अध्यायः 234
अथ दानधर्मपर्व ॥ 1 ॥
महेश्वरेण पार्वतींप्रति दानस्य षाङ्गुण्यप्तिपादनपूर्वकं तत्फलकथनम् ॥ 1 ॥
महेश्वर उवाच ।
एतदर्थमवाप्नोति नरः प्रेत्य शुभेक्षणे ॥ उमोवाच ।
लोकसिद्धं तु यद्द्रव्यं सर्वसाधारणं भवेत् ।
तददत्सर्विसामान्यं कथं धर्मं लभेन्नरः ।
एवं साधारणे द्रव्ये तस्य स्वत्वं कथं भवेत् ॥ महेश्वर उवाच ।
लोके भूतमयं द्रव्यं सर्वसाधारणं तथा ।
तथैव तद्ददन्मर्त्यो लभेत्पुण्यं स तच्छृणु ॥
दाता प्रतिग्रहीता च देयं सोपक्रमं तथा ।
देशकालौ च यत्त्वेतद्दानं षङ्गुणमुच्यते ।
तेषां सम्पद्विशेषांश्च कीर्त्यमानान्निबोध मे ॥
आदिप्रभृति यः शुद्धो मनोवाक्कायकर्मभिः । सत्यवादी
जितक्रोधस्त्वलुब्धो नाभ्यसूयकः । श्रुद्धावानास्तिकश्चैवक एवं दाता
प्रशस्यते ॥
शुद्रो दान्तो जितक्रोधस्तथा दीनकुलोद्भवः ।
श्रुतचारित्रसम्पन्नस्तथा बहुकलत्रवान् ॥
पञ्चयज्ञपरो नित्यं निर्विकारशरीरवान् ।
एतान्पात्रगुणान्विद्धि तादृक्पात्रं प्रशस्यते ॥
पितृदेवाग्निकार्येषु तस्य दत्तं महाफलम् ।
यद्यदर्हति यो लोके पात्रं तस्य भवेच्च सः । मुच्येदापद आपन्नो
येन पात्रं तदस्य तु ॥
अन्नस्य क्षुधितं पात्रं तृषितस्तु जलस्य वै ।
एवं पात्रेषु नानात्वमिष्यते पुरुषं प्रति ॥
जारश्चोरश्च षण्डश्च हिंस्रः समयभेदकः ।
लोकविघ्नकराश्चान्ये वर्जितव्याः सर्वशः प्रिये ॥
परोपघाताद्यद्द्रव्यं चौर्याद्वा लभ्यते नृभिः ।
निर्दयाल्लभ्यते यच्च धूर्तभावेन वै तथा ॥
अधर्मादर्थमोहाद्वा बहूनामुपरोधनात् ।
यल्लभ्यते धनं देवि तदत्यन्तविगर्हितम् ॥
तादृशेन कृतं धर्मं निष्फलं विद्धि भामिनि ।
तस्मान्न्यायागतेनैव दातव्यं शुभमिच्छता ॥
यद्यदात्मप्रियं नित्यं तत्तद्देयमिति स्थितिः ।
उपक्रममिमं विद्धि दातॄणां परमं हितम् ॥
पात्रभूतं तु दूरस्थमभिगम्य प्रसाद्य च ।
दाता दानं तथा दद्याद्यथा तुष्येत तेन सः । एष दानविधइः श्रेष्ठः
समाहूय तु मध्यमः ॥
पूर्वं च पात्रतां ज्ञात्वा समाहूय निवेद्य च ।
शौचाचमनसंयुक्तं दातव्यं श्रद्धया प्रिये ॥
याचितॄणां तु परममाभिमुख्यं पुरस्कृतम् ।
संमानपूर्वं सङ्ग्राह्यं दातव्यं देशकालयो ॥
अपात्रेभ्योपि चान्येभ्यो दातव्यं भूतिमिच्छता ॥
पात्राणि सम्परीक्ष्यैव दात्रा वै नाममात्रया ।
अतिशक्तया परं दानं यथाशक्ति तु मध्यमम् ।
तृतीयं चापरं दानं नानुरूपमिवात्मनः ॥
यथा सम्भाषितं पूर्वं दातव्यं तत्तथैव च ।
पुण्यिक्षेत्रेषु यद्दत्तं पुण्यकालेषु वा यथा । तच्छोभनतरं
विद्धि गौरवाद्देशकालयोः ॥ उमोवाच ।
यश्च पुण्यतमो देशस्तथा कालश्च शंस मे ॥ महेश्वर उवाच ।
कुरुक्षेत्रं महानन्यो यश्च देवर्षिसेवितः ।
गिरिर्वरश्च तीर्थानि देशभागेषु पूजितः ।
ग्रहीतुमीप्सितो यत्र तत्र दत्तं महाफमल् ॥
शरद्वसन्तकालश्च पुण्यमासस्तथैव च ।
शुक्लपक्षश्च पक्षाणां पौर्णमासी च पर्वसु ॥
पितृदैवतनक्षत्रनिर्मलो दिवसस्तथा ।
तच्छोभनतरं विद्धि चन्द्रसूर्यग्रहे तथा ॥
प्रतिग्रहीतुर्यः कालो मनसा कीर्तितः शुभे ।
एवमादिष्टकालेषु दत्तं दानं महद्भवेत् ॥
दाता देयं च पात्रं च उपक्रमयुता क्रिया ।
देशकालं तथा तेषां सम्पच्छुद्धिः प्रकीर्तिता ॥
यथैव युगपत्सम्पत्तत्र दानं महद्भवेत् ॥
अत्यल्पमपि यद्दानमेभिः षड्भिर्गुणैर्युतम् ।
भूत्वाऽनन्तं नयेत्स्वर्गं दातारं दोषवर्जितम् ॥
सुमहद्वाऽपि यद्दानं गुणैरेभिर्विनाकृतम् ।
अत्यल्पफलनिर्योगमफलं वा फलोद्धतम् ॥ उमोवाच ।
एवंगुणयुतं दानं दत्तं च फलतां व्रजेत् ।
तदस्ति चेन्महद्देयं तन्मे शंसितुमर्हसि ॥ महेश्वर उवाच ।
तदप्यस्ति महाभागे नराणां भावदोषतः ॥
कृत्वा धर्मं तु विधिवत्पश्चात्तापं करोति चेत् ।
श्लाघया वा यदि ब्रूयाद्वृथा संसदिं यत्कृतम् ॥
प्रकल्पयेच्च मनसा तत्फलं प्रेत्यभावतः ।
कर्म धर्मकृतं यच्च सततं फलकाङ्क्षया । एतत्कृतं वा दत्तं वा
परत्र विफलं भवेत् ॥
एते दोषा विवर्ज्याश्च दातृभिः पुण्यकाङ्क्षिभिः ।
सनातनमिदं वृत्तं सद्भिराचरितं तथा ॥
अनुग्रहात्परेषां तु गृहस्थानामृणं हि तत् ।
इत्येवं मन आविश्य दातव्यं सततं बुधैः ॥
एवमेव कृतं नित्यं सुकृतं तद्भवेन्महत् ।
सर्वसाधारणं द्रव्यमेवं दत्त्वा महत्फलम् ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 234 ॥
श्रीः