अध्यायः 214
अथ दानधर्मपर्व ॥ 1 ॥
महेश्वरेण पार्वतींप्रति सदृष्टान्तप्रदर्शनं सर्वैर्विधेर्दुरतिक्रमत्वनिरूपणम् ॥ 1 ॥ तता योधधर्मकथनपूर्वकं राज्ञां योधानां च प्राणयज्ञप्रशंसनम् ॥ 2 ॥
महेश्वर उवाच ।
श्रूयतां कारणं देवि यथा हि दुरतिक्रमः ।
विधिः सर्वेषु भूतेषु मर्तव्ये समुपस्थिते ॥
आयुःक्षयेणोपहिताः समागम्य वरानने ।
कीटाः पतङ्गा बहवः स्थूलाः सूक्ष्माश्च मध्यमाः । 7-214-2dc
प्रज्वलत्सु प्रदीपेषु स्वयमेव पतन्ति ते ॥
बहूनां मृगयूथानां नानावननिषेविणाम् ।
यस्तु कालं गतस्तेषां स वै पाशेन बध्यते ॥
सूनार्थं देवि बद्धानां क्षीणायुर्यो निबध्यते ।
अवशो घातकस्याथ हस्तं तदहरेति सः ॥
यथा पक्षिगणाः क्षिप्रं विस्तीर्णाकाशगामिनः ।
क्षीणायुषो निबध्यन्ते शक्ता अपि पलायितुम् ॥
यथा वारिचरा मीना बहवोऽम्बुजजातयः ।
जालं समधिरोहन्ति स्वयमेव विधेर्वशात् ॥
शल्यकस्य च जिह्वाग्रं स्वयमारुह्य शोभने ।
आयुःक्षयेणोपहता निबध्यन्ते सरीसृपाः ॥
कृषतां कर्षकाणां च नास्ति बुद्धिर्विहिंसने ।
अथैषां लाङ्गलाग्राद्यैर्हन्यन्ते जन्तवोऽक्षयाः ॥
पादाग्रेणैव चैकेन यां हिंसां कुरुते नरः ।
मातङ्गोपि न तां कुर्यात्कूरो जन्मशतैरपि ॥
म्रियन्ते यैर्हि मर्तव्यं न तान्घ्नन्ति कृषीवलाः ।
कृषामीति मनस्तस्य नास्ति चिन्ता विहिंसने ॥
तस्माज्जीवसहस्राणि हत्वाऽपि न स लिप्यते ।
विधिना स हतः पूर्वं पश्चात्प्राणि विपद्यते ।
एवं सर्वेषु भूतेषु विधिर्हि दुरतिक्रमः ॥
गतायुषा मुहूर्तं तु न शक्यमुपजीवितुम् ।
जीवितव्ये न मर्तव्यं न भूतं न भविष्यति ॥
शुभाशुभं कर्मफलं न शक्यमतिवर्तितुम् ।
तथा ताभिश्च मर्तव्यं मोक्तव्याश्चैव तास्तथा ॥
रन्तिदेवस्य गावो वै विधेर्हि वशमागताः ।
स्वयमायान्ति गावो वै हन्यन्ते यत्र सुन्दरि ॥
गवां वै हन्यमानानां रुधिरप्रभवा नदी ।
चर्मण्वतीति विख्याता खुरशृङ्गास्थिदुर्गमा ॥
रुधिरं तां नदीं प्राप्य तोयं भवति शोभने ।
मेध्यं पुण्यं पवित्रं च गन्धवर्णरसैर्युतम् ॥
तत्राऽभिषेकं कुर्वन्ति कृतजप्याः कृताह्निकाः ।
द्विजा देवगणाश्चापि लोकपाला महेश्वराः ॥
तस्य राज्ञः सदा सत्रे स्वयमागम्य सुन्दरि ।
विधिना पूर्वदृष्टेन तन्मांसमुपकल्पितम् ।
मन्त्रवत्प्रतिगृह्णन्ति यतान्यायं यताविधि ॥
समांसं च सदा ह्यन्नं शतशोऽथ सहस्रशः ।
भुञ्जानानां द्विजातीनामस्तमेति दिवाकरः ॥
गावो यास्तत्र हन्यन्ते राज्ञस्तस्य क्रतूत्तमे ।
पठ्यमानेषु मन्त्रेषु यथान्यायं यथाविधि ॥
ताश्च स्वर्गं गता गावो रन्तिदेवश्च पार्थिवः ।
सदा सत्रविधानेन सिद्धिं प्राप्तो नरोत्तमः ॥
अथ यस्तु सहायार्थमुक्तः स्यात्पार्थिवैर्नरैः ।
भोगानां संविभागेन वस्त्राभरणभूषणैः ॥
सहभोजनसम्बद्धैः सत्कारैर्विविधैरपि ।
सहायकाले सम्प्राप्ते सङ्ग्रामे शस्त्रमुद्धरेत् ॥
व्यूढानीके यथा सास्त्रं सेनयोरुभयोरपि ।
हस्त्यश्वरथसम्पूर्णे पदातिबलसङ्कुले ।
चामरच्छत्रशबले ध्वजचर्मायुधोज्ज्वले ॥
शक्तितोमरकुन्तासिशूलमुद्गरपाणिभिः ।
कूटमुद्गरचापेषु मुसुण्ठीजुष्टमुष्टिभिः ॥
भिण्डिपालगदाचक्रप्रासकर्पटधारिभिः ।
नानाप्रहरणैर्योधैः सेनयोरुभयोरपि ।
युद्धशौण्डैः प्रगर्जद्भिर्वृषेषु वृषभैरिव ॥
शङ्खदुन्दुभिनादेन नानातूर्यरवेण च ।
हयहेषितशब्देन कुञ्जराणां तु बृंहितैः ॥
योधानां सिंहनादैश्च घण्टानां शिञ्जितस्वनैः ।
दिशश्च विदिशश्चैव समन्ताद्बधिरीकृताः ॥
ग्रीष्मान्तेष्विव गर्जद्भिर्नभशीव बलाहकैः ।
रथनेमिखुरोद्धूतैररुणै रणरेणुभिः ।
कपिलाभिरिवाकाशे छाद्यमाने समन्ततः ॥
प्रवृत्ते शस्त्रसम्पाते योधानां तत्र सेनयोः ।
तेषां प्रहारक्षतजं रक्तचन्दनसन्निभम् ॥
तेषामस्राणि गात्रेभ्य स्रवन्ते रणमूर्धनि ।
पलाशाशोकपुष्पाणां जङ्गमा इव राशयः ॥
रणे समभिवर्तन्त उद्यतायुधपाणयः ।
शोभमाना रणे शूरा आह्वयन्तः परस्परम् ॥
हन्यमानेष्वभिघ्नत्सु शूरेषु रणसङ्कटे ।
पृष्ठं दत्त्वा च ये तत्र नायकस्य नराधमाः ॥
अनाहता निवर्तन्ते नायके चाप्यनीप्सति ।
ते दुष्कृतं प्रपद्यन्ते नायकस्याखिलं नराः ।
यच्चास्ति सुकृतं तेषां युज्यते तेन नायकः ॥
अहिंसा परमो धर्म इति येऽपि नरा विदुः ।
सङ्ग्रामेषु न युध्यन्ते भृत्याश्चैवानुरूपतः ।
नरकं यान्ति ते घोरं भर्तृपिण्डापहारिणइः ॥
यस्तु प्राणान्परित्यज्य प्रविशेदुद्यतायुधः ।
सङ्ग्राममग्निप्रतिमं पतह्ग इव निर्भयः ।
स्वर्गमाविशते प्रेत्य ज्ञात्वा योधस्य निश्चयम् ॥
आविष्टश्चैव सत्त्वेन सघृणो जायते नरः ।
प्रहारैर्नन्दयेद्देवि सत्वेनाधिष्ठितो हि सः ।
प्रहारव्यथितश्चैव न वैक्लब्यमुपैति सः ॥
यस्तु स्वं नायकं रक्षेदतिघोरे रणाङ्कणे ।
तापयन्नरिसैन्यानि सिंहो मृगगणानिव ।
आदित्य इव मध्याह्ने दुर्निरीक्ष्यो रणाजिरे ॥
निर्दयो यस्तु सङ्ग्रामे प्रहरन्नुद्यतायुधः ।
यजते स तु पूतात्मा सङ्ग्रामेण महाक्रतुम् ॥
चर्म कृष्णाजिनं तस्य दन्तकाष्ठं धनुः स्मृतम् ।
रथो वेदिर्ध्वजो यूपः कुशाश्च रथरश्मयः ॥
मानो दर्पस्त्वहङ्कारस्त्रयस्त्रेताग्नयः स्मृताः ।
प्रमोदस्च स्रुवस्तस्य उपाध्यायो हि सारथिः ॥
स्रुग्भाण्डं चापि यत्किञ्चिद्यज्ञोपकरणानि च ।
आयुधान्यस्य तत्सर्वं समिधः सायकाः स्मृताः ॥
स्वेदस्रवश्च गात्रेभ्यः क्षौद्रं तस्य यशस्विनः ।
पुरोडाशा नृशीर्षाणि रुधिरं चाहुतिः स्मृता ।
तूणाश्चैव चरुर्ज्ञेया वसोर्धारा वसाः स्मृताः ॥
क्रव्यादा भूतसङ्घाश्च तस्मिन्यज्ञे द्विजतयः ।
तेषां भक्षान्नपानानि हता नृगजवाजिनः ।
भुञ्जते ते यथाकामं यता यज्ञे किमिच्छति ॥
निहतानां तु योधानां वस्त्राभरणभूषणम् ।
हिरण्यं च सुवर्णं च यद्वै यज्ञस्य दक्षिणा ॥
यस्तत्र हन्यते देवि गजस्कन्धगतो नरः ।
ब्रह्मलोकमवाप्नोति रणेष्वभिमुखो हतः ॥
रथमध्यगतो वाऽपि हयपृष्ठगतोपि वा ।
हन्यते यस्तु सङ्ग्रामे शक्रलोके महीयते ॥
स्वर्गे हताः प्रपूज्यते हन्ता त्वत्रैव पूज्यते ।
द्वावेतौ सुखमेधेते हन्ता यश्चैव हन्यते ॥
तस्मात्सङ्ग्राममासाद्य प्रहर्तव्यमभीतवत् ॥
निर्भयो यस्तु सङ्ग्रामे यस्तु सङ्ग्रामे प्रहरेदुद्यतायुधः ।
यथा नदीसहस्राणि प्रविष्टानि महोदधिम् ॥
तथा सर्वे न सन्देहो धर्मा धर्मभृतांवरम् ।
प्रविष्टा राजधर्मेण आचारविनयस्तथा ॥
वेदोक्ताश्चैव ये धर्माः पाषण्डेषु च कीर्तिताः ।
तथैव मानुषा धर्मा धर्माश्चान्ये तथेतरे ॥
देशजातिकुलानां च ग्रामधर्मास्तथैव च ।
ये धर्माः पार्वतीयेषु ये धर्माः पत्तनादिषु ।
तेषां पूर्वप्रवृत्तानां कर्तव्यं परिरक्षणम् ॥
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मो न हन्तव्यः पार्थिवेन विशेषतः ॥
प्रजाः पालयते यत्र धर्मेण वसुधाधिपः ।
षट्कर्मनिरता विप्राः पूज्यन्ते पितृदेवताः ॥
नैव तस्मिन्ननावृष्टिर्न रोगा नाप्युपद्रवाः ।
धर्मशीलाः प्रजाः सर्वाः स्वधर्मनिरते नृपे ॥
एष्टव्यः सततं देवि युक्ताचारो नराधिपः ।
छिद्रज्ञश्चैव शत्रूणामप्रमत्तः प्रतापवान् ॥
शूद्राः पृथिव्यां बहवो राज्ञां बहुविनाशकाः ।
तस्मात्प्रमादं सुश्रोणि न कुर्यात्पण्डितो नृपः ॥
तेषु मित्रेषु त्यक्तेषु तथा मर्त्येषु हस्तिषु ।
विस्रम्भो नोपगन्तव्यः स्नानपानेषु नित्यशः ॥
राज्ञो वल्लभतामेति कुलं भावयते स्वकम् ।
यस्तु राष्ट्रहितार्थाय गोब्राह्मणकृते तथा ।
बन्दीग्रहाय मित्रार्थे प्राणांस्त्यजति दुस्त्यजान् ॥
सर्वकामदुघां धेनुं धरणीं लोकधारिणीम् ।
समुद्रान्तां वरारोहे सशैलवनकाननाम् ॥
दद्याद्देवि द्विजातिभ्यो वसुपूर्णां वसुन्धराम् ।
न तत्समं वरारोहे प्राणत्यागी विशिष्यते ॥
सहस्रमपि यज्ञानां यजते च यतर्द्धिमान् ।
यज्ञैस्तस्य किमाश्चर्यं प्राणत्यागः सुदुष्करः ॥
तस्मात्सर्वेषु यज्ञेषु प्राणयज्ञो विशिष्यते ।
एवं सङ्ग्रामयज्ञास्ते यथार्थं समुदाहृताः ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः ॥ 214 ॥
श्रीः