अध्यायः 226

अथ दानधर्मपर्व ॥ 1 ॥

परमेश्वरेण पार्वतींप्रति प्राणिनां स्त्रीत्वपुंस्त्वयोः स्वाभाविकत्वनिषेधेन कर्मायत्तत्वोक्तिः ॥ 1 ॥ तथा सात्विकादिधर्मादिप्रतिपादनम् ॥ 2 ॥

उमोवाच ।

देवदेव महादेव श्रुतं मे भगवन्निदम् ।
आत्मनो जातिसम्बन्धं ब्रूहि स्त्रीपुरुषान्तरम् ॥
स्त्रीप्राणाः पुरुषप्राणा एकतः पृथगेव वा ।
एष मे संशयो देव तं मे छेत्तुं त्वमर्हसि ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता ।
स्त्रीत्वं पुंस्त्वमिति प्राणे स्थितिर्नास्ति शुभेक्षणे ॥
निर्विकारः सदैवात्मा स्त्रीत्वं पुंस्त्वं न चात्मनि ।
कर्मप्रकारेण तथा जात्यां जात्यां प्रजायते ॥
कृत्वा कर्म पुमान्स्त्री वा स्त्री पुमानपि जायते ।
स्त्रीभावं यत्पुमान्कृत्वा कर्मणा प्रमदा भवेत् ॥
उमोवाच ।
भगवन्सर्वलोकेश कर्मात्मा न करोति चेत् ।
कोऽन्यः कर्मकरो देहे तन्मे त्वं वक्तुमर्हसि ॥
महेश्वर उवाच ।
शृणु भामिनि कर्तारमात्मा हि न च कर्मकृत् ।
प्रकृत्या गुणयुक्तेन क्रियते कर्म नित्यशः ॥
शरीरं प्राणिनां लोके यथा पित्तकफानिलैः ।
व्याप्तमेभिस्त्रिभिर्दोषैस्तथा व्याप्तं त्रिभिर्गुणैः ॥
सत्वं रजस्तमश्चैव गुणास्त्वेते शरीरिणः ।
प्रकाशात्मकमेतेषां सत्वं सततमिष्यते ॥
रजो दुःखत्मकं तत्र तमो मोहात्मकं स्मृतम् ।
त्रिभिरेतैर्गुणैर्युक्तं लोके कर्म प्रवर्तते ॥
सत्यं प्राणिदया शौचं श्रेयः प्रीतिः क्षमा दमः ।
एवमादि तथाऽन्यश्च कर्म सात्विकमुच्यते ॥
दाक्ष्यं कर्मपरत्वं च लोभो मोहो विधिं प्रति । कलत्रसङ्गो माधुर्यं नित्यमैश्वर्यलुब्धता ।
रजसश्चोद्भवं चैतत्कर्म नानाविधं सदा ॥
अनृतं चैव पारुष्यं धृतिर्विद्वेषिता भृशम् । हिंसाऽसत्यं च नास्तिक्यं निद्रालस्यभयानि च ।
तमसश्चोद्भवं चैतत्कर्म पापयुतं तथा ॥
तस्माद्गुणमयः सर्वः कार्यारम्भः शुभाशुभः ।
तस्मादात्मानमव्यग्रं विद्ध्यकर्तारमव्ययम् ॥
सात्विकाः पुण्यलोकेषु राजसा मानुषे पदे ।
तिर्यग्योनौ च नरके तिष्ठेयुस्तामसा नराः ॥
उमोवाच ।
किमर्थमात्मा भिन्नेऽस्मिन्देहे शस्त्रेण वा हते ।
स्वयं प्रयास्यति तदा तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
तदहं ते प्रक्ष्यामि शृणु कल्याणि कारणम् ।
एतन्निर्णायकैश्चापि मुह्यन्ते सूक्ष्मबुद्धिभिः ॥
कर्मक्षये तु सम्प्राप्ते प्राणिनां जन्मधारिणाम् ।
उपद्रवो भवेद्देहे येन केनापि हेतुना ॥
तन्निमित्तं शरीरी तु शरीरं प्राप्य संक्षयम् ।
अपयाति परित्यज्य ततः कर्मवशेन सः ॥
देहक्षयेपि नैवात्मा वेदनाभिर्न चाल्यते ।
तिष्ठेत्कर्मफलं यावद्व्रजेत्कर्मक्षये पुनः ॥
आदिप्रभृति लोकेऽस्मिन्नेवमात्मगतिः स्मृता ।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षड्विंशत्यधिकद्विशततमोऽध्यायः ॥ 226 ॥

श्रीः