अध्यायः 225

अथ दानधर्मपर्व ॥ 1 ॥

पार्वत्या परमेश्वरंप्रति प्राणिनां शुभाशुभफलयोर्मध्ये कस्य पूर्वोपभोग इति प्रश्नः ॥ 1 ॥ परमेश्वरेण तांप्रति सदृष्टान्तप्रदर्शनं तयोर्यौगपद्येनोपभोगकथनम् ॥ 2 ॥ तथा पूर्वकर्मणामल्पायुष्ट्वादिकारणत्वाभिधानम् ॥ 3 ॥

उमोवाच ।

भगवन्भगनेत्रघ्न मानुषाणां विचेष्टितम् ।
सर्वमात्मकृतं चेति श्रुतं मे भगवन्मतम् ॥
लोके ग्रहकृतं सर्वं मत्वा कर्म शुभाशुभम् । तदेव ग्रहनक्षत्रं प्रायशः पर्युपासते ।
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि ॥
महेश्वर उवाच ।
स्थाने संशयितं देवि शृणु तत्वविनिश्चयम् ॥
नक्षत्राणि ग्रहाश्चैव शुभाशुभनिवेदकाः ।
मानवानां महाभागे न तु कर्मकराः स्वयम् ॥
प्रजानां तु हितार्थाय शुभाशुभविधिं प्रति ।
अनागतमतिक्रान्तं ज्योतिश्चक्रेण बोध्यते ॥
किन्तु तत्र शुभं कर्म सुग्रहैस्तु निवेद्यते ।
दुष्कृतस्याशुभैरेव समावायो भवेदिति ॥
तस्मात्तु ग्रहवैषम्ये विषमं कुरुते जनः ।
ग्रहसाम्ये शुभं कुर्याज्ज्ञात्वाऽऽत्मानं तथा कृतम् ॥
केवलं ग्रहनक्षत्रं न करोति शुभाशुभम् ।
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति ॥
पृथग्ग्रहाः पृथक्कर्ता कर्ता स्वं भुञ्जते फलम् ।
इति ते कथितं सर्वं विशङ्कां जहि शोभने ॥
उमोवाच ।
भगवन्विविधं कर्म कृत्वा जन्तुः शुभाशुभम् । किं तयोः पूर्वकतरं भुङ्क्ते जन्मान्तरे पुनः ।
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि ॥
महेश्वर उवाच ।
स्थाने संशयितं देवि तत्ते वक्ष्यामि तत्वतः ॥ अशुभं पूर्वमित्याहुरपरे शुभमित्यपि ।
मिथ्या तदुभयं प्रोक्तं केवलं तद्ब्रवीमि ते ॥
मानुषे तु पदे कर्म युगपद्भुज्यते सदा ।
यथाकृतं यथायोगमुभयं भुज्यते क्रमात् ॥
भुञ्जानाश्चापि दृश्यन्ते क्रमशो भुवि मानवाः ।
ऋद्धिं हानिं सुखं दुःखं तत्सर्वमुभयं भयम् ॥
दुःखान्यनुभवन्त्याढ्या दरिद्राश्च सुखानि च ।
यौगपद्याद्धि भुञ्जाना दृश्यन्ते लोकसाक्षिकम् ॥
नरके स्वर्गलोके च न तथा संस्थितिः प्रिये ।
नित्यं दुःखं हि नरके स्वर्गे नित्यं सुखं तथा ॥
शुभाशुभानामाधिक्यं कर्मणां तत्र सेव्यते ।
निरन्तरं सुखं दुःखं स्वर्गे च नरके भवेत् ॥
तत्रापि सुमहद्भुक्त्वा पूर्वमल्पं पुनः शुभे ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।
भगवन्प्राणिनो लोके म्रियन्ते केन हेतुना ।
जाताजाता न तिष्ठन्ति तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु सत्यं समाहिता ।
आत्मा कर्मक्षयाद्देहं यथा मुञ्चति तच्छृणु ॥
शरीरात्मसमाहारो जन्तुरित्यभिधीयते ।
तत्रात्मानं नित्यमाहुरनित्यं क्षेत्रिमुच्यते ॥
एवं कालेन सङ्क्रान्तं शरीरं जर्झरीकृतम् ।
अकर्मयोग्यं संशीर्णं त्यक्त्वा देही ततो व्रजेत् ॥
नित्यस्यानित्यसंत्यागाल्लोके तन्मरणं विदुः ।
कालं नातिक्रमेरन्हि सदेवासुरमानवाः ॥
यथाऽऽकाशे न तिष्ठेत द्रव्यं किञ्चिदचेतनम् ।
तथा धावति कालोऽयं क्षणं किञ्चिन्न तिष्ठति ॥
स पुनर्जायतेऽन्यत्र शरीरं नवमाविशन् ।
एवंलोकगतिर्नित्यमादिप्रभृति वर्तते ॥
उमोवाच ।
भगवन्प्राणिनो बाला दृश्यन्ते मरणं गताः ।
अतिवृद्धाश्च जीवन्तो दृश्यन्ते चिरजीविनः ॥
केवलं कालमरणं न प्रमाणं महेश्वर ।
तस्मान्मे संशय ब्रूहि प्राणिनां जीवकारणम् ॥
महेश्वर उवाच ।
शृणु तत्कारणं देवि निर्णयस्त्वेक एव सः ।
जीर्णत्वमात्रं कुरुते कालो देहं न पातयेत् ॥
जीर्णे कर्मणि संघातः स्वयमेव विशीर्यते ।
पूर्वकर्मप्रमाणेन जीवितं मृत्युरेव वा ॥
यावत्पूर्वकृतं कर्म तावज्जीवति मानवः ।
तत्र कर्मवशाद्बाला म्रियन्ते कालसंक्षयात् ॥
चिरं जीवन्ति वृद्धाश्च तथा कर्मप्रमाणतः ।
इति ते कथितं देवि निर्विशङ्का भव प्रिये ॥
उमोवाच ।
भगवन्केन वृत्तेन भवन्ति चिरजीविनः ।
अल्पायुषो नराः केन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
शृणु तत्सर्वमखिलं गुह्यं पथ्यतरं नृणाम् ।
येन वृत्तेन सम्पन्ना भवन्ति चिरजीविनः ॥
अहिंसा सत्यवचनमक्रोधः क्षीन्तिरार्जवम् ।
गुरूणां नित्यशुश्रूषा वृद्धानामपि पूजनम् ॥
शौचादकार्यसंत्यागात्सदा पथ्यस्य भोजनम् ।
एवमादिगुणं वृत्तं नराणां दीर्घजीविनाम् ॥
तपसा ब्रह्मचर्येण रसायननिषेवणात् । उदग्रसत्त्वा बलिनो भवन्ति चिरजीविनः ।
स्वर्गे वा मानुषे वाऽपि चिरं तिष्ठन्ति धार्मिकाः
अपरे पापकर्माणः प्रायशोऽनृतवादिनः ।
हिंसाप्रिया गुरुद्विष्टा निष्क्रियाः शौचवर्जिताः ॥
नास्तिका घोरकर्माणः सततं मांसपानपाः ।
पापाचारा गुरुद्विष्टाः कोपनाः कलहप्रियाः ॥
एवमेवाशुभाचारास्तिष्ठन्ति नरके चिरम् । तिर्यग्योनौ तथाऽत्यन्तमल्पास्तिष्ठन्ति मानवाः ।
तस्मादल्पायुषो मर्त्यास्तादृशाः सम्भवन्ति ते ॥
अगम्यदेशगमनादपथ्यानां च भोजनात् ।
आयुःक्षयो भवेन्नॄणामायुःक्षयकरा हि ते ॥
भवन्त्यल्पायुषस्तैस्तैरन्यथा चिरजीविनः ।
एतत्ते कथितं सर्वं भूयः श्रोतुं किमिच्छसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चविँशत्यधिकद्विशततमोऽध्यायः ॥ 225 ॥

श्रीः