अध्यायः 230

अथ दानधर्मपर्व ॥ 1 ॥

परमेश्वरेण पार्वतींप्रति रौरवादिनरकविभजनपूर्वकं प्राणिनां दुष्कृततारतम्येन तेषु यातनानुभवप्रकारकथनम् ॥ 1 ॥ तथा यातनानुभवानन्तरं कर्मशेषफलतया नानानीचयोनिप्राप्त्यादिकथनम् ॥ 2 ॥

उमोवाच ।

भगवंस्ते कथं तत्र दण्ड्यन्ते नरकेषु वै ।
कति ते नरका घोराः कीदृशास्ते महेश्वर ॥
महेश्वर उवाच ।
शृणु भामिनि तत्सर्वं पञ्चैते नरकाः स्मृताः ।
भूमेरधस्ताद्विहिता घोरा दुष्कृतकर्मणाम् ॥
प्रथमं रौरवं नाम शतयोजनमायतम् ।
तावत्प्रमाणविस्तीर्णं तामसं पापपीडितम् ॥
भृशं दुर्गन्धि परुषं क्रिमिभिर्दारुणैर्वृतम् ।
अतिघोरमनिर्देश्यं प्रतिकूलं ततस्ततः ॥
ते चिरं तत्र तिष्ठन्ति न तत्र शयनासने ।
क्रिमिभिर्भक्ष्यमाणाश्च विष्ठागन्धसमायुताः ॥
एवंप्रमाणमुद्विग्ना यावत्तिष्ठन्ति तत्र ते ।
यातनाभ्यो दशगुणं नरके दुःखमिष्यते ॥
तत्र चात्यन्तिकं दुःखमिष्यते च शुभेक्षणे क्रोशन्तश्च रुद्रन्तश्च वेदनास्तत्रि भुञ्जते ॥
भ्रमन्ति दुःखमोक्षार्थं ज्ञाता कश्चिन्न विद्यते ।
दुःखस्यान्तरमात्रं तु ज्ञानं वा न च लभ्यते ॥
महारौरवसंज्ञं तु द्वितीयं नरकं प्रिये ।
तस्माद्द्विगुणितं विद्धि माने दुःखे च रौरवात् ॥
तृतीयं नरकं तत्र कण्टिकावनसंज्ञितम् । ततो द्विगुणितं तच्च पूर्वाभ्यां दुःखमानयोः ।
महापातकसंयुक्ता घोरास्तस्मिन्विशन्ति हि ॥
अग्निकुण्डमिति ख्यातं चतुर्थं नरकं प्रिये ।
एतद्द्विगुणितं तस्माद्यथानिष्टसुखं तथा ॥
ततो दुःखं हि सुमहदमानुषमिति स्मृतम् ।
भुञ्जते तत्रतत्रैव दुःखं दुष्कृतकारिणः ॥
तत्र दुःखमनिर्देश्यं वहद्धोरं यथा तथा । पञ्चेन्द्रियैरसम्बाधात्पञ्चकष्टमिति स्मृतम् ।
भुञ्जते तत्रतत्रैव दुःखं दुष्कृतकारिणः ॥
अमानुषार्हजं दुःखं महाभूतैश्च भुञ्जते ।
अतिघोरं चिरं कृत्वा महाभूतानि यान्ति तम् ॥
पञ्च् कष्टेन हि समं नास्ति दुःखं तथा परम् ।
दुःखस्थानमिति प्राहुः पञ्चकष्टमिति प्रिये ॥
एवं त्वेतेषु तिष्ठन्ति प्राणिनोः दुःखभागिनः ।
अन्ये च नरकाः सन्ति अवीचिप्रमुखाः प्रिये ॥
क्रोशन्तश्च रुदन्तश्च वेदनर्ता भृशातुराः ।
केचिद्भमन्तश्चेष्टन्ते केचिद्धावन्ति चातुराः ॥
आधावन्तो निवार्यन्ते शूलहस्तैर्यतस्ततः ।
रुजार्दितास्तृषायुक्ताः प्राणिनः पापकारिणः ॥
यावत्पूर्वकृतं तावन्न मुच्यन्ते कथञ्चन ।
क्रिमिभिर्भक्ष्यमाणाश्च वेदनार्तास्तृषान्विताः ॥
संस्मरन्तः स्वकं पापं कृतमात्मापराधजम् । शोचन्तस्तत्र तिष्ठन्ति यावत्पापक्षयं प्रिये ।
एवं भुक्त्वा तु नरकं मुच्यन्ते पापसंक्षयात् ॥
उमोवाच ।
भगवन्कतिकालं ते तिष्ठन्ति नरकेषु वै ॥
महेश्वर उवाच ।
शतवर्षसहस्राणामादिं कृत्वा हि जन्तवः ।
तिष्ठन्ति नरकावासाः प्रलयान्तमिति स्थितिः ॥
उमोवाच ।
भगवंस्तेषु के तत्र तिष्ठन्तीति वद प्रभो ॥
महेश्वर उवाच ।
रौरवे शतसाहस्रं वर्षाणामिति संस्थितिः ।
मानुषघ्नाः कृतघ्नाश्च तथैवानृतवादिनः ॥
द्वितीये द्विगुणं कालं पच्यन्ते तादृशा नराः ।
महापातकयुक्तास्तु तृतीये दुःखमाप्नुयुः ॥
एतावन्मानुषसहं परमन्येषु लक्ष्यते ॥
यक्षा विद्याधराश्चैव काद्रवेयाश्च किंनराः । गन्धर्वभूतसङ्घाश्च तेषां पापयुता भृशम् ।
चतुर्थे परिपच्यन्ते तादृशा नरकाः स्मृताः ॥ चतुर्थे परितप्यन्ते यावद्युगविपर्ययः ।
सहन्तस्तादृशं घोरं पञ्चकष्टे तु यादृशम् ।
तत्रास्य चिरदुःखस्य ह्यधोन्यान्विद्धि मानुषान् ॥
एवं ते नरकान्भुक्त्वा तत्र क्षपितकल्मषाः ।
नरकेभ्यो विमुक्ताश्च जायन्ते कृमिजातिषु ॥
उद्भेदजेषु वा केचिदत्रापि क्षीणकल्मषाः । पुनरेव प्रजायन्ते मृगपक्षिषु शोभने ।
मृगपक्षिषु तद्भुक्त्वा लभन्ते मानुषं पदम् ॥
उमोवाच ।
नानाजातिषु केनैव जायन्ते पापकारिणः ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि यत्त्वमिच्छसि शोभने ।
सर्वदाऽऽत्मा कर्मवशो नानाजातिषु जायते ॥
यश्च मांसप्रियो नित्यं काकगृध्नान्स संस्पृशेत् ।
सुरापः सततं मर्त्यः सूकरत्वं व्रजेद्भुवम् ॥
अभक्ष्यभक्षणो मर्त्यः काकजातिषु जायते ।
आत्मघ्नो यो नरः कोपात्प्रेतजातिसु तिष्ठति ॥
पैशुन्यात्परिवादाच्च कुक्कुटत्वमवाप्नुयात् ।
नास्तिकश्चैव यो मूर्खो मृगजातिं स गच्छति ॥
हिंसाविहारस्तु नरः क्रिमिकीटेषु जायते ।
अतिमानयुतो नित्यं प्रेत्य गर्दभतां व्रजेत् ॥
अगम्यागमनाच्चैव परदारनिषेवणात् ।
मूषिकत्वं व्रजेन्मर्त्यो नास्ति तत्र विचारणा ॥
कृतघ्नो मित्रघाती च सृगालवृकजातिषु ।
कृतघ्नः पुत्रघाती च स्थावरेष्वथ तिष्ठति ॥
एवमाद्यशुभं कृत्वा नरा निरयगामिनः ।
तांस्तान्भावान्प्रपद्यन्ते स्वकृतस्यैव कारणात् ॥
एवंजातिषु निर्देश्याः प्राणिनः पापकारिणः ।
कथंचित्पुनरुत्पद्यि लभन्ते मानुषं पदम् ॥
बहुशश्चाग्निसङ्क्रान्तं लोहं शुचिमयं तथा । बहुदुःखाभिसन्तप्तस्तथाऽऽत्मा शोध्यते बलात् ।
तस्मात्सुदुर्लभं चेति विद्धि जन्मसु मानुषम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिंशदधिकद्विशततमोऽध्यायः ॥ 230 ॥

श्रीः