अध्यायः 017
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरंप्रति भक्तिश्रद्धादीनां भुक्तिसाधनताप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥
`द्वैपायन उवाच ।
श्रद्दात्यागं निर्वृतिं चापि पूजां
							सत्यं धर्मं यः कृतं चाभ्युपैति ।
						
						कामद्वेषौ त्यज्य सर्वेषु तुल्यः
							श्रद्धापूतः सर्वयज्ञेषु योग्यः ॥
						
					यस्मिन्यज्ञे सर्वभूताः प्रहृष्टाः
							सर्वे चारम्भाः शास्त्रदृष्टाः प्रवृत्ताः ।
						
						धर्म्यैरर्थ्यैर्ये यजन्ते ध्रुवं ते
							पूतात्मानो धर्ममेकं भजन्ते ॥
						
					एकाक्षरं द्व्यक्षरमेकमेव
							सदा यजन्ते नियताः प्रतीताः ।
						
						दृष्ट्वा मनागर्चयित्वा स्म विप्राः
							सतां मार्गं तं ध्रुवं सम्भजन्ते ॥
						
					पापात्मानः क्रोधरगाभिभूताः
							कृष्णे भक्ता नाम सङ्कीर्तयन्तः ।
						
						पूतात्मानो यज्ञशीलाः सुमेधा
							यज्ञस्यान्ते कीर्तिलोकान्भजन्ते ॥
						
					एको वेदो ब्राह्मणानां बभूव
							चतुष्पादस्त्रिगुणो ब्रह्मशीर्षः ।
						
						पादंपादं ब्राह्मणा वेदमाहु-
							स्त्रेताकाले तं च तं विद्धि शीर्षम् ॥' ॥
					इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥
श्रीः
