अध्यायः 215

अथ दानधर्मपर्व ॥ 1 ॥

ईश्वरेण पार्वतींप्रति राज्ञां मृगयायां मृगहिंसाया धर्मत्वप्रतिपादनम् ॥ 1 ॥ तथा सदृष्टान्तप्रदर्शनं ब्राह्मणमहिमप्रशो सनपूर्वकं तेषाभदण्ड्यत्वकथनम् ॥ 2 ॥ तथा सामान्येन राजधर्मकथनम् ॥ 3 ॥

महेश्वर उवाच ।

मृगयात्रां तु वक्ष्यामि शृणु तां धर्मिचारिणि ।
मृगान्हत्वा महीपालो यथा पापैर्न लिप्यते ॥
निर्मानुषामिमां सर्वे मृगा इच्छन्ति मेदिनीम् ।
भक्षयन्ति च सस्यानि शासितव्या नृपेण ते ॥
दुष्टानां शासनं धर्मः शिष्टानां परिपालनम् । कर्तव्यं भूमिपालेन नित्यं कार्येषु चार्जवम् ।
स्वर्गं मृगाश्च गच्छन्ति स्वयं नृपतिना हताः ॥
यथा गावो ह्यगोपालास्तथा राष्ट्रमनायकम् । तस्मादंशास्तु देवानां गन्धर्वोरगरक्षसाम् ।
राज्ये नियुक्ता राष्ट्रेषु प्रजापालनकारणात् ॥
अशिष्टशासने चैव शिष्टानां परिपालने ।
तेषां चर्यां प्रवक्ष्यामि श्रूयतामनुपूर्वशः ॥
यथा प्रचरतां तेषां पार्थिवानां यशस्विनाम् ।
राष्ट्रं धर्मो धनं चैव यशः कीर्तिश्च वर्धते ॥
नृपाणां पूर्वमेवायं धर्मो धर्मभृतांवर । सभाप्रपातटाकानि देवतायतनानि च ।
ब्राह्मणावसथाश्चैव कर्तव्या नृपसत्तमैः ॥
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः ।
कुलमुत्सादयेयुस्ते क्रोधाविष्टा द्विजातयः ॥
ध्मायमानो यता ह्यग्निर्निर्दहेत्सर्वमिन्धनम् । तथा क्रोधाग्निना विप्रा दहेयुः पृथिवीमिमाम् ।
न हि विप्रेषु क्रुद्धेषु राज्यं भुञ्जन्ति भूमिपाः ॥
परिभूय द्विजान्मोहाद्वातापिनहुषादयः । सबन्धुमित्रा नष्टास्ते दग्धा ब्राह्मणमन्युभिः ।
शरीरं चापि शक्रस्य कृतं भगनिरन्तरम् ॥
ततो देवगणाः सर्वे इन्द्रस्यार्थे महामुनिम् ।
प्रसादं कारयामासुः प्रणासस्तुतिवन्दनैः ॥
तेन प्रीतेन सुश्रोणि गौतमेन महात्मना । तच्छरीरं तु शक्रस्य सहस्रभगचिह्नितम् ।
कृतं नेत्रसहस्रेण क्षणेनैव निरन्तरम् ॥
छित्त्वा मेषस्य वृषणौ गौतमेनाभिमन्त्रितौ ।
इन्द्रस्य वृषणौ भूत्वा क्षिप्रं वै श्लेषमागतौ ॥
एवं विप्रेषु क्रुद्धेषु देवराजः शतक्रतुः ।
अशक्तः शासितुं राज्यं किंपुनर्मानुषा भुवि ॥
क्रोधाविष्टो दहेद्विप्रः शुष्केन्धनमिवानलः ।
भस्मीकृत्य जगत्सर्वं सृजेदन्यज्जगत्पुनः ॥
अदेवानपि देवान्स कुर्याद्देवानदेवताः ।
तस्मान्नोत्पादयेन्मन्युं मन्युप्रहरणा द्विजाः ॥
महत्स्वप्यपराधेषु शासनं नार्हति द्विजः । न च शस्त्रनिपातानि न च प्राणैर्वियोजनम् ।
दृश्यते त्रिषु लोकेषु ब्राह्ममानामनिन्दिते ॥
क्रोधाश्च विपुला घोराः प्रसादाश्चाप्यनुत्तमाः ।
तस्मान्नोत्पादयेत्क्रोधं नित्यं पूज्या द्विजातयः ॥
दृश्यते न स लोकेऽस्मिन्भूते वाऽथ भविष्यति ।
क्रुद्धेषु यो वै विप्रेषु राज्यं भुङ्क्ते नराधिपः ॥
न चैवापहसेद्विप्रान्नि चैवोपालभेच्च तान् ।
कालमासाद्य कुप्येच्च काले कुर्यादनुग्रहम् ॥
सम्प्रहासश्च भृत्येषु न कर्तव्यो नराधिपैः ।
लघुत्वं चैव प्राप्नोति आज्ञा चास्य निवर्तते ॥
भृत्यानां सम्प्रहासेन पार्थिवः परिभूयते ।
अयाच्यानि च याचन्ति अवक्तव्यं ब्रुवन्ति च ॥
पूर्वमप्यर्पितैर्लोभैः परितोषं न यान्ति ते ।
तस्माद्भृत्येषु नृपतिः सम्प्रहासं विवर्जयेत् ॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
सगोत्रेषु विशेषेण सर्वोपायैर्न विश्वसेत् ॥
विश्वासाद्भयमुत्पन्नं हन्याद्वृक्षमिवाशनिः । प्रमादाद्धन्यते राजा लोभेन च वशीकृतः ।
तस्मात्प्रमादं लोभं च न च कुर्यान्न विश्वसेत् ॥
भयार्तानां भयत्राता दीनानुग्रहकारणात् ।
कार्याकार्यविशेषज्ञो नित्यं राष्ट्रहिते रतः ॥
सत्यसन्धः स्थितो राज्ये प्रजापालनतत्परः ।
अलुब्धो न्यायवादी च षड्भागमुपजीवति ॥
कार्याकार्यविशेषज्ञः सर्वं धर्मेण पश्यति ।
स्वराष्ट्रेषु दयां कुर्यादकार्ये न प्रवर्तते ॥
ये चैवैनं प्रशंसन्ति ये च निन्दन्ति मानवाः । शत्रुं च मित्रवत्पश्येदपराधविवर्जितम् ।
अपराधानुरूपेण दुष्टं दण्डेन शासयेत् । धर्मः प्रवर्तते तत्र यत्र दण्डरुचिर्नृपः ।
न धर्मो विद्यते तत्र यत्र राजा क्षमान्वितः ॥
अशिष्टशासनं धर्मः शिष्टानां परिपालनम् ।
वध्यांश्च घातयेद्यस्तु अवध्यानपरिरक्षति ॥
अवध्या ब्राह्मणा गावो दूताश्चैव पिता तथा । विद्यां ग्राहयते यश्च ये च पूर्वोपकारिणः ।
स्त्रियश्चैव न हन्तव्या यच्च सर्वातिथिर्नरः ॥
धरणीं गां हिरण्यं च सिद्धान्नं च तिलान्घृतम् ।
ददन्नित्यं द्विजातिभ्यो मुच्यते राजकिल्बिषात् ॥
एवं चरति यो नित्यं राजा राष्ट्रहिते रतः । तस्य राष्ट्रं धनं धर्मो यशः कीर्तिश्च वर्धते ।
न च पापैर्न चानर्थैर्युज्यते स नराधिपः ॥
षड्भागमुपभुञ्जानः प्रजा राजा न रक्षति ।
स्वचक्रपरचक्राभ्यां धर्मैर्वा विक्रमेण वा ॥
निरुद्योगो नृपो यश्च परराष्ट्रनिघातने ।
स्वराष्ट्रं निष्प्रतापस्य परचक्रेण हन्यते ॥
यत्पापं सकलं राजा हतराष्ट्रः प्रपद्यते ॥ मातुलं भागिनेयं वा मातरं श्वशुरं गुरुम् ।
पितरं वर्जयित्वैकं हन्याद्धातकमागतम् ॥
स्वस्य राष्ट्रस्य रक्षार्थं युद्यमानश्च यो हतः ।
सङ्ग्रामे परचक्रेण श्रूयतां तस्य या गतिः ॥
विमानेन वरारोहे अप्सरोगणसेवितः ।
शक्रलोकमितो याति सङ्ग्रामे निहतो नृपः ॥
यावन्तो रोमकूपाः स्युस्तस्य गात्रेषु सुन्दरि ।
तावद्वर्षसहस्राणि शक्रलोके महीयते ॥
यदि वै मानुषे लोके कदाचिदुपपद्यते ।
राजा वा राजमात्रो वा भूयो भवति वीर्यवान् ॥
तस्माद्यत्नेन कर्तव्यं स्वराष्ट्रपरिपालनम् ।
व्यवहाराश्च चारश्च सततं सत्यसन्धता ॥
अप्रमादः प्रमोदश्च व्यवसायेऽप्यचण्डता ।
भरणं चैव भृत्यानां वाहनानां च पोषणम् ॥
योधानां चैव सत्कारः कृते कर्मण्यमोघता ।
श्रेय एव नरेन्द्राणामिह चैव परत्र च ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥

7-215-23 पूर्वमप्युचितैर्लाभैरिति ठ.पाठः ॥ 7-215-30 नाधर्मो विद्यते तत्रेति थ.पाठः ॥ 7-215-31 यो घातयेत् तस्याशिष्टशासनं धर्मं इत्यन्वयः ॥

श्रीः