानुषाणां सुखावहम् ।
						नपुंसकेषु वन्ध्यासु वियोनौ पृथिवीतले ॥
					उत्सर्गो रेतसस्तेषु न कार्यो धर्मकाङ्क्षिभिः ।
						एतेषु बीजं प्रक्षिप्तं न च रोहति वै प्रिये ॥
					यत्र वा तत्र वा बीजं धर्मार्थीं नोत्सृजेत्पुनः ।
						नरो बीजविनाशेन लिप्यते ब्रह्महत्यया ॥
					अहिंसा परमो धर्म अहिंसा परमं सुखम् ।
						अहिंसा धर्मशास्त्रेषु सर्वेषु परमं पदम् ॥
					देवतातिथिशुश्रूषा सततं धर्मशीलता ।
						वेदाध्ययनयज्ञाश्च तपो दानं दमस्तथा ॥
					आचार्यगुरुशुश्रूषा तीर्थाभिगमनं तथा ।
						अहिंसाया वरारोहे कलां नार्हन्ति षोडशीम् ॥
					एतत्ते परमं गुह्यमाख्यातं परमार्चितम् ॥
						
						उमोवाच । 
					यद्यधर्मस्तु हिंसायां किमर्थममरोत्तम ।
						यज्ञेषु पशुबन्धेषु हन्यन्ते पशवो द्विजैः ॥
					कथं च भगवन्भूयो हिंसमाना नराधिपाः ।
						स्वर्गं सुदुर्गमं यान्ति तदा स्म रिपुसूदन ॥
					यस्यैव गोसहस्राणि विंशतिः स्वादिकानि तु ।
						अहन्यहनि हन्यन्ते द्विजानां मांसकारणात् ॥
					समांसं तु स दत्त्वाऽन्नं रन्तिदेवो नराधिपः ।
						कथं स्वर्गमनुप्राप्तः परं कौतूहलं हि मे ॥
					किन्तु धर्मं न शृण्वन्ति न श्रद्दधति वा श्रुतम् ।
						मृयां वै विनिर्गत्य मृगान्हन्ति नराधिपाः ॥
					एतत्सर्वं विशेषेण विस्तरेण वृषध्वज ।
						श्रोतुमिच्छामि सर्वज्ञ तत्त्वमद्य ममोच्यताम् ॥
						ईश्वर उवाच । 
					बहुमान्यमिदं देवि नास्ति कश्चिदहिंसकः ।
						श्रूयतां कारणं चात्र यथाऽनेकविधं भवेत् ॥
					दृश्यते चापि लोकेऽस्मिन्न हि कश्चिदहिंसकः ।
						धरणीसंश्रिता देवि सुसूक्ष्मांश्चैव मध्यमान् ॥
					सञ्चरंश्चरणाभ्यां च हन्ति जीवाननेकशः ।
							अज्ञानाज्ज्ञानतो वाऽपि यो जीवः शयनासनात् ।
						
						उपाविशञ्शयानश्च हन्ति जीवाननेकशः ॥
						
					शिरोवस्त्रेषु ये जीवा नरणां स्वेदसम्भवाः ।
						तांश्च हिंसन्ति सततं दंशांश्च मशकानपि ॥
					जले जीवास्तथाऽऽकाशे पृथिवी जीवमालिनी ।
						एवं जीवाकुले लोके कोसौ स्याद्यस्त्वहिंसकः ॥
					स्थूलमध्यमसूक्ष्मैश्च स्वेदवारिमहीरुहैः ।
						दृश्यरूपैरदृश्यैश्च नानारूपैश्च भामिनि ॥
					जीवैस्ततमिदं सर्वमाकाशं पृथिवी तथा ।
						अन्योन्यं ते च हिंसन्ति दुर्बलान्बलवत्तराः ॥
					मत्स्या मत्स्यान्ग्रसन्तीह खगाश्चैव खगांस्तथा ।
						सरीसृपैश्च जीवन्ति कपोताद्या विहङ्गमाः ॥
					भूचराः खेचराश्चान्ये क्रव्यादा मांसगृद्धिनः ।
						समृद्धाः परमांसैस्तु भक्षेरंस्तेऽपि चापरैः ॥
					सत्वैः सत्वानि जीवन्ति शतशोथ सहस्रशः ।
						अपीडयित्वा नैवान्यं जीवा जीवन्ति सुन्दरि ॥
					स्थूलकायस्य सत्वस्य खरस्य महिषस्य च ।
							जीवस्यैकस्य मांसेन पयसा रुधिरेण वा ।
						
						तृप्यन्ते बहवो जीवाः क्रव्यादा मांसजीविनः ॥
						
					एको जीवसहस्राणि सदा खादति मानवः ।
						अन्नाद्यस्य च भोगेन दान्यसंज्ञानि यानि तु ॥
					मांसधान्यैः सबीजैश्च भोजनं परिवर्जयेत् ॥
						
					त्रिरात्रं पञ्चरात्रं वा सप्तरात्रं तथाऽपि वा ।
						धान्यानि यो न हिंसेताहिंसकः परिकीर्तितः ॥
					नाश्नाति यावतो जीवस्तावत्पुण्येन युज्यते ।
						आहारस्य वियोगेन शरीरं परितप्यते ॥
					तप्यमाने शरीरे तु शरीरे चेन्द्रियाणि तु ।
						वशे तिष्ठन्ति सुश्रोणि नृपाणामिव किंकराः ॥
					निरुणद्धीन्द्रियाण्येव स सुखी स विचक्षणः ।
							इन्द्रियाणां निरोधेन दानेन च दमेन च ।
						
						नरः सर्वमवाप्नोति मनसा यद्यधिच्छति ॥
						
					एवं मूलमर्हिसाया उपवासः प्रकीर्तितः ॥
						
					आहारं कुरुते यस्तु भूमिमाक्रमते च यः ।
						सर्वे ते हिंसका देवि यथा धर्मेषु दृश्यते ॥
					यथैवाहिंसको देवि तत्वतो ज्ञायते नरः ।
						तथा ते सम्प्रवक्ष्यामि श्रूयतां धर्मचारिणि ॥
					फलानि मूलपर्णानि भस्म वा योपि भक्षयेत् ।
						अलेख्यमिव निश्चेष्टं तं मन्येऽहमहिंसकम् ॥
					आरम्भा हिंसया युक्ता धूमेनाग्निरिवावृताः ।
						तस्माद्यस्तु निराहारस्तं मन्येऽहमहिंसकम् ॥
					यस्तु सर्वं समुत्सृज्य दीक्षित्वा नियतः शुचिः ।
						कृत्वा मण्डलमर्यादां सङ्कल्पं कुरुते नरः ॥
					यावज्जीवमनाशित्वा कालकाङ्क्षी दृढव्रतः ।
						ध्यानेन तपसा युक्तस्तं मन्येऽहमहिंसकम् ॥
					अन्यथा हि न पश्यामि नरो यः स्यादहिंसकः ।
						बहु चिन्त्यमिदं देवि नास्ति कश्चिदहिंसकः ॥
					यतो यतो महाभागे हिंसा स्यान्महती ततः ।
						निवृत्तो मधुमांसाभ्यां हिंसा त्वल्पतरा भवेत् ॥
					निवृत्तिः परमो धर्मो निवृत्तिः परमं सुखम् ।
						मनसा विनिवृत्तानां धर्मस्य निचयो महान् ॥
					मनःपूर्वागमा धर्मा अधर्माश्च न संशयः ।
						मनसा बध्यते चापि मुच्यते चापि मानवः ॥
					निगृहीते भवेत्स्वर्गो विसृष्टे नरको ध्रुवः ।
						घातकः शस्त्रमुद्यम्य मनसा चिन्तयेद्यदि ॥
					आयुःक्षयं गतेऽन्येषां मृते तु प्रहराम्यहम् ।
						इति यो घातको हन्यान्न स पापेन लिप्यते ॥
					विधिना निहताः पूर्वं निमित्तं स तु घातकः ।
						विधिर्हि बलवान्देवि दुस्त्यजं वै पुराकृतम् ॥
					जीवाः पुराकृतेनैव तिर्यग्योनिसरीसृपाः ।
						नानायोनिषु जायन्ते स्वकर्मपरिवेष्टिताः ॥
					नानाविधविचित्राङ्गा नानाशौर्यपराक्रमाः ।
						नानाभूमिप्रदेशेषु नानाहारश्च जन्तवः ॥
					जायमानस्य जीवस्य मृत्युः पूर्वं प्रजायते ।
						सुखं वा यदि वा दुःखं यथापूर्वं कृतं तु वा ॥
					प्राप्नुवन्ति नरा मृत्युं यदा यत्र च येन च ।
						नातिक्रान्तुं हि शक्यः स्यान्निदेशः पूर्वकर्मणः ॥
					अप्रमत्तः प्रमत्तेषु विधिर्जागर्ति जन्तुषु ।
						न हि तस्य प्रियः कश्चिन्न द्वेष्यो न च मध्यमः ॥
					समः सर्वेषु भूतेषु कालः कालं निरीक्षते ।
						गतायुषो ह्याक्षिपते जीवः सर्वस्य देहिनः ॥
					यथा येन च मर्तव्यं नान्यथा म्रियते हि सः ।
						दृश्यते न च लोकेऽस्मिन्भूतो भव्यो द्विधा पुनः ॥
					विज्ञानैर्विक्रमैर्वाऽपि नानामन्त्रौषधैरपि ।
						यो हि वञ्चयितुं शक्तो विधेस्तु नियतां गतिम् ॥
					एष तेऽभिहितो देवि जीवहिंसाविधिक्रमः ॥ ॥
					इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोदसाधिकद्विशततमोऽध्यायः ॥ 213 ॥
श्रीः
