अध्यायः 227
अथ दानधर्मपर्व ॥ 1 ॥
ईश्वरेणोमांप्रति प्राणिनामुद्भिदादिभेदेन चातुर्विध्यादिनिरूपणम् ॥ 1 ॥ तथा शास्त्रजन्यज्ञानस्य श्रेयः साधनत्वाद्युक्तिः ॥ 2 ॥
उमोवाच ।
भगवन्देवदेवेश कर्मणैव शुभाशुभम् ।
						यथायोगं फलं जन्तुः प्राप्नोतीति विनिश्चयः ॥
					परेषां विप्रियं कुर्वन्यथा सम्प्राप्नुयाच्छुभम् ।
						यद्येतदस्मिंश्चेद्देहे तन्मे शंसितुमर्हसि ॥
						महेश्वर उवाच । 
					तदप्यस्ति महाभागे अभिसन्धिबलान्नृणम् ।
						हितार्थं दुःखमन्येषां कृत्वा सुखमवाप्नुयात् ॥
					दण्डयन्भर्त्सयन्राजा जनान्पुण्यमवाप्नुयात् ।
							गुरुः सन्तर्जयञ्शिष्यान्भर्ता भृत्यजनान्स्वकान् ।
						
						उन्मार्गप्रतिपन्नांश्च शास्ता धर्मफलं लभेत् ॥
						
					चिकित्सकश्च दुःखानि जनयन्हितमाप्नुयात् ।
							यज्ञार्थं पशुहिंसां च कुर्वन्नपि न लिप्यते ।
						
						एवमन्ये सुमनसो हिंसकाः स्वर्गमाप्नुयुः ॥
						
					एकस्मिन्निहते भद्रे बहवः सुखमाप्नुयुः ।
						तस्मिन्हते भवेद्धर्मः कुत एव तु पातकम् ॥
					अहिंसतेति हत्वा तु शुद्धे कर्मणि गौरवात् ।
							अभिसन्धेरजिह्मत्वाच्छुद्धे धर्मस्य गौरवात् ।
						
						एतत्कृत्वा तु पापेभ्यो न दोषं प्राप्नुयुः क्वचित् ॥
						
						उमोवाच । 
					चतुर्विधानां जन्तूनां कथं ज्ञानमिह स्मृतम् ।
						कृत्रिमं तत्स्वभावं वा तन्मे शंसितुमर्हसि ॥
						महेश्वर उवाच । 
					स्थावरं जङ्गमं चैव जगद्द्विविधमुच्यते ।
						चतस्रो योनयस्तत्र प्रजानां क्रमशो यथा ॥
					तेषामुद्भिदजा वृक्षा लतावल्ल्यश्च वीरुधः ।
						दंशयूकादयश्चान्ये स्वेदजाः क्रिमिजातयः ॥
					पक्षिणश्छिद्कर्णाश्च प्राणिनस्त्वण्डजा मताः ।
						मृगव्यालमनुष्यांश्च विद्धि तेषां जरायुजान् ॥
					एवं चतुर्विधां जातिमात्मा संसृत्य तिष्ठति ॥
						
					स्पर्शेनैकेन्द्रियेणात्मा तिष्ठत्युद्भिदजेषु वै ।
						शरीरस्पर्शरूपाभ्यां स्वेदजेष्वपि तिष्ठति ॥
					पञ्चभिश्चेन्द्रियद्वारैर्जीवन्त्यण्डजरायुजाः ॥
						
					तथा भूम्यम्बुसंयोगाद्भवन्त्युद्भिदजाः प्रिये ।
							शीकतोष्णयोस्तु संयोगाज्जायन्ते स्वेदजाः प्रिये ।
						
						अण्डजाश्चापि जायन्ते संयोगात्क्लेदबीजयोः ॥
						
					शुक्लशोणितसंयोगात्सम्भवन्ति जरायुजाः ।
						जरायुजानां सर्वेषां मानुषं पदमुत्तमम् ॥
					अतःपरं तमोत्पत्तिं शृणु देवि समाहिता ।
						द्विविधं हि तमो लोके शार्वरं देहजं तथा ॥
					जोतिर्भिश्च तमो लोके नाशं गच्छति शार्वरम् ।
						देहजं तु तमो लोके तैः समस्तैर्न शाम्यते ॥
					तमसस्तस्य नाशार्थं नोपायमधिजग्मिवान् ।
						तपश्चचार वलिपुलं लोककर्ता पितामहः ॥
					चरतस्तु समुद्भूता वेदाः साङ्गाः सहोत्तराः ।
							ताँल्लब्ध्वा मुमुदे ब्रह्मा लोकानां हितकाम्यया ।
						
						देहजं तु तमो घोरमभूत्तैरेव नाशितम् ॥
						
					कार्याकार्यमिदं चेति वाच्यावाच्यमिदं त्विति ।
							यदि चेन्न भवेल्लोके श्रुतं चारित्रदैशिकम् ।
						
						पसुभिर्निर्विशेषं तु चेष्टन्ते मानुषा अपि ॥
						
					यज्ञादीनां समारम्भः श्रुतेनैव विधीयते ।
						यज्ञस्य फलयोगेन देवलोकः समृद्ध्यते ॥
					प्रीतियुक्ताः पुनर्देवा मानुषाणां भवन्त्युत ।
						एवं नित्यं प्रवर्धेते रोदसी च परस्परम् ॥
					लोकसन्धारणं तस्माच्छ्रुतमित्यवधारय ।
						ज्ञानाद्विशिष्टं जन्तूनां नास्ति लोकत्रयेऽपि च ॥
					सहजं तत्प्रधानं स्यादपरं कृत्रिमं स्मृतम् ।
						उभयं यत्र सम्पन्नं भवेत्तत्र तु शोभनम् ॥
					सम्प्रगृह्य श्रुतं सर्वं कृतकृत्यो भवत्युत ।
						उपर्युपरि मर्त्यानां देववत्सम्प्रकाशते ॥
					कामं क्रोधं भयं दर्पमज्ञानं चैव बुद्धिजम् ।
						तच्छ्रुतं नुदति क्षिप्रं यथा वायुर्बलाहकान् ॥
					अल्पमात्रं कृतो धर्मो भवेज्झानवतां महान् ।
						महानपि कृतो धर्मो ह्यज्ञानान्निष्फलो भवेत् ॥
					परावरझो भूतानां ज्ञानवांस्तत्वविद्भवेत् ।
						एवं श्रुतफलं सर्वं कथितं ते शुभक्षणे ॥
						उमोवाच । 
					भगवन्मानुषाः केचिज्जातिस्मरणसंयुताः ।
							किमर्थमभिजायन्ते जानन्तः पौर्वदैहिकम् ।
						
						एतन्मे तत्वतो देव मानुषेषु वदस्व भो ॥
						
						महेश्वर उवाच । 
					तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता ॥
						
					ये मृताः सहसा मर्त्या जायन्ते सहसा पुनः ।
						तेषां पौराणिको बोधः कञ्चित्कालं हि तिष्ठति ॥
					तस्माज्जातिस्मरा लोके जायन्ते बोधसंयुताः ।
							तेषां विवर्धतां संज्ञा स्वप्नवत्सा प्रणश्यति ।
						
						परलोकस्य चास्तित्वे मूढानां कारणं च तत् ॥
						
						उमोवाच । 
					भगवन्मानुषाः केचिन्मृता भूत्वाऽपि सम्प्रति ।
						निवर्तमाना दृश्यन्ते देहेष्वेव पुनर्नराः ॥
						महेश्वर उवाच । 
					तदहं ते प्रवक्ष्यामि कारणं शृणु शोभने ॥
						
					प्राणैर्वियुज्यमानानां बहुत्वात्प्राणिनां वधे ।
						तथैव नामसामान्याद्यमदूता नृणां प्रति ॥
					वहन्ति ते क्वचिन्मोहादन्यं मर्त्यं तु यामिकाः ।
						निर्विकारं हि तत्सर्वं यमो वेद कृताकृतम् ॥
					तस्मात्संयमनीं प्राप्य यमेनैकेन मोक्षिताः ।
							पुनरेव निवर्तन्ते शेषं भोक्तुं स्वकर्मणः ।
						
						स्वकर्मण्यसमाप्ते तु निवर्तन्ते हि मानवाः ॥
						
						उमोवाच । 
					भगवन्सुप्तमात्रेण प्राणिनां स्वप्नदर्शनम् ।
						किं तत्स्वभावमन्यद्वा तन्मे शंसितुमर्हसि ॥
						महेश्वर उवाच । 
					सुप्तानां तु मनश्चेष्टा स्वप्न इत्यभिधीयते ।
						अनागतमतिक्रान्तं पश्यते सञ्चरन्मनः ॥
					निमित्तं च भवेत्तस्मात्प्राणिनां स्वप्नदर्शनम् ।
						एतत्ते कथितं देवि भूयः श्रोतु किमिच्छसि ॥ ॥
					इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥ 227 ॥
श्रीः
